ऊङुतः

4-1-66 ऊङ् उतः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् जातेः मनुष्यजातेः

Kashika

Up

index: 4.1.66 sutra: ऊङुतः


मनुस्यजातेः इति वर्तते। उकारान्तात् मनुस्यजातिवाचिनः प्रातिपदिकात् स्त्रियाम् ऊङ् प्रत्ययो भवति। कुरूः। बह्मबन्धूः। वीरबन्धूः। ङकारो नोङ्धात्वोः 6.1.175 इति विशेषणार्थः। दीर्घोच्चारणं कपो बाधनार्थम्। अयोपधातित्येतदत्र अपेक्ष्यते। अध्वर्युर्ब्राह्मणी। अप्राणिजातेश्चारज्ज्वादीनाम् इति वक्तव्यम्। अलाबूः। कर्कन्धूः। अप्राणिग्रहणं किम्? कृकवाकुः। अरज्ज्वादीनाम् इति किम्? रज्जुः। हनुः।

Siddhanta Kaumudi

Up

index: 4.1.66 sutra: ऊङुतः


उकारान्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात् । कुरूः ॥ कुरुनादिभ्यो ण्यः <{SK1190}> ॥ तस्य स्त्रियामवन्ति <{SK1195}> इत्यादिना लुक् । अयोपधात् किम् ? अध्वर्युः ॥<!अप्राणिजातेश्चारज्ज्वादीनामुपसङ्ख्यानम् !> (वार्तिकम्) ।<!रज्ज्वादिपर्युदासादुवर्णान्तेभ्य एव !> (वार्तिकम्) ॥ अलाब्वा । कर्कन्ध्वा । अनयोर्दीर्घान्तत्वेऽपि नोङ्धात्वोः <{SK3721}>इति विभक्त्युदात्तत्वप्रतिषेध ऊङः फलम् ॥ प्राणिजातेस्तु कृकवाकुः । रज्ज्वादेस्तु रज्जुः । हनुः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.1.66 sutra: ऊङुतः


उदन्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात्। कुरूः। अयोपधात्किम्? अध्वर्युर्ब्राह्मणी॥

Balamanorama

Up

index: 4.1.66 sutra: ऊङुतः


ऊङुतः - ऊडुतः ।अयोपधा॑दितिमनुष्यजाते॑रिति चानुवर्तते, उत इति तद्विशेषणम्, तदन्तविधिः । तदाह — उकारान्तादित्यादिना । कुरूरिति । कुरुक्षेत्रस्य राजा कुरुः, तस्यापत्यं स्त्रीत्यर्थः ।गोत्रं च चरणैः सहे॑ति जातित्वम् । कुरुशब्दाडूङि सवर्णदीर्घः । ऊङि दीर्घोच्चारणस्य प्रयोजनं भाष्ये स्पष्टम् ।तस्यापत्य॑मित्यणमाशह्क्याह — कुरुनादिभ्यो ण्य इति । अपत्याधिकारस्थमिदं सूत्रम् । अनेन सूत्रेम अणपवादो ण्यप्रत्यय इत्यर्थः । तर्हि स श्रूयेतेत्यत आह — तस्येति । अध्वर्युरिति । अध्वर्युशाखाध्यायिनीत्यर्थः । चरणत्वाज्जातित्वम् ।पुरा युगेषु नारीणां मौञ्जीबन्धनमिष्यते । अध्यापनं च वेदानां सावित्रीवचनं तथा.॑ इति यमादिस्मृतिः ।अप्राणिजातेश्चेति ।वाचकाना॑मिति शेषः । रज्ज्वादिभिन्नानामप्राणिजातिवाचकानामपि ऊङ उपसङ्ख्यानमित्यर्थः । नन्वत्र उत इति संबध्यते वा, न वा । नाद्यः, अलाबूरिति भाष्योदाहरणविरोधात्, अलाबूशब्दस्य ऊदन्तत्वात् । न द्वितीयः, अदन्तादपि अप्राणिजातिवाचन ऊङापत्तेरित्यत आह — रज्ज्वादिपर्युदासादिति । 'उत' इति न संबध्यतो । अदन्तेषु नातिप्रसङ्गःनञिवयुक्तमन्यसदृशाधिकरणे तथा ह्रर्थगतिः॑ इति न्यायेन रज्ज्वादिसदृशानामुवर्णान्तानामेव ग्रहणादिति भावः । अलाब्वेति । अलाबूशब्दादूङि सवर्णदीर्घे अलाबूशब्दादूङन्तात्सुबुत्पत्तिः । टायां यणादेशे अलाब्वा इति रूपम् । एवं कर्कन्धूशब्दादूङन्ताट्टायां 'कर्कन्ध्वा' इति रूपम् ।कर्कन्धूर्बदरी॑त्यमरः,तुम्ब्यलाबूरुभे समे॑ इति च । ननु ऊदन्तत्वादनयोरूङ्विधिव्र्यर्थ इत्यत आह — अनयोरिति । कृकवाकुरिति । पक्षिजातिविशेषः । अत्र मनुष्यजातित्वाऽभावात्पूर्वेणापि न ङीष् ।

