पादोऽन्यतरस्याम्

4-1-8 पादः अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

'पाद' इति शब्दः यस्य समस्तपदस्य उत्तरपदरूपेण विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् विकल्पेन ङीप्-प्रत्ययः भवति ।

Kashika

Up

पाद इति कृतसमासान्तः पादशब्दो निर्दिश्यते। पादन्तात् प्रातिपदिकादन्यतरस्यां स्त्रियां ङीप् प्रत्ययो भवति। द्विपात्। द्विपदी। त्रिपात्। त्रिपदी। चतुष्पाद्। चतुष्पदी॥

Siddhanta Kaumudi

Up

पाच्छब्दः कृतसमासान्तस्तदन्तात्प्रतिपदिकात् ङीब्वा स्यात् । द्विपदी । द्विपात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । पाद इति शब्दः यस्य समासस्य उत्तरपदरूपेण विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् विकल्पेन ङीप्-प्रत्ययः विधीयते — इति अस्य सूत्रस्य अर्थः । यथा — 1. द्वौ पादौ अस्याः इत्यत्र <<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिसमासे कृते स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । प्रक्रिया इयम् — द्वौ पादौ अस्याः → द्वि + पाद + ङीप् [<<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिः । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुँलोपः । <<पादोऽन्यतरस्याम्>> 4.1.8 इति ङीप्] → द्वि + पाद् + ई [<<संख्यासुपूर्वस्य>> 5.4.140 इति पाद-शब्दस्य अकारस्य लोपः] → द्वि + पद् + ई [<<पादः पत्>> 6.4.130 इति पाद्-शब्दस्य पद्-आदेशः] → द्विपदी एवमेव त्रयः पादाः अस्याः = त्रि + पाद + ङीप् → त्रिपदी इति शब्दः अपि सिद्ध्यति । 3. चत्वारः पादाः अस्याः इत्यत्र प्रक्रिया इयम् — चत्वारः पादाः अस्याः → चतुर् + पाद + ङीप् [<<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिः । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुँलोपः । <<पादोऽन्यतरस्याम्>> 4.1.8 इति ङीप्] → चतुर् + पाद् + ई [<<संख्यासुपूर्वस्य>> 5.4.140 इति पाद-शब्दस्य अकारस्य लोपः] → चतुर् + पद् + ई [<<पादः पत्>> 6.4.130 इति पाद्-शब्दस्य पद्-आदेशः] → चतुः + पदी [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] → चतुष्पदी [<<इदुदुपधस्य चाप्रत्ययस्य>> 8.3.41 इति षत्वम्]

प्रकृतसूत्रेण उक्तः ङीप्-प्रत्ययः विकल्पेनैव भवति, अतः ङीप्-प्रत्ययस्य अभावे द्वि + पाद इत्यत्र <<संख्यासुपूर्वस्य>> 5.4.140 इत्यनेन पाद-शब्दस्य अकारस्य लोपे कृते सिद्धः द्विपाद् इति शब्दः अपि स्त्रीलिङ्गे प्रयोक्तुं शक्यते । एवमेव त्रिपाद्, चतुष्पाद् इति शब्दौ अपि स्त्रीलिङ्गे साधु एव ज्ञेयौ । बाध्यबाधकभावः <<टाबृचि>> 4.1.9 इति अग्रिमं सूत्रम् प्रकृतसूत्रस्य अपवादरूपेण विशिष्टे सन्दर्भे टाप्-प्रत्ययस्य विधानं करोति ।

Balamanorama

Up

<<पादोऽन्यतरस्याम्>> - पादो । कृतसमासान्त इति । अन्तलोपात्मके समासान्ते कृते परिशिष्टः पाच्छशब्द इह गृह्रत इत्यर्थः । तदन्तादिति । पाच्छब्दान्तादित्यर्थः । 'पाद' इति पञ्चम्यन्तेनप्रातिपदिका॑दित्यधिकृतस्य विशेषणादिति भावः । ङीब्वा स्यादिति । 'ऋन्नेभ्यः' इत्यतस्तदनुवृत्तेरिति भावः । द्विपदीति । द्वौ पादौ यस्या इति बहुव्रीहिः ।सङ्ख्यासुपूर्वस्ये॑ति पादशब्दान्तस्याऽकारस्य लोपः । ङीपि भत्वात्पादः पत् । द्विपदिति रूपम् । ङीबभावे तुद्विपादिति ।

Padamanjari

Up

पाद इति कृतसमासान्तः पादशब्दो निर्दिश्यत इति । उतरसूत्रे ऋच्यभिधेयायां तस्यैव सम्भवात्, तेन पादयते क्विबन्तस्य ग्रहणं न भवति । द्विपदीति । द्वौ पादावस्य इति'बहुव्रीहौ संख्यासुपूर्वस्य' इत्यकारलोपे'पादः पत्' इति पद्भावः ॥