वनो र च

4-1-7 वनः र च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

वन्-प्रत्ययः यस्य अन्ते अस्ति तादृशात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति, तथा च प्रक्रियायाम् वन्-प्रत्ययस्य नकारस्य रेफादेशः भवति ।

Kashika

Up

वन्नन्तात् प्रातिपदिकाद् स्त्रियां ङीप् प्रत्ययो भवति, रेफश्चान्तादेशः। धीवरी। पीवरी। शर्वरी। परलोकदृश्वरी। <<ऋन्नेभ्यः०>> ४.१.५ इत्येव ङीपि सिद्धे तत्सन्नियोगेन रेफविधानार्थं वचनम्॥ वाने न हशः॥ प्राप्तौ ङीब्रावुभावपि प्रतिषिध्येते। सहयुध्वा ब्राह्मणी॥

Siddhanta Kaumudi

Up

वन्नन्तात्तदन्ताच्च प्रातिपदिकात् स्त्रियां ङीप् स्यात् रश्चान्तादेशः । वन्निति ङ्वनिप्क्वनिप्वनिपां सामान्यग्रहणम् । [(परिभाषा - ) प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्] । तेन प्रातिपदिकविशेषणात्तदन्तान्तमपि लभ्यते । सुत्वानमतिक्रान्ता अतिसुत्वरी । अतिधीवरी । शर्वरी ।<!वनो न हश इति वक्तव्यम् !> (वार्तिकम्) ॥ हशन्ताद्धातोर्विहितो यो वन् तदन्तात्तदन्तान्ताच्च प्रातिपदिकात् ङीप् रश्च नेत्यर्थः । ओणृ अपनयने । वनिप् । विड्वनोः <{SK2982}> इत्यात्वम् । अवावा ब्राह्मणी । राजयुध्वा ॥<!बहुव्रीहौ वा !> (वार्तिकम्) ॥ बहुधीवरी । बहुधीवा । पक्षे डाप् वक्ष्यते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । अस्मिन् सूत्रे विद्यमान: वन् इति शब्दः ङ्वनिप्, क्वनिप् तथा वनिप् इति त्रयाणाम् कृत्-प्रत्ययानाम् ग्रहणं करोति । ङ्वनिप्, क्वनिप्, वनिप्-प्रत्ययान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति, तथा च प्रक्रियायाम् प्रत्ययान्त-नकारस्य रेफादेशः भवति — इति अस्य सूत्रस्य अर्थः । वस्तुतः एते त्रयः अपि प्रत्ययाः नकारान्ताः सन्ति, अतः ङीप्-प्रत्ययः तु <<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेनैव भवितुम् अर्हति; परन्तु तत्सन्नियोगेन रेफादेशस्य विधानार्थम् इदं पृथक् सूत्रं रचितं वर्तते । अपि च, <<प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्>> इत्यनया परिभाषया अत्र तदन्तविधिः अपि अवश्यं प्रवर्तते । क्रमेण उदाहरणानि एतानि — 1. ङ्वनिप्-प्रत्ययः — <<सुयजोर्ङ्वनिप्>> 3.2.103 इति सूत्रेण सु-धातोः, यज्-धातोः च भूते कर्त्रर्थे ङ्वनिप्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः क्रियते, तथा च नकारस्य रेफादेशः अपि भवति । प्रक्रिया इयम् — सु + ङ्वनिप् [<<सुयजोर्ङ्वनिप्>> 3.2.103 इति ङ्वनिप्] → सु + वर् + ङीप् [<<वनो र च>> 4.1.7 इति ङीप्-प्रत्ययः, नकारस्य च रेफादेशः] → सु तुक् + वर्+ ई [<<ह्रस्वस्य पिति कृति तुक्>> 6.1.71 इति तुगागमः] → सुत्वरी 2. क्वनिप्-प्रत्ययः — <<अन्येभ्योऽपि दृश्यन्ते>> 3.2.75 