4-1-78 अणिञोः अनार्षयोः गुरूपोत्तमयोः ष्यङ् गोत्रे प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् तद्धिताः
गोत्रे यावणिञौ विहितावनार्षौ, तदन्तयोः प्रातिपदिकयोर्गुरूपोत्तमयोः स्त्रियां ष्यङादेशो भवति। <<निर्दिश्यमानस्यादेशा भवन्ति>> इत्यणिञोरेव विज्ञायते, न तु समुदायस्य। ङकारः सामान्यग्रहणार्थः। षकारस्तदविघातार्थः। <<यङश्चाप्>> ४.१.७४ इति। उत्तमशब्दः स्वभावात् त्रिप्रभृतीनामन्त्यमक्षरमाह। उत्तमस्य समीपमुपोत्तमम्। गुरु उपोत्तमं यस्य तद् गुरूपोत्तमं प्रातिपदिकम्। करीषस्येव गन्धोऽस्य करीषगन्धिः। कुमुदगन्धिः। <<तस्यापत्यम्>> ४.१.९२ इत्यण्। तस्य ष्यङादेशः। कारीषगन्ध्या कौमुदगन्ध्या। वराहस्यापत्यम्। <<अत इञ्>> ४.१.९५ — वाराहिः। तस्य ष्यङादेशः॥ वाराह्या। बालाक्या। अणिञोरिति किम्? ऋतभागस्यापत्यम्, बिदादित्वादञ् आर्तभागी॥ गुरूपोत्तमादिकं सर्वमस्तीति, न त्वणिञौ। <<टिड्ढाणञ्०>> ४.१.१५ इति ङीबेव भवति। अनार्षयोरिति किम्? वासिष्ठी। वैश्वामित्री। गुरूपोत्तमयोरिति किम्? औपगवी। कापटवी। गोत्र इति किम्? <<तत्र जाताः>> ४.३.२५ — आहिच्छत्री॥ कान्यकुब्जी॥
त्र्यादीनामन्त्यमुत्तमं तस्य समीपमुपोत्तमम्, गौत्रे यावणिञौ विहितावनार्षौ तदन्तयोर्गुरूवोत्तमयोः प्रातिपदिकयोः स्त्रियां ष्यङादेशः स्यात् ॥ [(परिभाषा - ) निर्दिश्यमानस्यादेशा भवन्ति] इत्यणिञोरेव । षङावितौ । यङश्चाप् -<{SK528}> कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या । वाराह्या । अनार्षयोः किम् ? वासिष्ठी । वैश्वामित्री । गुरुपोत्तमयोः किम् । औपगवी । जातिलक्षणो ङीष् । गौत्रे किम् । अहिच्छत्रे जाता आहिच्छत्री ॥
<<अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे>> - अणिञोः । त्र्यादीनामन्त्यमुत्तममिति । तथा भाष्यादिति भावः । तस्य समीपमुपोत्तममिति । सामीप्येऽव्ययीभाव इति भावः । गुरु-उपोत्तमम्-उत्तमसमीपवर्ति ययोरिति विग्रहः । प्रातिपदिकादित्धिकृतं षष्ठीद्विवचनेन विपरिणम्यते । उपोत्तमगुरुवर्णकयोः प्रातिपदिकयोरिति लभ्यते ।अणिञो॑रित्यनेन प्रत्ययग्रहणपरिभाषयाञन्तयोग्र्रहणम् । 'गोत्रे' इत्येतत् अणिञोरन्वेति । ऋषेरविहितौ-अनार्षौ । इदमपि अणिञोविशेषणं । स्त्रियामित्यधिकृतम् । तदाह गोत्रे यावणिञावित्यादिना । आदेशः स्यादिति । स्थानषष्ठीनिर्देशादादेशत्वलाभः ।ननु अणिञन्तयोः श्यङादेशोऽयमनेकाल्त्वात्सर्वादेशः स्यादित्यत आह — निर्दिश्यमानस्येति । तथा च अणिञोरेवायमादेश इति भावः ।ङिच्चे॑त्यन्तादेश इति तु न युक्तं, ङित्त्वस्य ष्यङः सम्प्रसारण॑मित्यादौ चरितार्थत्वात् । कुमुदगन्धेरिति । कुमुदगन्ध इव गन्धो यस्येति विग्रहः ।