अनो बहुव्रीहेः

4-1-12 अनः बहुव्रीहेः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् मनः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

'अन्' यस्य अन्ते विद्यते तादृशात् बहुव्रीहिसमस्तप्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति ।

Kashika

Up

अन्नन्ताद् बहुव्रीहेः स्त्रियां ङीप् प्रत्ययो न भवति। अनुपधालोपी बहुव्रीहिरिहोदाहरणम्। उपधालोपिनो हि विकल्पं वक्ष्यति। सुपर्वा, सुपर्वाणौ, सुपर्वाणः। सुचर्मा, सुचर्माणौ, सुचर्माणः। बहुव्रीहेरिति किम्? अतिक्रान्ता राजानम् अतिराज्ञी॥

Siddhanta Kaumudi

Up

अन्नन्ताद्बहुव्रीहेर्न ङीप् । बहुयज्वा । बहुयज्वानौ ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति अन्यतमः प्रत्ययः । अस्य प्रत्ययस्य निषेधः प्रकृतसूत्रेण पाठितः अस्ति । बहुव्रीहिसमासेन निर्मितस्य प्रातिपदिकस्य अन्ते अन् इति शब्दः विद्यते चेत् तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति — इति अस्य सूत्रस्य अर्थः । नकारान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् <<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेन ङीप्-प्रत्यये प्राप्ते अन्नन्त-बहुव्रीहिसमस्तप्रातिपदिकानां विषये तस्य निषेधं कर्तुम् विरचितम् अस्ति । यथा — 1. शोभनं चर्म अस्याः इत्यत्र <<अनेकमन्यपदार्थे>> 2.2.24 इत्यनेन बहुव्रीहिसमासे कृते सु + चर्मन् इति स्थिते स्त्रीत्वं द्योतयितुम् <<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेन प्राप्तः ङीप्-प्रत्ययः प्रकृतसूत्रेण निषिध्यते । अतः स्त्रीलिङ्गे अपि सुचर्मा, सुचर्माणौ, सुचर्माणः इत्येव रूपाणि प्रयुज्यन्ते । यथा, सुचर्माणः स्त्रियः । 2. बहवः यज्वानः अस्याः सा इत्यत्र <<अनेकमन्यपदार्थे>> 2.2.24 इत्यनेन बहुव्रीहिसमासे कृते बहु + यज्वन् इति स्थिते स्त्रीत्वं द्योतयितुम् <<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेन प्राप्तः ङीप्-प्रत्ययः प्रकृतसूत्रेण निषिध्यते । अतः बहुयज्वानः स्त्रियः इत्यादिषु ङीप्-प्रत्ययं विना एव रूपं सिद्ध्यति । बाध्यबाधकभावः 1. <<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेन प्राप्तस्य ङीप्-प्रत्ययस्य निषेधरूपेण प्रकृतसूत्रं प्रवर्तते । ङीप्-प्रत्ययस्य एतादृशे निषेधे कृते, ततः <<डाबुभाभ्यामन्यतरस्याम्>> 4.1.13 इत्यनेन विकल्पेन डाप्-प्रत्ययः अपि भवति, येन सुचर्मन् + डाप् → सुचर्मा इति आकारान्तस्त्रीलिङ्गशब्दः अपि सिद्ध्यति । 2. यदि अन्नन्तात् बहुव्रीहिसमस्तपदात् कथञ्चित् ङीप्-प्रत्यये कृते प्रक्रियायाम् उत्तरपदस्य उपधा-अकारस्य लोपः सम्भवति, तर्हि तादृशस्य बहुव्रीहिसमासस्य विषये प्रकृतसूत्रैण दत्तः ङीप्-प्रत्ययस्य निषेधः <<अन उपधालोपिनोन्यतरस्याम्>> 4.1.28 इत्यनेन विकल्प्यते, अतः ङीप्-प्रत्ययं, तदनुषङ्गेन च उपधा-अकारलोपं कृत्वा अपि रूपं अवश्यं सिद्ध्यति । यथा, बहवः राजानः अस्या सा इत्यत्र बहु + राजन् इति स्थिते <<अन उपधालोपिनोन्यतरस्याम्>> 4.1.28 इत्यनेन वैकल्पिकं ङीप्-प्रत्ययं कृत्वा बहु + राजन् + ङीप् इत्यत्र <<अल्लोपोऽनः>> 6.4.134 इत्यनेन जकारोत्तर-अकारस्य लोपे कृते बहुराज्ञी इति शब्दः अपि सिद्ध्यति । पक्षे ङीप्-प्रत्ययं विना बहुराजन्, तथा च पक्षे <<डाबुभाभ्यामन्यतरस्याम्>> 4.1.13 इत्यनेन डाप्-प्रत्यये कृते बहुराजा इत्येते प्रातिपदिके अपि अवश्यं सिद्ध्यतः । शोभनं चर्म अस्याः, बहवः यज्वानः अस्याः इत्यादिषु स्थलेषु <<अल्लोपोऽनः>> 6.4.134 इत्यनेन प्राप्तः अकारलोपः <<न संयोगाद्वमन्तात्>> 6.4.137 इत्यनेन निषिध्यते, अतः एतयोः समासयोः विषये ङीप्-प्रत्ययस्य निषेधः नित्यमेव प्रवर्तते, तत्र <<अन उपधालोपिनोन्यतरस्याम्>> 4.1.28 इत्यस्य प्रसक्तिः एव नास्ति ।

Balamanorama

Up

<<अनो बहुव्रीहेः>> - अनो बहुव्रीहेः । 'अन' इतिबहुव्रीहे॑रित्यस्य विशेषणम्, तदन्तविधिः । नेति ङीविति च पूर्ववदनुवर्तते । तदाह — अन्नन्तादिति । बहुयज्वेति । बहवो यज्वानो यस्या इति विग्रहः । नान्तलक्षणङीप प्रतिषेधे राजवद्रूपाणि ।न संयोगा॑दिति निषेधान्नायमुपधालोपी । अतोऽत्र 'अन उपधालोपिनः' इति विकल्पो न प्रवर्तितुमर्हति ।

Padamanjari

Up