इत्यनेन धा-धातोः क्वनिप्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः क्रियते, तथा च नकारस्य रेफादेशः भवति । प्रक्रिया इयम् — डुधाञ् (धारणपोषणयोः, <{3.11}>) → धा + क्वनिप् [<<अन्येभ्योऽपि दृश्यन्ते>> 3.2.75 इति ङ्वनिप्] → धा + वर् + ङीप् [<<वनो र च>> 4.1.7 इति ङीप्-प्रत्ययः, नकारस्य च रेफादेशः] → धी + वर् + ई [<<घुमास्थागापाजहातिसां हलि>> 6.4.66 इति ईकारादेशः] → धीवरी 3. वनिप्-प्रत्ययः — <<अन्येभ्योऽपि दृश्यन्ते>> 3.2.75 इत्यनेन शॄ-धातोः वनिप्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः क्रियते, तथा च नकारस्य रेफादेशः भवति । प्रक्रिया इयम् — शॄ (हिंसायाम्, <{9.21}>) → शॄ + वनिप् [<<अन्येभ्योऽपि दृश्यन्ते>> 3.2.75 इति वनिप्] → शॄ + वर् + ङीप् [<<वनो र च>> 4.1.7 इति ङीप्-प्रत्ययः, नकारस्य च रेफादेशः] → शर् + वर् + ई [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → शर्वरी वार्त्तिकम् — <!वनो न हश इति वक्तव्यम्!> हश्-प्रत्याहारस्य वर्णः (इत्युक्ते, मृदुव्यञ्जनम्) यस्य धातोः अन्ते विद्यते, तस्मात् धातोः वन्-प्रत्यये कृते प्रकृतसूत्रं नैव प्रवर्तते (इत्युक्ते, ङीप्-प्रत्ययः, रेफादेशश्च नैव भवतः) — इति अस्य वार्त्तिकस्य अर्थः । यथा — 1. ओण्-धातोः <<अन्येभ्योऽपि दृश्यन्ते>> 3.2.75 इत्यनेन वनिप्-प्रत्यये कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रं नैव प्रवर्तते, यतः अस्य धातोः अन्ते णकारः (हश्-व्यञ्जनम्) अस्ति । प्रक्रिया इयम् — ओणितवती इति = ओणृ (अपनयने, <{1.523}>) → ओण् + वनिप् [<<अन्येभ्योऽपि दृश्यन्ते>> 3.2.75 इति वनिप्] → ओ आ + वन् [<<विड्वनोरनुनासिकस्यात्>> 6.4.41 इति आकारादेशः] → अवावन् [<<एचोऽयवायावः>> 6.1.78 इति अवादेशः] अनेन प्रकारेण सिद्धः अवावन्-शब्दः स्त्रीलिङ्गे अपि स्त्रीप्रत्ययं विना एव प्रयुज्यते, अतएव अवावा ब्राह्मणी इति प्रयोगः साधुत्वं प्राप्नोति । 2. युध्-धातोः <<राजनि युधिकृञः>> 3.2.95 इत्यनेन क्वनिप्-प्रत्यये कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रं नैव प्रवर्तते, यतः अस्य धातोः अन्ते धकारः (हश्-व्यञ्जनम्) अस्ति। प्रक्रिया इयम् — राजानम् योधितवती इति = युधँ (सम्प्रहारे, <{4.69}>) → राजन् + युध् + क्वनिप् [<<राजनि युधिकृञः>> 3.2.95 इति क्वनिप्-प्रत्ययः, <<उपपदमतिङ्>> 2.2.19 इति उपपदसमासः, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक्] → राज + युध् + वन् [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः] → राजयुध्वन् अनेन प्रकारेण सिद्धः राजयुध्वन्-शब्दः स्त्रीलिङ्गे अपि स्त्रीप्रत्ययं विना एव प्रयुज्यते, अतएव राजयुध्वा ब्राह्मणी इति प्रयोगः साधुत्वं प्राप्नोति ।