सप्तम्युपनानपूर्वपदस्य बहुव्रीहिर्वाच्यः, उत्तरपदलोपश्चे॑ति बहुव्रीहिः, पूर्वखण्डे उत्तरपदस्य गन्धशब्दस्य लोपश्च ।उपमानाच्चे॑ति इत्त्वं । कुमुदगन्धेरपत्यं स्त्रीति विग्रहे अण् ।यस्येति चे॑ति इकारलोपः, आदिवृद्धिः, कौमुदगन्धशब्दः, तत्र धकारादणोऽकार उत्तमः । तत्समीपवर्ती गुरुः गकारादकारः, 'संयोगे गुरु' इत्युक्तेः । नचाऽनुस्वारधकारव्यवहितत्वात्कथमुत्तमसमीपवर्तित्वं गकारादकारस्येति वाच्यं, येन नाव्यवधानं तेन व्यवहितेऽपी॑ति न्यायेन हला व्यवधानस्याऽदोषत्वात् । नह्रणि परेऽव्यवहितो गुरुः क्वचिदस्ति । एवंच गुरूपोत्तमं प्रातिपदिकं कौमुदगन्धेत्यणन्तं, तदवयवस्य अमः ष्यङादेशेयङश्चा॑विति चापि कौमुदगन्ध्याशब्द इत्यर्थः । इञन्तस्योदाहरति — वाराह्रेति । वराहस्यापत्यं स्त्री विग्रहः । अत इञ् । अकारलोपः । वाराहिशब्दः । तत्र इकार उत्तम#ः । रेफादाकार उत्तमसमीपवर्ती गुरुः इञ इकारस्य ष्यङादेशः, चाविति भावः । वासिष्ठी वैआआमित्रीति । ऋष्यणन्तावेतौ औपगवीति । अणन्तत्वेऽपि गुरूपोत्तमत्वाऽभावान्न ष्यङ् । जातिलक्षण इति ।गोत्रं च चरणैः सहे ति जातित्वम् । आहिच्छत्रीति । जातार्थे अणयं, नतु गोत्र इति न ष्यङ् । नच ष्यङ्प्रत्यय एव कुतो न विधीयते इति वाच्यं, तथा सति उदमेघस्यापत्यं स्त्रीति विग्रहेऽत इति ष्यङि चापि औदमेध्या, तस्या अपत्यं ओदमेधेय इति न सिध्येत्, अस्यापत्यप्रत्ययत्वाऽभावेन यलोपाऽप्राप्तेरिति स्पष्टं भाष्ये ।
इह सम्भवे व्यभिचारे च सति विशेषणविशेष्यभावो भवति, तेन'गोत्रे' ठनार्षयोःऽ इति चाणिञ्मात्रस्य विशेषणम्,'गुरूपोतमयोः' इत्येततदन्तस्य, तदाह - गोत्रे यावणिञौ विहितावनार्षौ तदन्तयोरिति । यद्यप्यपत्याधैकारादन्यत्र लौकिकस्य गोत्रस्य ग्रहणम्, तथाप्यत्र पारिभाषिकस्य ग्रहणम् ; लौकिकग्रहणस्य ठनार्षयोःऽ इति पर्युदासाश्रयणेनैव सिद्धत्वात् । इहायं ष्यङ् प्रत्ययो वा स्यात् ? आदेशो वा ? प्रत्ययविधावपि हि गापोष्टक्ऽ इत्यादौ षष्ठीदर्शनात्, उतरत्र'क्रौड।लदिभ्यश्च' इति पञ्चमीनिर्देशाच्च प्रत्ययपक्षोऽपि सम्भवत्येव । तत्राद्यपक्षे उदमेघस्यापत्यं स्त्री, ठत इञ्ऽ, औदमेघि इति स्थिते तदन्तात् ष्यङ् इविहिते औदमेघ्यायाश्छात्रा औदमेघाश्छात्त्राः, औदमेघ्यानां सङ्घः, ठिञश्चऽ'सङ्घाङ्कलक्षण' इति च इञन्ताद्विधीयमानोऽण् न स्यात् । अथापि लिङ्गविशिष्टपरिभाषया इञन्ताद्विधीयमानोऽण् ष्यङ्न्तादपि स्यात्, एवमपि ठापत्यस्य च तद्धितेऽनातिऽ इति यलोपो न स्यात्, ष्यङेऽनापत्यत्वात् ? नैष दोः ;'भस्याढेअ तद्धिते' इति पुंवद्भावात्प्रागेवण उत्पतेः ष्यङ्निवर्तते, तस्मिन्निवृते ठिञःऽ इत्यण्भविष्यति, यकारस्य च श्रवणंन भविष्यति । इह तह्याइÇदमेघ्याया उपत्यम्'स्त्रीभ्यो ढक्' , औदमेघेय