कौरव्यमाण्डूकाभ्यां च
4-1-19 कौरव्यमाण्डूकाभ्यां च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् अनुपसर्जनात् ष्फ
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
'कौरव्य' तथा 'माण्डूक' एताभ्याम् शब्दाभ्याम् स्त्रीत्वं द्योतयितुयम् ष्फ-प्रत्ययः भवति ।
Kashika
Up
कौरव्य माण्डूक इत्येताभ्यां स्त्रियां ष्फः प्रत्ययो भवति। कुर्वादिभ्यो ण्ये ४.१.१५१ कृते <<ढक् च मण्डूकात्>> ४.१.११९ इत्यणि च। यथाक्रमं टाब्ङीपोरपवादः। कौरव्यायणी। माण्डूकायनी। कथं कौरवी सेना? <<तस्येदं>> — ४.३.१२० — विवक्षायामणि कृते भविष्यति॥ कौरव्यमाण्डूकयोरासुरेरुपसंख्यानम्॥ आसुरायणी। शैषिकेष्वर्थेषु <<इञश्च>> ४.२.११२ इत्यणि प्राप्ते छप्रत्यय इष्यते। आसुरीयः कल्पः॥
Siddhanta Kaumudi
Up
आभ्यां ष्फः स्यात् । टाप्ङीषोरपवादः । कुर्वादिभ्यो ण्यः <{SK1175}> । कौरव्यायणी । ढक् च मण्डूकात् <{SK1122}> इत्यण् । माण्डूकायनी ।<!आसुरेरुपसङ्ख्यानम् !> (वार्तिकम्) ॥ आसुरायणी ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ष्फ प्रत्ययः प्रकृतसूत्रेण पाठ्यते । कौरव्य तथा च माण्डूक इत्येताभ्यां शब्दाभ्यां स्त्रीत्वं द्योतयितुम् ष्फ-प्रत्ययः विधीयते — इति अस्य सूत्रस्य अर्थः । केवलः ष्फ-प्रत्ययः स्त्रीत्वं द्योतयितुम् सम्पूर्णरूपेण असमर्थः अस्ति इति कारणात् तस्मात् पुनः ङीष्-प्रत्ययः अपि नित्यं विधीयते । क्रमेण विवरणम् एतादृशम् —
1. कौरव्य-शब्दः
<<कुर्वादिभ्यो ण्यः>> 4.1.151 इति सूत्रेण कुरु-शब्दात् अपत्यार्थे ण्य-प्रत्यये कृते कौरव्य इति शब्दः सिद्ध्यति । तत्र स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्यये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण ष्फ-प्रत्ययः भवति, ततश्च ङीष्-प्रत्ययः अपि विधीयते —
कुरोः अपत्यं स्त्री
→ कुरु + ण्य + ष्फ + ङीष् [<<कुरुनादिभ्यो ण्यः>> 4.1.172 इति ण्य-प्रत्ययः । ततः <<कौरव्यमाण्डूकाभ्यां च>> 4.1.19 इति ष्फ । ततः <<षिद्गौरादिभ्यश्च>> 4.1.41 इति ङीष्]
→ कुरु + य + फ + ई [इत्संज्ञालोपाः]
→ कौरु + य + फ + ई [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः]
→ कौरो + य + फ + ई [<<ओर्गुणः>> 6.4.146 इति उकारस्य गुणः]
→ कौरव् + य + फ + ई [<<वान्तो यि प्रत्यये>> 6.1.79 इति अवादेशः]
→ कौरव् + य + आयन + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति प्रत्ययादिफकारस्य आयन्-आदेशः]
→ कौरव् + य् + आयन + ई [ष्फ-प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अस्मिन् प्रत्यये परे यकारोत्तरस्य अकारस्य <<यस्येति च>> 6.4.148 इति लोपः भवति ।]
→ कौरव् + य् + आयन् + ई [<<यस्येति च>> 6.4.148 इति नकारोत्तस्य अकारस्य लोपः]
→ कौरव्यायणी [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्]
