यूनस्तिः

4-1-77 यूनः तिः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् तद्धिताः

Sampurna sutra

Up

index: 4.1.77 sutra: यूनस्तिः


अनुपसर्जनात् यूनः स्त्रियाम् तिः तद्धितः प्रत्ययः परश्च

Neelesh Sanskrit Brief

Up

index: 4.1.77 sutra: यूनस्तिः


उपसर्जनभिन्न-युवन्-शब्दात् स्त्रीत्वं द्योतयितुम् 'ति' इति तद्धितसंज्ञकः स्त्री-प्रत्ययः विधीयते ।

Neelesh English Brief

Up

index: 4.1.77 sutra: यूनस्तिः


To indicate the feminine property, the, word युवन् which is not an gets उपसर्जनसंज्ञक the तद्धितप्रत्यय 'ति'.

Kashika

Up

index: 4.1.77 sutra: यूनस्तिः


युवन्शब्दात् प्रातिपदिकात् स्त्रियां तिः प्रत्ययो भवति। स च तद्धितसंज्ञो भवति। ङीपोऽपवादः। युवतिः।

Siddhanta Kaumudi

Up

index: 4.1.77 sutra: यूनस्तिः


युवन् शब्दात्तिप्रत्ययः स्यात् स च तद्धितः । लिङ्गविशिष्टपरिभाषया सिद्धे तद्धिताधिकार उत्तरार्थः । युवतिः । अनुपसर्जनादित्येव । बहवो युवानो यस्यां सा बहुयुवा । युवतीति तु यौतेः शत्रन्तात् ङीपि बोध्यम् ॥। इति स्त्रीप्रत्ययप्रकरणम् ।

Laghu Siddhanta Kaumudi

Up

index: 4.1.77 sutra: यूनस्तिः


युवञ्छब्दात् स्त्रियां तिः प्रत्ययः स्यात् । युवतिः ॥ इति स्त्रीप्रत्ययाः ॥ शास्त्रान्तरे प्रविष्टानां बालानां चोपकारिका । कृता वरदराजेन लघुसिद्धान्तकौमुदी ॥ इति श्रीवरदराजकृता लघुसिद्धान्तकौमुदी समाप्ता ॥

Neelesh Sanskrit Detailed

Up

index: 4.1.77 sutra: यूनस्तिः


युवन् इति नकारान्तशब्दः । स्त्रीत्वं द्योतयितुमस्मात् शब्दात् ऋन्नेभ्यो ङीप् 4.1.5 इत्यनेन ङीप्-प्रत्यये प्राप्ते तस्य अपवादरूपेण वर्तमानसूत्रेण 'ति' इति तद्धितसंज्ञकः स्त्री-प्रत्ययः विधीयते । यथा -

युवन् + ति

→ युव + ति [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारस्य लोपः]

→ युवति

अत्र केचन बिन्दवः ज्ञातव्याः -

  1. अनेन सूत्रेण निर्दिष्टः 'ति' प्रत्ययः तद्धितसंज्ञकः अपि अस्ति । तद्धिताधिकारस्य अत्र किम् प्रयोजनम्? कृत्तद्धितसमासाश्च 1.2.46 इत्यनेन 'युवति' अयं तद्धितान्तशब्दः प्रातिपदिकसंज्ञां प्राप्नोति । प्रातिपदिकसंज्ञायां प्राप्तायामस्मात् शब्दात् सुप्-प्रत्यययोजनं कर्तुं शक्यते । एतदेव तद्धिताधिकारस्य अत्र प्रयोजनम् । परन्तु अस्मिन् विषये दीक्षितः कौमुद्यां वदति - 'लिङ्गविशिष्टपरिभाषया सिद्धे तद्धिताधिकार उत्तरार्थः' । इत्युक्ते, <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> अनया परिभाषया 'युवन्' शब्दस्य ग्रहणेन 'युवति' शब्दः अपि प्रातिपदिकसंज्ञां प्राप्नोति ; तदर्थमत्र तद्धिताधिकारस्य काचिदपि आवश्यकता नास्ति । अतः अत्र तद्धिताधिकारः वस्तुतः न आवश्यकः - इत्याशयः ।

