प्राचां ष्फ तद्धितः

4-1-17 प्राचां ष्फ तद्धितः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् अनुपसर्जनात् यञः च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

यञ्-प्रत्ययान्त-प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् प्राचां मतेन तद्धितसंज्ञकः ष्फ-प्रत्ययः भवति ।

Kashika

Up

यञ इत्येव। प्राचामाचार्याणां मतेन यञन्तात् स्त्रियां ष्फः प्रत्ययो भवति, स च तद्धितसंज्ञः। षकारो ङीषर्थः। प्रत्ययद्वयेनेह स्त्रीत्वं व्यज्यते। तद्धितग्रहणं प्रातिपदिकसंज्ञार्थम्। गार्ग्यायणी। वात्स्यायनी। अन्येषाम् — गार्गी। वात्सी। सर्वत्रग्रहणमुत्तरसूत्रादिहापकृष्यते, बाधकबाधनार्थम्। <<आवट्यात्०>> ४.१.७५ चापं वक्ष्यति, तमपि बाधित्वा प्राचां ष्फ एव यथा स्यात्। आवट्यायनी॥

Siddhanta Kaumudi

Up

यञन्तात्ष्फो वा स्यात् स्त्रियां स च तद्धितः ॥

Laghu Siddhanta Kaumudi

Up

यञन्तात् ष्फो वा स्यात्स च तद्धितः॥

Neelesh Sanskrit Detailed

Up

<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ष्फ प्रत्ययः प्रकृतसूत्रेण पाठ्यते । यञ्-प्रत्ययान्त-प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् प्राचाम् (पूर्वदिशि विद्यमानानाम्) आचार्याणाम् मतेन तद्धितसंज्ञकः ष्फ-प्रत्ययः भवति — इति अस्य सूत्रस्य आशयः । केवलः ष्फ-प्रत्ययः स्त्रीत्वं द्योतयितुम् सम्पूर्णरूपेण असमर्थः अस्ति इति कारणात् तस्मात् पुनः ङीष्-प्रत्ययः अपि नित्यं विधीयते । यथा, <<गर्गादिभ्यो यञ्>> 4.1.105 इत्यनेन गर्ग-शब्दात् गोत्रापत्यस्य निर्देशार्थम् यञ्-प्रत्यये कृते, तत्र स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्यये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण ( पूर्वदिशि विद्यमानानाम् आचार्याणाम् मतेन) ष्फ तथा ङीष् इति द्वौ प्रत्ययौ भवतः । प्रक्रिया इयम् — (प्राचां मतेन) गर्गस्य गोत्रापत्यं स्त्री → गर्ग + यञ् + ष्फ + ङीष् [<<गर्गादिभ्यो यञ्>> 4.1.105 इति यञ् । ततः स्त्रीत्वं द्योतयितुम् <<प्राचां ष्फ तद्धितः>> 4.1.17 इति ष्फ-प्रत्ययः । ततः सम्पूर्णरूपेण स्त्रीत्वं द्योतयितुम् ङीष् इति द्वितीयः स्त्रीप्रत्ययः ।] → गार्ग + य + फ + ई [<<तद्धितेष्वचामादैः>> 7.2.117 इति आदिवृद्धिः ।] → गार्ग् + य + फ + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः] → गार्ग् + य + आयन + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति प्रत्ययादिफकारस्य आयन्-आदेशः] → गार्ग् + य् + आयन + ई [ष्फ-प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अस्मिन् प्रत्यये परे यकारोत्तरस्य अकारस्य <<यस्येति च>> 6.4.148 इति लोपः भवति ।] → गार्ग् + य् + आयन् + ई [<<यस्येति च>> 6.4.148 इति नकारोत्तस्य अकारस्य ईकारे परे लोपः] → गार्ग्यायणी [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्] गर्गस्य गोत्रापत्यं स्त्री = गार्ग्यायणी । एवमेव, वत्सस्य गोत्रापत्यं स्त्री = वात्स्यायनी इत्यपि सिद्ध्यति । इति सर्वं प्राचाम् मतम् । अन्येषाम् आचार्याणाम् मतेन तु <<यञश्च>> 4.1.16 इति ङीप्-प्रत्ययः एव भवति, येन गर्गस्य गोत्रापत्यं स्त्री = गार्गी, वत्सस्य गोत्रापत्यं स्त्री = वात्सी इति शब्दाः सिद्ध्यन्ति । ष्फ-प्रत्यये इत्संज्ञकषकारस्य प्रयोजनम् ष्फ-प्रत्यये विद्यमानस्य आदिस्थस्य षकारस्य <<षः प्रत्ययस्य>> 1.3.6 इत्यनेन इत्संज्ञा भवति । अयं इत्संज्ञक-षकारः अस्मिन् प्रत्यये ङीष्-प्रत्ययविधानार्थः निर्दिष्टः अस्ति । अनेन ष्फ-प्रत्ययान्तशब्दाः षित्-संज्ञकाः भवन्ति, अतः तेभ्यः <<षिद्गौरादिभ्यश्च>> 4.1.41 इत्यनेन अग्रे ङीष्-प्रत्ययः विधीयते । केवलः ष्फप्रत्ययः स्त्रीत्वम् द्योतयितुम् न हि समर्थः, अतएव ङीष्-प्रत्ययः अपि तत्र नित्यम् भवति इति अस्य आशयः । ष्फ-प्रत्ययस्य तद्धितसंज्ञा प्रकृतसूत्रेण ष्फ-प्रत्ययस्य विशेषरूपेण तद्धितसंज्ञा कृता अस्ति । इयं तद्धितसंज्ञा प्रातिपदिकसंज्ञाविधानार्थम्; तदनुषङ्गेन च ङीष्-प्रत्ययविधानार्थम् क्रियते । <<कृत्तद्धितसमासाश्च>> 1.2.46 इत्यनेन तद्धितप्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञा विधीयते; प्रातिपदिकसंज्ञायां च सत्याम् <<ङ्याप्प्रातिपदिकात्>> 4.1.1 इत्यस्मिन् अधिकारे विद्यमानेन <<षिद्गौरादिभ्यश्च>> 4.1.41 इत्यनेन पाठितः ङीष्-प्रत्ययः अपि अत्र अवश्यं भवितुम् अर्हति । 'सर्वत्र' शब्दस्य अपकर्षः <<सर्वत्र लोहितादिकतन्तेभ्यः>> 4.1.18 इत्यस्मात् अग्रिमसूत्रात् सर्वत्र इत्यस्य प्रकृतसूत्रे अपकर्षः क्रियते — इति अत्र काशिकाकारः ब्रते । यत्र यत्र यञन्तात् अन्यः कश्चित् प्रत्ययः स्त्रीप्रत्ययः विहितः दृश्यते, तत्र तत्र सर्वत्र प्राचां मतेन तं बाधित्वा ष्फ-प्रत्ययः एव करणीयः — इति अत्र काशिकाकारस्य आशयः अस्ति । यथा, <<आवट्याच्च>> 4.1.75 इति सूत्रेण आवट्य इति यञ्-प्रत्ययान्तात् शब्दात् वस्तुतः चाप्-प्रत्ययः पाठितः अस्ति, परन्तु प्राचां मतेन तत्रापि प्रकृतसूत्रेण चाप्-प्रत्ययस्य बाधं कृत्वा ष्फ-प्रत्ययः एव भवति, येन आवट्य + ष्फ + ङीष् → आवट्यायनी इति सिद्ध्यति ।