कुरु-शब्दात् <<तस्येदम्>> 4.3.120 इत्यनेन अण्-प्रत्यये कृते कौरव इति शब्दः सिद्ध्यति । अत्र स्त्रीत्वे विवक्षिते तु प्रकृतसूत्रम् नैव प्रवर्तते यतः प्रकृतसूत्रे कौरव्य इति ण्य-प्रत्ययान्तरूपस्यैव निर्देशः वर्तते । अतः कौरव-शब्दात् स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्-प्रत्ययः एव भवति, येन कौरवी इति शब्दः सिद्ध्यति । कौरवी सेना इत्यादिषु उदाहरणेषु अस्य प्रयोगः दृश्यते ।
2. माण्डूक-शब्दः
<<ढक् च मण्डूकात्>> 4.1.119 इति सूत्रेण मण्डूक शब्दात् अपत्यार्थे अण्-प्रत्यये कृते माण्डूक इति शब्दः सिद्ध्यति । तत्र स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इत्यनेन ङीप्-प्रत्यये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण ष्फ-प्रत्ययः भवति, ततश्च ङीष्-प्रत्ययः अपि विधीयते —
मण्डूकस्य अपत्यं स्त्री
→ मण्डूक + अण् + ष्फ + ङीष् [<<ढक् च मण्डूकात्>> 4.1.119 इति ढक्-प्रत्ययः । ततः <<कौरव्यमाण्डूकाभ्यां च>> 4.1.19 इति ष्फ । ततः <<षिद्गौरादिभ्यश्च>> 4.1.41 इति ङीष्]
→ माण्डूक + अ + फ + ई [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः]
→ माण्डूक् + अ + फ + ई [<<यस्येति च>> [[6.4.148 इति अकारलोपः]
→ माण्डूक् + अ + आयन + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति प्रत्ययादिफकारस्य आयन्-आदेशः]
→ माण्डूक् + ० + आयन + ई [ष्फ-प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अस्मिन् प्रत्यये परे ककारोत्तरस्य अकारस्य <<यस्येति च>> 6.4.148 इति लोपः भवति ।]
→ माण्डूक् + आयन् + ई [<<यस्येति च>> 6.4.148 इति नकारोत्तस्य अकारस्य लोपः]
→ माण्डूकायनी
<<ढक् च मण्डूकात्>> 4.1.119 इत्यनेन मण्डूकशब्दात् अपत्यार्थे ढक्-प्रत्ययः अपि भवति, येन माण्डूकेय इति शब्दः सिद्ध्यति । अत्र स्त्रीत्वे विवक्षिते तु प्रकृतसूत्रम् नैव प्रवर्तते यतः प्रकृतसूत्रे माण्डूक इति अण्-प्रत्ययान्तरूपस्यैव निर्देशः वर्तते । अतः माण्डूकेय-शब्दात् स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इति ङीप्-प्रत्ययः एव भवति, येन माण्डूकेयी इति शब्दः सिद्ध्यति ।
वार्त्तिकम् — <!कौरव्यमाण्डूकयोरासुरेरुपसङ्ख्यानम्!>
प्रकृतसूत्रे आसुरि इति शब्दः अपि स्वीकर्तव्यः — इति अस्य वार्त्तिकस्य आशयः । अतः,
असुरस्य अपत्यम् इत्यस्मिन् अर्थे
असुर-शब्दात् <<अत इञ्>>
4.1.95 इति इञ्-प्रत्यये कृते तत्र स्त्रीत्वं द्योतयितुम् ष्फ-प्रत्ययः, ततश्च ङीष्-प्रत्ययः भवति । प्रक्रिया इयम् —
असुरस्य अपत्यं स्त्री
→ असुर + इञ् + ष्फ + ङीष् [<<अत इञ्>> 4.1.95 इति इञ्-प्रत्ययः । ततः <<कौरव्यमाण्डूकाभ्यां च>> 4.1.19 इति ष्फ । ततः <<षिद्गौरादिभ्यश्च>> 4.1.41 इति ङीष्]
→ आसुर + इ + फ + ई [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः]
→ आसुर् + इ + फ + ई [<<यस्येति च>> [[6.4.148 इति अकारलोपः]
→ आसुर् + इ + आयन + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति प्रत्ययादिफकारस्य आयन्-आदेशः]