इति यलोपो न स्यात्, पुंवद्भावश्च नास्ति, ठढेअऽ इति प्रतिषेधात् ? इतीममाद्ये पक्षे दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह - ष्यङदेशो भवतीति । नन्वस्मिन्पक्षे उडुलोम्नोऽपत्यं स्त्री बाह्वादिषु लोमन्शब्दस्य पाठात्केवलस्यापत्येन योगाभावात्सामर्थ्यातदन्तस्य ग्रहणादिञि तस्य ष्यङदेशे सति'ये चाभावकर्मणोः' इति प्रकृतिभावात्'नस्तद्धिते' इति टिलोपो न स्यात्, ततश्चौडुलोमन्येति स्यात्, औडुलोम्येति चेष्यते, प्रत्ययपक्षे इञा व्यवधानान्नास्ति प्रकृतिभावः, यस्येति लोपेऽपि कृते स्थानिद्भावाद्व्यवधानमेव ? नैष दोषः ; नात्राकृते टिलोपे ष्यङ् प्राप्नोति, किं कारणम् ? अगुरूपोतमत्वात्, तस्मादिञ्येव टिलोपः, ततो गुरूपोतमत्वम्, ततः ष्यङ्त्यानुपूर्व्यात्सिद्धिम् । अयं तर्हि दोषः - प्रत्ययग्रहणपरिभाषयाऽणिञन्तयोर्ग्रहणम्, तयोर्विधीयमानः ष्यङ्नेकाल्त्वात्सर्वादेशः प्राप्नोति ?'ङ्च्चि' इत्यन्त्यस्य भविष्यति, तातङ्न्यायेन सर्वादेशः प्राप्नोति । यत्र हि ङ्कारस्य प्रयोजनान्तरमपि सम्भाव्यते तत्र'ङ्च्चि' इत्येतदनन्यार्थङ्त्वेष्विनङदिषु सावकाशं बाधित्वा ठनेकाल्शित्सर्वस्यऽ इत्येतद्भवति, यथा तातङ् । इहि च सर्वादेशत्वेऽपि'यङ्श्चाप्' इति विशेषणं प्रयोजनं सम्भवति, तस्मात्सर्वादेशः प्राप्नोति, तत्राह - निर्दिश्यमानस्येत्यादि । यद्ययमुतमशब्दो व्युत्पन्नः स्यात्, तदोच्छब्दातमपि कृते'किमेतिङ्व्ययघाद्' इत्याम्प्राप्नोति ? न वा द्रव्यप्रकर्षत्वात् । उच्छब्दो हि ससाधनक्रियावचन उद्गते वर्तते, तस्य क्रियाद्वारकः प्रकर्षः - अतिशयेनोद्गत इति, ततश्च द्रव्यनिष्ठत्वात्प्रकर्षस्य ठद्रव्यप्रकर्षेऽ इति प्रतिषेधो भविष्यति । एवमपि तमपः पित्वादाद्यौदातत्वप्रसङ्गः ? न वोञ्छादिषु पाठात्, उञ्छादिषु हि उतमशश्वतमौ सर्वत्रेति पठ।ल्ते । एवमपि स तावत्पाठः कतेव्यः, क्रियामात्रस्य च प्रकर्षे उतमामित्याम्प्रसङ्गश्च, अतोऽनभिदानावुच्छब्दातमपोऽनुत्पत्तिरेषितव्या । किञ्चव्युत्पन्न उतमशब्दश्चतुष्प्रभृतिषु वर्तते, कथम् ? ऊर्ध्वमुच्चारित उद्गतः, स च प्रथमोच्चारितमपेक्षते, ततश्च त्रिषु द्वावुद्गतौ, तयोश्च द्वितीयोऽतिशयेनोद्गतः, द्वयोश्च सम्प्रधारणायां तरपा भाव्यम्, ततश्च यत्रोद्गता एव त्रयस्तत्रैव स्यात् - कारीषगन्ध्येत्यादौ; वाराह्यएत्यादौ तु न स्यात् । तदेवं व्युत्पत्तिपक्षे दोषं पश्यन्नव्युत्पत्तिपक्षमाश्रित्याह - उतमशब्द इति । स्वाभावादिति । न व्युत्पत्तिवशादित्यरय्थः । त्रिप्रभृतीनामिति वचनाद्दाक्षी प्लअक्षीत्यादौ न भवति । टिड्ढाणञिति ङीबेव भवतीति । प्राप्तिमात्राभिप्रायेणेदमुक्तम् । अत्र हि जातित्वात्'शार्गरवाद्यञः' इति ङीना भाव्यम् । वासिष्ठीति । ठृष्यन्धकऽ इत्यादिनाण् । आहिच्छत्रीति । जातादावर्थेऽण् । एवमत्रादेशपक्षः स्थापितः । यद्येवम्, हस्तिशिरसोऽपत्यम्, बाह्वादित्वादिञ्, ठचि शीर्षःऽ इति शीर्षादेशः, इञः ष्यङदेशः, ततः स्थानिवद्भावेन शीर्षशब्दस्य शिरोग्रहणेन ग्रहणाद्'ये च तद्धिते' इति शीर्षन्नादेशः प्राप्नोति ? अस्तु;'नस्तद्धिते' इति टिलोपो भविष्यति ।'