डाबुभाभ्यामन्यतरस्याम्

4-1-13 डाप् उभाभ्याम् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् मनः अनः बहुव्रीहेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

मन्नन्तेभ्यः प्रातिपदिकेभ्यः, तथा च अन्नन्तेभ्यः बहुव्रीहिसमस्तपदेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् विकल्पेन डाप्-प्रत्ययः भवति ।

Kashika

Up

डाप् प्रत्ययो भवत्युभाभ्यां मन्नन्तात् प्रातिपदिकादनन्ताच्च बहुव्रीहेरन्यतरस्याम्। पामा, पामे, पामाः। सीमा, सीमे, सीमाः। न च भवति — पामानः। सीमानः। बहुव्रीहौ — बहुराजा, बहुराजे, बहुराजाः। बहुतक्षा, बहुतक्षे, बहुतक्षाः। न च भवति — बहुराजानः। बहुतक्षाणः। अन्यतरस्यांग्रहणं किमर्थम्? बहुव्रीहौ <<वनो र च>> ४.१.७ इत्यस्यापि विकल्पो यथा स्यात्। बहुधीवा,बहुधीवरी। बहुपीवा, बहुपीवरी॥

Siddhanta Kaumudi

Up

सूत्रद्वयोपात्ताभ्यां डाब् वा स्यात् ॥ सीमा । सीमे । सीमानौ । दामा । दामे । दामानौ । न पुंसि दामेत्यमरः । बहुयज्वा । बहुयज्वे । बहुयज्वानौ ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु तृतीयः प्रत्ययः डाप् इति प्रकृतसूत्रेण पाठ्यते । यस्य प्रातिपदिकस्य अन्ते मन् इति विद्यते तस्मात् प्रातिपदिकात्, तथा च यस्य बहुव्रीहिसमस्तपदस्य अन्ते अन् इति विद्यते तस्मात् प्रातिपदिकात् द्योतयितुम् डाप् इति स्त्रीप्रत्ययः विकल्पेन भवति — इति अस्य सूत्रस्य अर्थः । क्रमेण उदाहरणानि एतानि — 1. मन्नन्तानि प्रातिपदिकानिपामन्, दामन्, सीमन् एतादृशेभ्यः मन्नन्तेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् <<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेन ङीप्-प्रत्यये प्राप्ते <<मनः>> 4.1.11 इत्यनेन सः निषिध्यते । अस्यां स्थितौ प्रकृतसूत्रेण विकल्पेन डाप् इति प्रत्ययः विधीयते । यथा — सीमन् + डाप् [<<डाबुभाभ्यामन्यतरस्याम्>> 4.1.13 इति डाप्] → सीमन् + आ [डकारपकारयोः इत्संज्ञा, लोपः] → सीम् + आ [<<टेः>> 6.4.143 इति भसंज्ञकस्य टेः डित्-प्रत्यये परे लोपः] → सीमा अनेन प्रकारेण सीमा इति आकारान्तस्त्रीलिङ्गशब्दः सिद्ध्यति । एवमेव, पामन् + डाप् → पामा, दामन् + डाप् → दामा इत्येते प्रातिपदिके अपि सिद्ध्यतः । सर्वत्र पक्षे डाप्-प्रत्ययं विना सीमन्, दामन्, पामन् एते नकारान्तशब्दाः अपि स्त्रीलिङ्गे प्रयुज्यन्ते । सीमा इति आकारान्तशब्दस्य प्रथमाविभक्तेः रूपाणि — सीमा, सीमे, सीमाः इति भवन्ति । सीमन् इति नकारान्तशब्दस्य प्रथमाविभक्तेः रूपाणि तु — सीमा, सीमानौ, सीमानः इति भवन्ति । उभयत्र प्रथमैकवचनम् सीमा इति समानमेव अस्ति । 2. येषाम् अन्ते अन् इति विद्यते तादृशानि बहुव्रीहिसमासेन सिद्धानि प्रातिपदिकानिबहुराजन्, बहुतक्षन्, बहुयज्वन्, बहुधीवन् एतादृशेभ्यः बहुव्रीहिसमासेन निर्मितेभ्यः अन्नन्तेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् <<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेन ङीप्-प्रत्यये प्राप्ते <<अनो बहुव्रीहेः>> 4.1.12 इत्यनेन सः निषिध्यते । अस्यां स्थितौ प्रकृतसूत्रेण विकल्पेन डाप् इति प्रत्ययः विधीयते । प्रक्रियाः एतादृश्यः — (i) बहवः राजानः यस्याः सा इत्यत्र — बहवः राजानः यस्याः सा = बहु + राजन् + डाप् [<<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिः । <<डाबुभाभ्यामन्यतरस्याम्>> 4.1.13 इति डाप् ।] → बहु + राजन् + आ [डकारपकारयोः इत्संज्ञा, लोपः] → बहु + राज्+ आ [<<टेः>> 6.4.143 इति भसंज्ञकस्य टेः डित्-प्रत्यये परे लोपः] → बहुराजा अनेन प्रकारेण बहुराजा इति आकारान्तस्त्रीलिङ्गशब्दः सिद्ध्यति । पक्षे <<अन उपधालोपिनोन्यतरस्याम्>> 4.1.28 इत्यनेन विकल्पेन ङीप्-प्रत्यये कृते बहुराज्ञी, तथा च पक्षे स्त्री-प्रत्ययं विना बहुराजन् इत्यपि प्रातिपदिकं स्त्रीलिङ्गे सिद्ध्यति । (ii) बहवः तक्ष्णः यस्याः सा इत्यत्र — बहवः तक्ष्णः यस्याः सा = बहु + तक्षन् + डाप् [<<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिः । <<डाबुभाभ्यामन्यतरस्याम्>> 4.1.13 इति डाप् ।] → बहु + तक्षन् + आ [डकारपकारयोः इत्संज्ञा, लोपः] → बहु + तक्ष्+ आ [<<टेः>> 6.4.143 इति भसंज्ञकस्य टेः डित्-प्रत्यये परे लोपः] → बहुतक्षा अनेन प्रकारेण बहुतक्षा इति आकारान्तस्त्रीलिङ्गशब्दः सिद्ध्यति । पक्षे <<अन उपधालोपिनोन्यतरस्याम्>> 4.1.28 इत्यनेन विकल्पेन ङीप्-प्रत्यये कृते बहुतक्ष्णी, तथा च पक्षे स्त्री-प्रत्ययं विना बहुतक्षन् इत्यपि प्रातिपदिकं स्त्रीलिङ्गे सिद्ध्यति । (iii) बहवः यज्वानः यस्याः सा इत्यत्र — बहवः यज्वानः यस्याः सा = बहु + यज्वन् + डाप् [<<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिः । अत्र <<वनो र च>> 4.1.7 इत्यनेन ङीप्-प्रत्यये प्राप्ते <!वनो न हश इति वक्तव्यम्!> इति वार्त्तिकेन सः निषिध्यते । ततः <<डाबुभाभ्यामन्यतरस्याम्>> 4.1.13 इति डाप्-प्रत्ययः विधीयते ।] → बहु + यज्वन् + आ [डकारपकारयोः इत्संज्ञा, लोपः] → बहु + यज्व् + आ [<<टेः>> 6.4.143 इति भसंज्ञकस्य टेः डित्-प्रत्यये परे लोपः] → बहुयज्वा अनेन प्रकारेण बहुयज्वा इति आकारान्तस्त्रीलिङ्गशब्दः सिद्ध्यति । पक्षे ङीप्-प्रत्ययं विना बहुयज्वन् इति स्त्रीलिङ्गवाचि प्रातिपदिकम् अपि सिद्ध्यति । (iv) बहवः धीवानः यस्याः सा इत्यत्र एतादृशी प्रक्रिया भवति — बहवः धीवानः यस्याः सा = बहु + धीवन् + डाप् [<<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिः । ततः <<डाबुभाभ्यामन्यतरस्याम्>> 4.1.13 इति विकल्पेन डाप्-प्रत्ययः ।] → बहु + धीवन् + आ [डकारपकारयोः इत्संज्ञा, लोपः] → बहु + धीव् + आ [<<टेः>> 6.4.143 इति भसंज्ञकस्य टेः डित्-प्रत्यये परे लोपः] → बहुधीवा अनेन प्रकारेण बहुधीवा इति आकारान्तस्त्रीलिङ्गशब्दः सिद्ध्यति । पक्षे <<वनो र च>> 4.1.7 इत्यत्र निर्दिष्टेन <!बहुव्रीहौ वा!> इति वार्त्तिकेन विकल्पेन ङीप्-प्रत्यये, तदनुषङ्गेन च नकारस्य रेफादेशे कृते बहुधीवरी इति शब्दः अपि सिद्ध्यति । पक्षे स्त्रीप्रत्ययं विना बहुधीवन् इत्यपि स्त्रीलिङ्गवाची शब्दः प्रयुज्यते । डाप्-प्रत्यये इत्संज्ञकवर्णानां प्रयोजनम् डाप्-प्रत्यये डकारपकारयोः इत्संज्ञा भवति । तत्र — 1. इत्संज्ञकः पकारः <<अनुदात्तौ सुप्पितौ>> 3.1.4 इति अनुदात्तस्वरविधानार्थम् स्थापितः अस्ति । 2. इत्संज्ञकः डकारः डित्कार्यार्थः अस्ति । डित्-प्रत्यये परे <<टेः>> 6.4.143 इत्यनेन भसंज्ञकस्य अङ्गस्य टेः लोपः भवति । अतएव उपरि निर्दिष्टेषु सर्वेषु अपि उदाहरणेषु टिलोपे कृते रूपं सिद्ध्यति ।

