यङश्चाप्

4-1-74 यङः चाप् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात्

Kashika

Up

index: 4.1.74 sutra: यङश्चाप्


यङन्तात् प्रातिपदिकात् स्त्रियां चाप् प्रत्ययो भवति। ञ्यङः ष्यङश्च सामान्यग्रहणम् एतत्। आम्बष्ठ्या। सौवीर्या। कौसल्या। ष्यङ् कारीषगन्ध्या। वाराह्या। बालाक्या। षाच् च यञः। षात् परो यो यञ् तदन्ताच् चाप् वक्तव्यः। शार्कराक्ष्या। अपुतिमाष्या। गौकक्ष्या। उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन वा भविष्यति।

Siddhanta Kaumudi

Up

index: 4.1.74 sutra: यङश्चाप्


यङन्तात् स्त्रियां चाप् स्यात् । यङ इति ञ्यङ्ष्यङोः सामान्यग्रहणम् । आम्बष्ठ्या । कारीषगन्ध्या ।<!षाद्यञश्चाप् वाच्यः !> (वार्तिकम्) ॥ पौतिमाष्या ॥

Balamanorama

Up

index: 4.1.74 sutra: यङश्चाप्


यङश्चाप् - यङश्चाप् । पकारो 'हल्ङ्याब्भ्यः' इत्यत्र ग्रहणार्थः । चकारः 'चितः' इत्यन्तोदात्तार्थः । सामान्येति । यङ्रूपस्य उभयत्रापि सत्त्वादिति भावः । ञ्यङमुदाहरति — आम्बष्ठएति । आम्बषष्ठस्यापत्यं स्त्रीत्यर्थः ।वृद्धेत्कोसले॑ति ञ्यङ् । आम्बष्ठशब्दाच्चाप् । ष्यङमुदाहरति — कारीषगन्ध्येति । करीषं=गवादिपशुपुरीषं, तस्येव गन्धो यस्य सः-करीषगन्धिः ।उपमानाच्चे॑ति गन्धस्य इकारोऽन्तादेशः । करीषगन्धेर्गोत्रापत्यं स्त्रीत्यर्थेऽण्प्रत्ययः । 'अणिञोरनार्षयोः' इति तस्य ष्यङादेशः । षाद्यञ इति । षकारात्परो यो यञतदन्तादपि चाबित्यर्थः । शार्कराक्ष्येति । शर्कराक्षस्यापत्यं स्त्रीत्यर्थः । पौतिमाष्येति । पूतिमाषस्यापत्यं स्त्रीत्यर्थः ।गर्गादिभ्यो य॑ञित्युभयत्र यञ् ।

Padamanjari

Up

index: 4.1.74 sutra: यङश्चाप्


पकारः ङ्याप्प्रातिपदिकात्ऽ इत्यत्र सामान्यग्रहणार्थः, स्वरस्तु परत्वाच्चित्स्वर एव भवति । ञ्यङः ष्यङ्श्च सामान्यग्रहणमिति । यद्यपि ष्यङ्स्त्रियामेव विधीयते, तथापि डित्करणसामर्थ्यातस्याप्यत्र ग्रहणमिति भावः । आम्बष्ट।लेत्यादि । अम्बष्ठादिभ्योऽपत्ये'वृद्धेत्कोसलाजादाञ्ञ्यङ्' । कारीषगन्ध्येति । स्वादिसूत्रे व्युत्पादितम् । वराहशब्दात् ठत इञ्ऽ। शर्कराक्ष-पूतिमाषगोकक्षशब्दा गर्गादयः । ननु च गौकाक्ष्यशब्दः क्रौड।लदिषु पठ।ल्ते, ततः ष्यङः'यिङ्' इत्येव चाप् सिद्धः ? मा पाठि, तत्र'षाच्च यञः' इत्यनेनैव शर्कराक्ष्यादिवद् गौकाक्ष्येति सिद्धम् । यद्येवम्, गौकाक्षीपुत्रः - ष्यङः सम्प्रसारणं न प्राप्नोति ? नात्र सम्प्रसारणमिष्यते, गौकाक्ष्यापुत्र इत्येव भवति । एवं हि सौनागाः पठन्ति -'ष्यङः सम्प्रसारणे गौकक्ष्यायाः प्रतिषेधः' ॥