4-1-119 ढक् च मण्डूकात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् अण्
'तस्य अपत्यम्' (इति) मण्डूकात् अण् ढक् वा
'तस्य अपत्यम्' अस्मिन् अर्थे 'मण्डूक ' शब्दात् अपत्यार्थम् विकल्पेन ढक् तथा अण्-प्रत्ययौ विधीयेते ।
To indicate the meaning of 'his/her offspring', the word मण्डूक gets the अण् as well as ढक् प्रत्यय optionally.
मण्डूकशब्दादपत्ये ढक् प्रत्ययो भवति। चकारादण् च वा। तेन त्रैरूप्यं भवति। माण्डूकेयः, माण्डूकः, माण्डूकिः॥
चादण् । पक्षे इञ् । माण्डूकेयः । माण्डूकः । माण्डूकिः ॥
षष्ठीसमर्थात् 'मण्डूक ' शब्दात् अपत्यार्थे वर्तमानसूत्रेण 'अण्' तथा 'ढक्' - द्वयोः प्रत्यययोः वैकल्पिकविधानम् क्रियते । यदि द्वयोः प्रयोगः न भवति तर्हि पक्षे <<अत इञ्>> 4.1.95 इत्यनेन इञ्-प्रत्ययः अपि विधीयते - 1. मण्डूक + अण् → माण्डूक + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → माण्डूक् + अ [<<यस्येति च>> 6.4.148 इति अकारलोपः] → माण्डूक 2. मण्डूक + ढक् → मण्डूक + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ढकारस्य एय्-आदेशः] → माण्डूक + एय [<<किति च>> 7.2.118 इति आदिवृद्धिः] → माण्डूक् + एय [<<यस्येति च>> 6.4.148 इति अकारलोपः] → माण्डूकेय 3. मण्डूक + इञ् → माण्डूक + इ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → माण्डूक् + इ [<<यस्येति च>> 6.4.148 इति अकारलोपः] → माण्डूकि ज्ञातव्यम् - अस्मिन् सूत्रे 'वा' शब्दः द्विवारमागच्छति । प्रथमः 'वा' शब्दः <<समर्थानां प्रथमात् वा>> 4.1.82 इत्यस्मात् स्वीक्रियते, येन तद्धितविधानमेव विकल्पेन भवति (अतः 'मण्डूकापत्यम्' उत 'मण्डूकस्य अपत्यम्' एतौ प्रयोगौ अपि साधु स्तः) । द्वितीयः 'वा' शब्दः अस्मिन् सूत्रे एव अस्ति, येन 'अण्' तथा 'ढक्' - द्वावपि प्रत्ययौ विकल्पेन भवतः, अतः तदभावे <<अत इञ्>> 4.1.95 इत्यनेन इञ्-प्रत्ययः विधीयते ।
<<ढक् च मण्डूकात्>> - अन्यथा शैवः शैविरित्यादिः स्यात्, ढक् च । मण्डूको नाम ऋषिः पक्षे इञिति । पूर्वसूत्राद्वाग्रहणानुवृत्तेरिति भावः ।