→ आसुर् + ० + आयन + ई [ष्फ-प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अस्मिन् प्रत्यये परे ककारोत्तरस्य अकारस्य <<यस्येति च>> 6.4.148 इति लोपः भवति ।]
→ आसुर् + आयन् + ई [<<यस्येति च>> 6.4.148 इति नकारोत्तस्य अकारस्य लोपः]
→ आसुरायणी [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्]
स्त्रीप्रत्ययप्रकरणे इञ्-प्रत्ययान्तशब्देभ्यः वस्तुतः कोऽपि स्त्रीप्रत्ययः नैव पाठितः अस्ति ।अतः अनेन वार्त्तिकेन उक्तः ष्फ-प्रत्ययः न हि कस्यचित् बाधकरूपेण प्रवर्तते ।
ष्फ-प्रत्ययान्तशब्देभ्यः ङीष्-प्रत्ययविधानम्
ष्फ-प्रत्यये विद्यमानस्य आदिस्थस्य षकारस्य <<षः प्रत्ययस्य>>
1.3.6 इत्यनेन इत्संज्ञा भवति । अयं
इत्संज्ञक-षकारः अस्मिन् प्रत्यये ङीष्-प्रत्ययविधानार्थः निर्दिष्टः अस्ति । अनेन ष्फ-प्रत्ययान्तशब्दाः षित्-संज्ञकाः भवन्ति, अतः तेभ्यः <<षिद्गौरादिभ्यश्च>>
4.1.41 इत्यनेन अग्रे ङीष्-प्रत्ययः विधीयते । केवलः ष्फप्रत्ययः स्त्रीत्वम् द्योतयितुम् न हि समर्थः, अतएव ङीष्-प्रत्ययः अपि तत्र नित्यम् भवति इति अस्य आशयः ।
Balamanorama
Up
<<कौरव्यमाण्डूकाभ्यां च>> - कौरव्यमाण्डूकाभ्यां च । आभ्यामिति । कौरव्यमाण्डूकाभ्यामित्यर्थः । क्रमेणेति । कौरव्यशब्दाट्टापो माण्डूकशब्दान्ङीषस्चापवाद इत्यर्थः ।छ कौरव्यशब्दस्य यञन्तत्वान्माण्डूकशब्दस्य अणन्तत्वाच्च 'ङीपोऽपवाद' इत्युचितमिति भ्रमं वारयितुमाह — कुर्वादिभ्य इत्यादिना । कौरव्यायणीति । कुरोरपत्यं स्त्रीति विग्रहः । 'कुर्वादिभ्यो ण्यः' इति ण्यः । णकार इत्, 'ओर्गुणः,'आदिवृद्धिः,गोत्रं च चरणैः सहे॑ति जातित्वेऽपि योपधत्वात्जातेरस्त्रीविषया॑दिति ङीषभावे टाप् प्राप्तः । तं बाधित्वा ष्फः, ष इत्, आयन्,यस्येति चे॑त्यकारलोपः । षित्त्वान्ङीष् ।यस्येति चे॑ति भावः । माण्डूकायनीति । मण्डूको नाम ऋषिः, तस्यापत्यं स्त्रीति विग्रहः ।ढक् च मण्डूका॑दित्यण्, आदिवृद्धिः, 'यस्येति च,'गोत्रं च चरणैः सहे॑ति जातित्वान्ङीष् प्राप्तः, तं बाधित्वा ष्फः, ष इत्, आयन्, 'यस्येति च,' षित्त्वान्ङीष्,यस्येति चे॑ति भावः । 'टाब्ङीपोरपवाद' इति पाठस्तु प्रामादिकः ।आसुरेरुपसङ्ख्यानमिति ।ष्फस्ये॑ति शेषः । आसुरायणीति । असुरस्यापत्यं स्त्रीति विग्रहः ।अत इञ्, आदिवृद्धिः, ष्फः, ष इत्ायन् ।यस्येति च॑ ।षित्त्वान्ङीष्,यस्येति च॑ । णत्वमिति भावः ।
Padamanjari
Up
कौरव्यमाण्डूअकयोरित्यादि । अस्मिन्सूत्रे आसुरेरपि ग्रहणं कर्तव्यम् । आसुरिकौरव्यमाण्डूअकेभ्यश्चेति वक्तव्यमित्यर्थः । आसुरायणीति । ष्फस्य तद्धितत्वाद्'यस्येति च' इति इञो लोपः । तदिदं तद्धितग्रहणमेव लिङ्गं भवति - आसुरेरपि ष्फ इति । यञादिष्वकारान्तेषु सवर्णदीर्घत्वेनापि रूपं सिद्धम् । शैषिकेषु चार्थोष्वति । आसुरीप्रसङ्गादिदमत्रोक्तम् ; अन्यथा द्विरासुरिग्रहणं कर्तव्यं स्यात् । आसुरीय इति । असुरस्यापत्यमासुरिः, तेन प्रोक्त आसुरीयः कल्प इति ॥