  1. यज्-धातोः <<सुयजोर्ङ्वनिप्>> 3.2.103 इत्यनेन ङ्वनिप्-प्रत्यये कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रस्य प्रयोगः न भवति, यतः अस्य धातोः अन्ते जकारः (हश्-व्यञ्जनम्) अस्ति । प्रक्रिया इयम् — इष्टवती सा = यज् (देवपूजासङ्गतिकरणदानेषु, <{1.1157}>) → यज् + ङ्वनिप् [<<सुयजोर्ङ्वनिप्>> 3.2.103 ] → यज्वन् अनेन प्रकारेण सिद्धः यज्वन्-शब्दः स्त्रीलिङ्गे अपि स्त्रीप्रत्ययं विना एव प्रयुज्यते, अतएव यज्वा ब्राह्मणी इति प्रयोगः साधुत्वं प्राप्नोति । वार्त्तिकम् — <!बहुव्रीहौ वा!> बहुव्रीहिसमासस्य उत्तरपदरूपेण विद्यमानस्य वन्-प्रत्ययान्तशब्दस्य विषये स्त्रीत्वं द्योतयितुम् विकल्पनैव प्रकृतसूत्रस्य प्रयोगः भवति — इति अस्य वार्त्तिकस्य आशयः । <<अनो बहुव्रीहेः>> 4.1.12 इति सूत्रेण अन्नन्त-बहुव्रीहिसमस्तपदस्य विषये ङीप्-प्रत्ययस्य निषेधे कृते, वन्नन्त-बहुव्रीहिसमस्तपदस्य विषये तस्य विकल्पेन पुनर्विधानं कर्तुम् इदं वार्त्तिकम् पाठितम् अस्ति । यथा, बहवः धीवानः यस्याः सा इत्यत्र बहु + धीवन् इत्यस्मात् अनेन वार्त्तिकेन विकल्पेन ङीप्-प्रत्ययः, तदनुषङ्गेन च नकारस्य रेफे कृते बहुधीवरी इति शब्दः सिद्ध्यति । पक्षे <<डाबुभाभ्यामन्यतरस्याम्>> 4.1.13 इत्यनेन विकल्पेन डाप्-प्रत्यये कृते बहुधीवा इति शब्दः अपि साधुत्वम् प्राप्नोति, तथा च पक्षे स्त्रीप्रत्ययं विना बहुधीवन् इत्येव स्त्रीलिङ्गवाचीशब्दः अपि सिद्ध्यति । <!बहुव्रीहौ वा!> इति वार्त्तिकं तदा एव प्रयुज्यते तदा <<अनो बहुव्रीहेः>> 4.1.12 इति सूत्रेण अन्नन्त-बहुव्रीहिसमस्तपदस्य विषये ङीप्-प्रत्ययस्य निषेधः कृतः वर्तते । यदि <!वनो न हश इति वक्तव्यम्!> इति वार्त्तिकेन ङीप्-प्रत्ययस्य निषेधः भवति, तर्हि तत्र <!बहुव्रीहौ वा!> इति वार्त्तिकं नैव प्रवर्तते । अतएव बहवः यज्वानः यस्याः सा इत्यत्र <!बहुव्रीहौ वा!> इति वार्त्तिकं नैव प्रयुज्यते । <pv> तदन्तविधिः प्रकृतसूत्रे वन् इत्यनेन प्रत्ययस्य निर्देशः क्रियते, अतः <<प्रत्ययग्रहणे यस्मात् स विहितः तदादेः तदन्तस्य च ग्रहणम्>> इति परिभाषया अत्र तदन्तविधिः अवश्यं प्रवर्तते । परन्तु; वनः इति शब्दः अत्र प्रातिपदिकात् इत्यस्य विशेषणरूपेण अपि प्रयुक्तः अस्ति, अतः <<ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति>> इत्यनेन (अथवा, अस्याः परिभाषायाः मूले विद्यमानेन <<समासप्रत्ययविधौ प्रतिषेधः>> इति वार्त्तिकेन) अत्र तदन्तविधेः निषेधः अपि सम्भवति । अतः अत्र तदन्तविधिः भवेद् उत न भवेद् - इति प्रश्ने जाते; <<अजाद्यतष्टाप्>> 4.1.4 इत्यत्र भाष्यकारेण दत्तः निर्णयः अत्र उपयुज्यते । <<अजाद्यतष्टाप्>> 4.1.4 इत्यत्र निर्दिष्टे अजादिगणे विद्यमाने <!शूद्रा चामहत्पूर्वा जातिः!> इति वार्त्तिके / गणसूत्रे उपस्थितम् अमहत्पूर्वा इति पदम् आश्रित्य भाष्यकारः तत्र स्त्रीप्रत्ययप्रकरणे ग्रहणवता प्रातिपदिकेन तदन्तविधिः अवश्यम् भवति इति निर्णयति । एनं निर्णयम् अनुसृत्य प्रकृतसूत्रस्य विषये अपि <<प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्>> इत्यनया परिभाषया तदन्तविधिः अवश्यम् प्रवर्तते। अतएव, यथा ङ्वनिप्-प्रत्ययान्तस्य सुत्वन्-शब्दस्य स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रं उपयुज्य सुत्वरी इति शब्दः सिद्ध्यति, तथैव सुत्वानम् अतिक्रान्ता इत्यत्र <! अत्यादयः क्रान्ताद्यर्थे द्वितीयया !> इति वार्त्तिकेन तत्पुरुषसमासे कृते अति + सु + ङ्वनिप् इत्यस्याम् अवस्थायाम् अपि प्रकृतसूत्रेणैव ङीप्-प्रत्ययः, तदनुषङ्गेन नकारस्य रेफादेशः भवति, येन अतिसुत्वरी इति शब्दः सिद्ध्यति । अनेनैव प्रकारेण धीवानम् अतिक्रान्ता = अति + धा + क्वनिप् + ङीप् → अतिधीवरी इत्यत्र, तथा च परलोकं दृष्टवती = परलोक + दृश् +क्वनिप् + ङीप् → परलोकदृश्वरी इत्यत्रापि ङीप्-प्रत्ययेनैव रूपं सिद्ध्यति ।