Balamanorama

Up

<<प्राचां ष्फ तद्धितः>> - प्राचां ष्फ तद्धितः । 'यञ' इत्यनुवर्तते, स्त्रियामित्यदिकृतम् । 'ष्पे' ति लुप्तप्रथमाकम् । तदाह — यञ्न्तादिति ।

Padamanjari

Up

षकारो ङीषथे इति । ननु च ष्फप्रत्ययेनैव स्त्रीत्वस्य द्योतितत्वान्ङीषा न भाव्यम् ? तत्राह - प्रत्ययद्वयेनेति । तद्धितग्रहणं प्रातिपदिकसंज्ञार्थमिति । प्रातिपदिकसंज्ञा तु ङीषर्था । ननु च सिद्धोऽत्र ङीष्, पित्करणसामर्थ्यात्, धातोस्तु त्रपादेः षित्वमङ्विधौ चरितार्थमिति त्रपा, क्षमेत्यादौ ङीषभावः ? तदेतत्सान्न्यासिकं तिष्ठतु तावत् । सर्वत्रग्रहणमित्यादि । सर्वत्रग्रहणं तावद् उतरसूत्रे न कर्तव्यम्, आरम्भसामर्थ्यादेव'प्राचाम्' इत्यस्य निवृतौ सर्वत्र सिद्धत्वात्, अतस्तदिहापकृष्यते, तदयमर्थो भवति - सर्वत्र बाधकविषयोऽपि प्राचां मतेन यञन्तात्ष्फो भवतीति । एवं सप्तम्यर्थोऽपि समञ्जसो भवति । आवट।लच्चापं वक्ष्यतीति । असति पुनरपकर्षे आवट।लच्चाबुदीचां मते सावकाशः परत्वात्ष्फं बाधेत, सर्वत्रग्रहणात्ष्फ एव भवति । एवं च'षाच्च यञः' इति चाब्विषयेऽपि प्राचां ष्फ एव भवति - शार्कराक्ष्यायणी, पौतिमाष्यायणी, गोकक्ष्यायणीति ॥