Balamanorama

Up

<<डाबुभाभ्यामन्यतरस्याम्>> - डाबुभाभ्याम् ।उभाभ्या॑मित्येतद्व्याचष्टे — सूत्रद्वयोपात्ताभ्यामिति । 'मन' इति 'अनो बहुव्रीहेः' इति च सूत्रद्वयोपात्तान्मन्नादन्नन्तबहुव्रीहेश्चेत्यर्थः । नन्विहान्यतरस्याङ्ग्रहणं व्यर्थम् । नच तदभावे डाब्नित्यः स्यादिति वाच्यं, डापो नित्यत्वे तेनैव ङीपो निवृत्तिसंभवेन ङीब्निषेधवैयथ्र्यात् । एवञ्च ङीप्निषेधडापोर्वचनसामर्थ्यादेव विकल्पसिद्धेरन्यतरस्याङ्ग्रहणं व्यर्थमिति चेत्, स्पष्टार्थमिति केचित् । भाष्ये तुअन्यतरस्या॑मिति योगविभागमाश्रित्य 'बहुव्रूहौ' इति वार्तिकं प्रत्याख्यातम् । सीमेति । सीमन्शब्दाड्डापि टिलोपे सीमाशब्दात्सोर्हल्ङ्यादिलोपः । डाबभावपक्षेऽपि 'मनः' इति ङीब्निषेधे सौसीमे॑त्येव राजवद्रूपम् । तर्हि डाब्विधेः किं फलमित्यत आह-सीमे सीमानाविति । मन्नन्तविषये उदाहरणान्तरमाह-दामेति । दाधातोरौणादिको मनिन् ।हिरण्मयं दाम दक्षिणा॑ इत्यादौ दामशब्दस्य नपुंसकत्वदर्शनादाह-न पुंसीति । दामन्शब्दः पुंसि न, किंतु स्त्रीनपुंसकयोरित्यर्थः,निषिद्धलिङ्गं शेषार्थ॑मिति परिभाषितत्वात् । अन्नन्तबहुव्रीहेरुदाहरति-बहुयडज्वेति । बहवो यज्वानो यस्या इति विग्रहः । डापि टिलोपे बहुयज्वाशब्दात्सोर्हल्ङ्यादिलोपः । ङीब्निषेधे सौ एतदेव राजवद्रूपम् । डापः फलमाह-बहुयज्वे बहुयज्वानाविति । शसि-बहुयज्वनः । अत्राऽल्लोपस्तु न भवति,न संयोगाद्वमन्ता॑दिति निषेधात् । अत एव 'अन उपदालोपिनः' इत्यस्य नायं विषयः ।