Balamanorama

Up

<<वनो र च>> - वनोर च । वनः र चेति च्छेदः ।र॑इति लुप्तप्रथमाकम्, अकार उच्चारणार्थः । चकारात्ङीप्समुच्चीयते ।वन॑इति पञ्चम्यन्तम् । तेन वन्प्रत्ययान्तं तदन्तं च विवक्षितम् ।प्रातिपदिका॑दित्यधिकृतम् । तदाह-वन्नन्तादित्यादिना । अन्तादेश इति ।प्रकृते॑रिति शेषः । नान्तत्वादेव ङीप्प्राप्तः, तत्संनियोगेन रेफमात्रमिह विधेयम् । सामान्येति । अनुबन्धविनिर्मुक्तवन॑ग्रहणस्य त्रिष्वपि साधारणत्वादिति भावः ।ननु वन्ग्रहणेन वन्प्रत्ययान्तं तदन्तं च कथं लभ्यत इत्यत आह-प्रत्ययग्रहणे इति । यस्मात्प्रकृतिभूताच्छब्दाद्यः प्रत्ययो विहितः तदादेः=स प्रकृतिभूतः शब्द आदिर्यस्य तस्य , तदन्तस्य=स प्रत्ययोऽन्तो यस्य समुदायस्य, तस्य च ग्रहणम् । प्रकृतिप्रत्ययसमुदायस्य तन्मध्यवर्तिनश्च ग्रहणमित्यर्थः ।तिड्डतिङ॑इत्यत्र तिङ्ग्रहणेन शबादिविकरणस्यापि ग्रहणार्थं तदादिग्रहणम् ।यस्मात्प्रत्ययविधि॑रिति सूत्रे इयं परिभाषा भाष्ये स्थिता । तेनेति । वन्नन्तेन प्रातिपदिकादित्यधिकृतस्य विशेषणात्पुनस्तदन्तविधिलाभावादिति भावः । नचैवं सति वन्नन्तस्य कथं लाभ इति वाच्यं,यनविधिस्तदन्तस्ये॑त्यत्रस्वं रूप॑मित्यतः॒स्व॑मित्यनुवर्त्त्य विभक्तिविपरिणामेन स्वस्य चेति व्याख्यानादिति भानः । तदेतदपिशब्देन सूचितम् । वन्नन्तमेव व्यपदेशिवत्त्वेन वन्नन्तान्तमिति केचित् ।ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति तुस्त्रिया॑मित्यस्मिन्नधिकारे न प्रवर्तते,शूद्रा चामहत्पूर्वा जातिः॑इत्यत्र अमहत्पूर्वेति लिङ्गात् । अथ वन्नान्तान्तमुदाहरति-सुत्वानमिति । 'षुञ् अभिषवे' 'सुजयोङ्र्वनिप्'ह्रस्वस्य पिति कृती॑ति तुक् । सुत्वन्शब्दः । सुत्वानमतिक्रान्ता इति विग्रहेअत्यादयः॑इति समासः । सुब्लुकि, ङीप्, नकारस्य रत्वम्, इतिसुत्वरीति रूपम् । अतिधीवरीति ।डुधाञ्धारणपोषणयोः॑,अन्येभ्योऽपि दृश्यते॑इति भाषायामपि क्वनिप् ।घुमास्था॑इति ईत्त्वम् । धीवानमतिक्रान्ता इति विग्रहे 'अत्यादयः' इति समासः । ङीब्राश्च, अतिधीवरीति रूपम् । भाष्ये तुध्यायतेः क्वनिपि संप्रसारणे 'हलः॑इति दीर्घ' इति स्थितम् । शर्वरीति ।शृ हिंसायाम्,आतो मनिन्क्वनिब्वनिपश्च॑,अन्येभ्योऽपि दृश्यते॑ इति भाषायामपि वनिप्,सार्वधातुकार्धधातुकयोः॑ इति गुणः,वनो र चे॑ति ङीब्राश्च । वन्नन्तस्योदाहरणमेतत् ।