  2. अनेन सूत्रेण सिद्धः 'युवति' शब्दः 'ह्रस्व-इकारान्तः' अस्ति, अस्य रूपाणि च 'मति' शब्दवत् भवन्ति । संस्कृते 'युवती' इति कश्चन दीर्घ-ईकारान्तशब्दः अपि अस्मिन्नेव अर्थे प्रयुज्यते, परन्तु सः शब्दः युवन्-शब्दात् न सिद्ध्यति । 'यू (मिश्रणामिश्रणयो)' अस्मात् धातोः शतृ-प्रत्ययं कृत्वा अग्रे स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययं कृत्वा 'युवती' शब्दः सिद्ध्यति ।

  3. अनेन सूत्रेण निर्दिष्टः 'ति'-प्रत्ययः युवन्-शब्दात् तदा एव भवति यदा युवन्-शब्दस्य उपसर्जनसंज्ञा नास्ति । यथा, 'बहवः युवानः यस्मिन् सः' इत्यस्मिन् अर्थे बहुव्रीहिसमासे कृते 'बहुयुवन्' इति प्रातिपदिके प्राप्ते अस्मिन् प्रातिपदिके युवन्-शब्दस्य उपसर्जनसंज्ञा भवति, अतः अत्र स्त्रीत्वं द्योतयितुम् वर्तमानसूत्रेण ति-प्रत्ययः न विधीयते, अपितु डाबुभाभ्यामन्यतरस्याम् 4.1.13 इत्यनेन डाप्-प्रत्ययं कृत्वा 'बहुयुवा' इति प्रातिपदिकं सिद्ध्यति ।

Balamanorama

Up

index: 4.1.77 sutra: यूनस्तिः


यूनस्तिः - यूनस्तिः । 'तद्धिता' इत्यनुवृत्तमेकवचनेन विपरणम्यते । तदाह — युवन्शब्दादित्यादि ।स्त्रिया॑मिति शेषः ।समर्थना॑मित्यतः प्राक्तदधिकारस्योक्तत्वादिति भावः । नान्तलक्षणङीपोऽपवादः । नन्वत्र तद्धितग्रहणानुवृत्तिव्र्यर्था । नचकृत्तद्धिते॑ति प्रातिपदिकत्वार्थं तदनुवृत्तिरिति वाच्यम्, प्रातिपदिकत्वाभावेऽपि लिङ्गविशिष्टपरिभाषया तिप्रत्ययान्तात्सुबुत्पत्तिसिद्धेरित्यत आह — लिङ्गविशिष्टस्येति । युवतिरिति । स्वादिष्विति पदत्वात् 'न लोप' इति नकारलोपः । अनुपसर्जनादित्येवेति । अनुवर्तत एवेत्यर्थः । बहुयुवेति । उपसर्जनत्वात्तिप्रत्ययाऽभावे नान्तलक्षणङीपः 'अनो बहुव्रीहेः' इति निषेधेडाबुभाभ्या॑मिति डापि च रूपम् । ननु 'युवतीभिः परिवृत' इत्यादौ कथं युवतीशब्द ईकारान्त इत्यत आह — युवतीति त्विति । 'युमिश्रणे' इत्यस्माल्लटः शतरि, शपो लुकि, उवङि उगित्त्वान्ङीपि युवतीशब्दो व्युत्पन्नो बोध्य इत्यर्थः । पतिं सुखेन मिश्रयन्ती योषिदुच्यते । अन्ये तु युधातोरौणादिके बाहुलकात्कतिप्रत्यये कित्त्वाद्गुणाऽभावे उवङि उगित्त्वान्ङीपि युवतीशब्दः सिध्यतीत्याहुः । इति श्रीमद्वासुदेवदीक्षितविरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां स्त्रीप्रत्ययनिरूपणम् । — — — — — — — — — — - अथ स्वादिसन्धिः ।

Padamanjari

Up

index: 4.1.77 sutra: यूनस्तिः


युवतिरिति । त्यन्तात् ठितो मनुष्यजातेःऽ इति ङीष्न भवति; तिप्रत्ययेनैव स्त्रीत्वस्योक्तत्वात् , यौवनस्य वाऽजातित्वात् ॥