Padamanjari

Up

अन्तरस्यांग्रहणं किमिति । डापा मुक्ते प्रतिषेधो यथा स्यादित्येवमर्थं तावदेतन्न कर्तव्यम्, कथम् ? डाबुप्युच्यते, प्रतिषेधोऽपि तावुभौ वचनाद्भविष्यतः । यदि हि नकारान्तस्य श्रवणं न स्यात्, तदा डापैवापवादेन ङीपो बाधात् प्रतिषेधोऽनर्थकः स्यात् । अथ डाप्प्रतिषेधाभ्यां मुक्ते ङीबपि यथा स्यादित्येवमर्थमन्यतरस्यांग्रहणम् ? तदपि न; बहुराज्ञीत्यादौ ठन उपधालोपिनोऽन्यतरस्याम्ऽ इत्यनेनैव ङीपः सिद्धत्वात् । यत्र तर्हि तेन न सिद्धयति - अतिशर्मेत्यादौ, तदर्थमेतत्स्यात् ? यद्येवम्, अनेनैवोपधालोपिनोऽपि सिद्धत्वाद् ठन उपधालोपिनःऽ इत्येतदनर्थकं स्यात् । एवं तर्हि तदन्यतरस्यां ग्रहणं न करिष्यामीतिदमन्यतरस्यांग्रहणं क्रियते, कथम् ? अनेनैवान्यतरस्यांग्रहणेनोपधालोपिनोऽनुपधालोपिनश्च ङीपि प्रापिते सति ठन उपधालोपिनःऽ इत्येतावदपि क्रियमाणं नियमार्थं भविष्यति - अनो बहुव्रीहेर्यन् ङीब्विधानं तदुपधालोपिन एवेति, ततश्च तदन्यतरस्यांग्रहणं न कर्तव्यं भवति ? तदवश्यं कर्तव्यम्, असति हि तस्मिन्ननेनान्यतरस्यांग्रहणेन बहुव्रीहिमात्राद् डाप्प्रतिषेधङीप्सु त्रिष्वपि प्राप्तेषूपधालोपिनो डाप्प्रतिषेधौ बाधित्वा नित्यं ङीबेव यथा स्यादित्येवमर्थं तत्स्यात् । अतस्तदवश्यं कर्तव्यम्, इदं तु न कर्तव्यमिति प्रश्नः । परिहरति - बहुव्रीहाविति । अयमभिप्रायः - डाप्प्रतिषेधाभ्या मुक्ते ङीबपि यथा स्यादित्येवमर्थमिदं तावदन्यतरस्याग्रहणम् । न च ठन उपधालोपिनःऽ इत्यस्य वैयर्थ्यम् ; नियमार्थत्वात् - अनो बहुव्रीहेर्यदन्यतरस्यां ङीब्विधानं तदुपधालोपिन एवेति । तेन सुपर्वा, सुशर्मेत्यादावनेनान्यतरस्यांग्रहणेन प्रापितो ङीब् न भवति, बहुराज्ञीत्यादावेव तु भवति । नन्वेवमिदमन्यतरस्यांग्रहणं मा भूत्, ठन उपधालोपिनःऽ इत्येतदेव विध्यर्थमस्तु, को वा विशेषः ? अनेनान्यतरस्यांग्रहणेन बहुव्रीहिमात्रान् ङीपि प्रापिते तन्नियमार्थं स्याद्, असति वास्मिन् डाप्प्रतिषेधयोरेव प्राप्तयोरुपधालोपिनोऽप्राप्तो ङीप् पक्षे विधीयते इति ? अयमस्ति विशेषः - अस्मिन्नन्यतरस्यांग्रहणे सति डाप्प्रतिषेधाभ्यां मुक्ते स्वेन स्वेन सास्त्रेण ङीब् भवन् वन्नन्तेषु'वनो र च' इत्यनेनैव भवतीति बहुधीवरीत्यादौ रेफोऽपि भवति । एवमनेन वन्नन्तादुपधालोपिनोऽनुपदालोपिनश्च बहुव्रीहेर्बहुधीवन्सुपर्वन्नित्यादेर्ङीब्रेफयोः प्रापितयोरन्यत्र बहुराजन्सुशर्मन्नित्यादौ केवले ङीपि प्रापिते सतिठन उपधालोपिनोऽन्यतरस्याम्ऽ इत्येतन्नियमार्थं भवति, तेन च नियमेन सुशर्मेत्यादौ ङीब् व्यावर्त्यते । सुपर्वेत्यादौ ङीपि व्यावर्तिते तत्सन्नियोगशिष्टत्वाद्रेफोऽपि न भवति । बहुराज्ञीत्यादौ तु यथाप्राप्तो ङीबवस्थितः, बहुधीवरीत्यादौ च'वनो र च' इत्यनेन प्राप्तौ ङीब्रेफाववस्थिताविति सर्वमिष्ट्ंअ सिध्यति । असति त्वस्मिन्, तस्मिंश्च विध्यर्थेऽपूर्व एव ङीप् तेन विधीयत इति वन्नन्ते बहुव्रीहौ ठृन्नेभ्यो ङीप्ऽ इत्येतत्सन्नियुक्तं'वनो र च' इत्येतन्न प्रवर्तेतेति केवले ङीपि सति बहुधीव्नीति स्यात् । अतः ठन उपधालोपिनःऽ इत्यतन्नियमार्थं यथा स्यात्स्वतन्त्रो विधिर्मा भूदित्येवमर्थमिहान्यतरस्यांग्रहणं क्रियत इति । तदिदम् ठन उपधालोपिनःऽ इत्यत्र वृत्तिकारः स्पष्टयिष्यति । यद्यनेनान्यतरस्यांग्रहणेन पक्षे ङीबपि प्राप्यते दामेत्यादौ मन्नन्तादपि प्राप्नोति ? नैष दोषः; योगविभागः क्रियते - डाबुभाभ्यां भवति, ततः ठन्यतरस्याम्;ऽ ठनो बरुव्रीहेःऽ इत्येव वर्ते,'मनः' इति निवृतम् ॥