अतिशर्वरी॑ति पाठे तु इदमपि वन्नन्तातन्तस्योदाहरणम् । सुत्वरी, धीवरी, शर्वरीति वन्नन्तस्योदाहरणानि । वनो नेति । पूर्ववद्वन्नन्तं वन्नन्तान्तं च गृह्रते । 'हश' इति पञ्चमी, तेन च धातोरित्यधिकृत्य विहितेवनाऽऽक्षिप्तं धातोरित्येतद्विशेष्यते, तदन्तविधिः । ङीबिति रश्चेति चानुवर्तते । तदाह — हशन्तादित्यादिना । विहितविशेषणस्य प्रयोजनं दर्शयन्वन्नन्तोदाहरणं दर्शयितुमाह — ओणृ इत्यादिना । वनिबिति ।अन्येभ्योऽपि दृश्यते इत्यनेने॑ति शेषः । आवावेति । ओण् इत्यस्मद्वनिपिविड्वनोरनुनासिकस्या॑दिति णकारस्य आत्त्वे ओकारस्यावादेशे 'अवावन्' शब्दः । स्त्रीत्वस्फोरणायब्राआहृणी॑ति विशेष्यम् । अत्र ओण् इति धातोर्हशन्ताद्वन् विहितः, तदन्तत्वान्न ङीब्रात्वे, किंतु राजवद्रूपम् ।हशन्ताद्धातोः परो यो व॑न्निति व्याख्याने तु आत्वे सति वनो हशः परत्वाऽभावान्निषेधो न स्यादिति भावः । वन्नन्तान्तमुदाहरति-राजयुध्वेति । राजानं योधितवतीत्यर्थः । भूते कर्मणि क्विबित्यनुवर्तमाने 'राजनि युधिकृञः' इति क्वनिप् । कर्मीभूते राजनि उपपदे युधेः कृञ्श्च क्वनिबिति तदर्थः । उपपदसमासे सुब्लुकि राजयुध्वन्शब्दः । अत्र हशो विहितो वन्, तदन्तो युध्वन्शब्दः, तदन्तो राजयुध्वन्शब्दः, अतो न ङीब्राआदेशावित्यर्थः । बहुव्रीहौ वा । इदं वार्तिकम् ।वनो र चे॑ति विधिर्वहुव्रीहौ वा स्यादित्यर्थः ।अनो बहुव्रीहे॑रिति निषेधस्यापवादः । बहुधीवरीति । बहवो धीवानो यस्या इति विग्रहः । बहुधीवेति । ङीब्रात्वयोरभावे राजवद्रूपम् । नच बहूनि पर्वाणि यस्याः सा बहुपर्वेत्यत्रापि हीब्रात्वविकल्पः स्यादिति वाच्यम्, 'अल्लोपोऽनः' इति उपधालोपयोग्यस्थल एवैतद्वार्तिकस्य प्रवृत्तेर्भाष्ये उक्तत्वात् । बहुपर्वन्शब्दे चन संयोगाद्वनमन्ता॑दित्यचल्लोपनिषेधात् । पक्षे इति । ङीब्रात्वाऽभावपक्षेडाबुभाभ्या॑मिति डाब्वक्ष्यत इत्यर्थः । डपावितौ । बहुधीवन्-आ इति स्थिते 'टेः' इति टिलोपे बहुधीवाशब्दात्सोर्हल्ङ्यादिलोपेबहुधीवे॑ति रमावद्रूपम् । ङीब्रात्वयोर्डापश्चऽभावेसौ बहुधीवेत्येव रूपम् । ङीब्रात्वयोर्बहुधीवरीति । औजसादिषु तु बहुधीवर्यौ-बहुधीवे बहूधीवानौ इत्यादि रूपत्रयमिति भावः ।