Padamanjari

Up

index: 4.1.66 sutra: ऊङुतः


कुरुरिति ।'कुरुनादिभ्यो ण्यः' तस्य'स्त्रियामवन्ति' इत्यादिना लुक् । व्रह्मबन्धूर्जीवबन्धूरिति । वृतस्वाध्यायहीनाया ब्राह्मणजातावेतौ बहुव्रीही वर्तेते । ङ्कार इत्यादि ।'नोधात्वोः' इत्युच्यमाने, यवाग्वा, यवाग्वै - अत्रापि ठुदातयणो हल्पूर्वात्ऽ इति प्राप्तस्य विभक्त्युदातस्य निषेधः स्यात्, वर्णग्रहणे ह्यर्थवद्ग्रहणपरिभाषा नोपतिष्ठते । अथ दीर्घोच्चारणं किमर्थम्, न ठुणुतःऽ इत्येवोच्येत, सवर्णदीर्घत्वेन सिद्धम् ? न सिध्यति; सत्यपि सवर्णदीघत्वे,'गोस्त्रियोरुपसर्जनस्य' इति ह्रस्वत्वं प्राप्नोति । न प्राप्नोति, किं कारणम् ? ठुभयत आश्रयणे नान्तादिवत्ऽ, तथा हि एकादेशस्यान्तवत्वेन प्रतिपदिकसंज्ञा सम्पाद्या, ठप्रत्ययःऽ इति निषेधात् । आदिवत्वेन च स्त्रीप्रत्ययत्वं सम्पाद्यम् । इति तर्हि ब्रह्मबन्धूच्छत्रम् - षत्वतुकोरसिद्धत्वाद् ह्रस्वलक्षणो नित्यस्तुक् प्रसज्येत, दीर्घोच्चारणात्वेकादेशस्यासिद्धत्वेऽपि दीर्घ एवायमिति'दीर्घात्पदान्ताद्वा' इति विकल्पः सिध्यति ? एतदपि नास्ति प्रयोजनम् ; पदान्तपदाद्योरेकादेशोऽसिद्धः, न चैप पदान्तपदाद्योरेकादेशः । तस्मादनर्थकं दीर्घोच्चारणम् ? इत्याशङ्क्याह - दीर्घोच्चारणं कपो बाधनार्थमिति ।'शेषाद्विभाषाअ' इति कपोऽवकाशः - अयवकः, अव्रीहिकः, ऊङेऽवकाशः -कुरूरिति; ब्रह्मबन्ध्वादेर्बहुव्रीहेरुभयप्रसङ्गे परत्वात्कप् प्राप्नोति, दीर्घोच्चारणान्न भवित, कथम् ? उकारद्वयं दीर्घेण निर्दिष्टम्, तत्र द्वितीय उकारः कपो बाधनार्थः । अध्वर्युरिति । अध्वरं यातीति'मृगय्वादयश्च' इत्युणादिषु दर्शनात् कुप्रत्ययोऽध्वरशब्दस्यान्तलोपश्च । चरणलक्षणेयं जातिः, अध्वर्युशाखाध्यायिनि वंशे भवेत्यर्थः । अप्राणिजातेश्चेति । अत्र ठुतःऽ इति नापेक्ष्यते तेनालाबू-कर्कन्धूशब्दाभ्यां दीर्घान्ताभ्यामपि भवति ।'कृषिचमितनिधनिसजिखर्जिभ्य ऊः' इति वर्तमाने'णित्कशिपद्यर्तेः' इत्यतो णिदिति च,'नञि लम्बेर्नर्लोपश्च' ,'लबि अवुस्रंसने' , तस्मान्नञ्पूर्वादूप्रत्ययो भवति नलोपश्च णित्वाद् वृद्धिः, ठन्दूदृम्भूकर्कन्धूःऽ इति निपातनादूकारान्तः कर्कन्धूशब्दः । एवमलाबू-कर्कन्धूशब्दौ दीर्घान्तौ । ऊङ्विधानमलाब्वा, कर्कन्ध्वा इत्यादौ'नोङ्धात्वोः' इति विभक्त्युदातत्वप्रतिषेधार्थम् । कृकवाकुरिति ।'कृके वचः कश्च' कृकशब्द उपपदे वकेर्धातोरुण् प्रत्ययो भवति, कश्चनान्तादेशः । रज्जुरिति ।'सृजेरसुम् च' , आदिलोपः प्रकृतः, सृजेरु प्रत्ययः, आदेश्च लोपोऽसुगागमश्च, ऋतो यणादेशः, सकारस्य जश्त्वचर्त्वे, सृज्यतेऽसौ रज्जुरिति । हनुरिति ।'युस्निहि' इत्यादिना हन्तेरुप्रत्ययः ॥