ये चाभावकर्मणोः' इति प्रकृतिभावः प्राप्नोति, ततश्च हास्तिशीर्षण्येति स्यात्, प्रत्ययपक्षे त्विञाऽव्यवहितत्वान्नास्ति शीर्षन्नादेशः, यस्येति लोपेऽपि कृते स्थानिवद्भावाद्व्यवधानमेव, तेन हास्तिशीर्षेति सिद्ध्यति, तस्मात्प्रत्ययपक्ष आश्रणीयः । तदेतद्'ये च तद्धिते' इत्यत्र वामनो वक्ष्यति -'यदि प्रत्ययः, कथमौदमेघेय इति, आपत्याद्विहितः ष्यङ् सो' प्यापत्य एव, तत्र यलोपे सिद्धम्ऽ इति । जयादित्यस्तु मेने - शीर्षादेशसन्निपातेन ष्यङ्, स तद्विघातं न करिष्यतीति । यद्येवम्, अजादिप्रत्ययनिबन्धः शीर्षादेशः कथं तमजादि विहन्यात् ? ततः किम् ? ष्यङदेशोऽपि न प्राप्नोति, अनित्या सन्निपातपरिभाषा, तेन ष्यङ् भवति, शीर्षादेशश्च न भविष्यति । अयं तर्ह्यादेशपक्षे दोषः - अनुबन्धौ कर्तव्यौ यङ्श्चाबिति सामान्यग्रहणतदविघातार्थौ, अन्यथाऽणादेशे ष्यैङ्'टिड्ढाणञ्' इत्यादिना ङीप्स्यात्, इञादेशे तु ठिञ उपसङ्ख्यानम्ऽ इति ङीष्प्रसङ्गः ? नैष दोषः;'टिड्ढाणञ्' इत्यत्रात इति वर्तते, तत्र चाणाऽकारो विशेष्यते - अण्योऽकार इति । तत्र ष्यङदेशे ठनल्विधौऽ इति स्थानिवद्भावाभावान्ङीब्न भविष्यति । अणन्तादकारान्तादिति हि विज्ञायमाने स्वाश्रयमकारान्तत्वं स्थानिवद्भावादणन्तत्वं चेति स्यान्ङीपः प्रसङ्गः । ठिञ उपसङ्ख्यानम्ऽ इत्यत्रापि ठितो मनुष्यजातेःऽ इत्यत ठितःऽ इत्यपेक्ष्यते - इञ्य इकारः तदन्तादिति । इञन्तादिकारान्तादिति वा विज्ञायमाने ष्यङदेशे सति वाराह्यएत्यादिविकाराभावान्डीषभावः सिद्धः । एवमपि स्वरार्थश्चाबेष्टव्यः, अन्यथा इञादेशः ष्यङ् स्थानिवद्भावेन ञित्, टाबपि पित्वादनुदात इति ञित्स्वरेणाद्यौदातं पदं स्यात् । स्यादेतत् - इञो ञकारस्येत्संज्ञायाः प्रागेव प्रतिपदविधानात्ष्यङदेशः कारिष्यते, तत्र ञित्स्वराभावात् प्रत्ययस्वरे सति टाप्यपि सिद्धः स्वर इति, यथैव तर्हि ञित्स्वरो न भवति एवं वृद्धिरपि न स्याद्, अतो ञकारस्य सत्यामित्संज्ञायामादेश इत्यास्थेयम्, ततश्च स्वरे दोषप्रसङ्गाच्चाबर्थमनुबन्धौ कर्तव्यावेव । प्रत्ययपक्षे तु सति शिष्टे ष्यङः प्रत्ययस्वरे कृते तदन्तादापि सिद्धमिष्टम्, न रूपभेदो न स्वरभेदः । ननु च ष्यण्èóव स्त्रीत्वस्य द्योतितत्वादाब्न स्यात् ? नैष दोषः; यथा गार्ग्यायणीत्यादौ द्वाभ्यां स्त्रीत्वं द्योत्यते, तथाऽत्रापि द्वयोरेव सामर्थ्यमिति टाबपि भविष्यति ।'