Padamanjari

Up

'वनः' इति क्वनिब्वनिब्ङ्वनिपां प्रत्ययानां सामान्येन ग्रहणम्, न'वन षण संभक्तौ' ,'वनु याचेन' इति धात्वोर्विजन्तयोः, कुतः ?'प्रत्ययाप्रत्ययोः प्रत्ययस्यैव ग्रहणम्' इति । अत एव शुनो निष्क्रान्ता युवानमतिक्रान्ता निः शुनी अतियूनीत्यत्रापि न भवति, अनर्थकत्वाद्वा । शर्वरीति ।'शृ हिंसायाम्' , ठन्येभ्योऽपि दृश्यन्तेऽ इति वनिप् । परलोकदृश्वरीति ।'दृशेः क्वनिप्' । वनो न हश इति । विहितविशेषणं हश्ग्रहणम्, हशन्ताद्धातोर्यो वन्विहितस्तदन्तात्प्रातिपदिकान् ङीब्रौ न भवत इत्यर्थः, तेन 'सर्वरीत्यत्र प्रतिषेधाभावः । तथा ठोणृ अपनयेनऽ वनिपि'विड्वनोरनुनासिकस्यात्' इत्यात्वे अवादेशेअवावन्नित्यत्र संप्रति हशः । परत्वाभावेऽपि हशन्ताद्विहितत्वात् प्रतिषेधो भवत्येव - अवावा ब्राह्मणीति । तष एव स्थितः सिद्धान्तः । बहुलं च्छन्दसि ङीब्रौ वक्तव्यौ - यज्वरीरिषः । प्रैइरिशवोस्तुट् च - प्रेर्त्वरी ॥