ष्यङः सम्प्रसारणम्' इत्यत्र विशेषणार्थं तर्हि त्वयाप्यनुबन्धौ कर्तव्यौ, इह मा भूत् - पाशानां समूहः पाश्या,'पाशादिभ्योयः' , पाश्यापतिरिति ? एवं तर्ह्येकोऽनुबन्धः करिष्यते, क एवः ? षकीरे ङीष्प्रसङ्गः । ङ्कारे'यङः सम्प्रसारणम्' इत्युच्यमाने लोलूयापुत्र इत्यत्रापि प्राप्नोति ? अप्रत्ययादित्यकारेऽतो लोपे च सति अकारेण व्यवहितत्वान्न भविष्यति । वाराहीपुत्र इत्यत्राअपि तर्हि टापा व्यवधानम् ? एकादेशस्य पूर्वं प्रत्यन्तवत्वान्नास्ति व्यवधानम् । ननु',ष्यङः सम्प्रसारणम्' इत्यत्र'लिटि धातोः' इत्यतोधातुग्रहणमनुवर्तते, ठादेच उपदेशेऽशितिऽ इत्यात्वं धातोर्यथा स्याद्, गोभ्यामित्यादौ मा भूदित्येवमर्थम् । तत्र यडन्तस्य धातोः पुत्रपत्योरनन्तरयोः सम्प्रसारणं भवतीत्युक्ते यो धातुर्लोलूयादिर्नासावनन्तरः, यश्चानन्तरो वाराह्यादिर्न स धातुः, तत्र धातुत्वानन्तर्ययोरन्यतररूपपरित्यागेन भवत्सम्प्रसारणं यथा वाराहीपुत्र इत्यादौ असत्यपि दातुत्वे आनन्तर्यमात्राश्रयणेन भवति, तथा लोलूयापुत्र इत्यत्रासत्यप्यानन्तर्ये धातुत्वाश्रयणेन स्यात् । अथ ब्रूयाः - यङ्धात्वोर्न परस्परेण विशेषणविशेष्यभावः, अपि तर्हि समुच्चयः - पुत्रपत्योरनन्तरस्य यङे धातोश्चेति ? तत्र वाराहीपुत्र इत्यादौ भविष्यति, न तु लोलूयापतिरित्यादौ; धातोर्व्यवधानात् । ततश्च सामर्थ्याद्धातुग्रहणस्योतरार्थैवानुवृत्तिः सम्पद्यत इति । यद्येवम्, वाक्पतिरित्यत्र वचेः सम्प्रसारणप्रसङ्गः ? एवं तर्हि धातोरिति निवर्तिष्यते, आत्वं पुनर्गवादेः प्रातिपदिकस्य न भवति; उपदेशोभावात् । स्वरूपज्ञापनप्रधानो निर्देशौउपदेशः ।'गोद्व्यचः' ,'नौद्व्यचः' इत्यादो तु कार्यान्तरार्थमुच्चारणम्, न स्वरूपज्ञापनार्थम् । तदेवं प्रत्ययपक्ष एक एवानुबन्धः कर्तव्यः । अत्र संग्रहश्लोकाः - पुंवद्भावाद्यजातौ यलुगणपि परस्मिन् ष्यङ् ह्यिऐदमेघे स्वार्थे ष्यङ् तद्यलुग्ढेअ क्रमत इह भवेदौडुलोम्या परस्मिन् । ष्यङ्शीर्षाधीनलाभस्तदभिविहतये न प्रभूर्हास्ति शीर्ष्ये सर्वादेशोऽपि तातङ्ङ्वि न यङ्णिञोः स्थानिनोरुक्तिहेतोः ॥ स्त्र्युक्तावप्याप्परस्मिन्निह सुलभ इति ष्ङै विधेयौ न वा ये- ऽणादेशे ङीनिवृत्यै त्वण इञ इति चेद् द्वौ विशेष्यौ न दोषः । ञित्वादादेरुदातः प्रसजति सहजादेशने वृद्ध्यभावः पाश्यापुत्त्रे निवृत्यै यण इक इह षित्वेकके ङीष्यङेस्तु ॥ लोलूयापुत्र इत्यद्व्यवहित इतरत्रापि दीर्घाऽन्तवत्स्याद् धात्वानन्तर्ययोगे विधिरिति स यथानन्तरेऽधौ तथा धोः । धात्वानन्तर्ययोश्चेन्मिथ इह न हि तेऽपेक्षिता वाक्पताविक् धोर्नात्राधिक्रियात्वे ह्युपदिशिरिति गोर्नो तदेवं ममैकः ॥