सर्वत्र लोहितादिकतन्तेभ्यः
4-1-18 सर्वत्र लोहितादिकतन्तेभ्यः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् अनुपसर्जनात् यञः च ष्फ
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
गर्गादिगणे विद्यमानानाम् 'लोहित' इत्यस्मात् आरभ्य 'कत' इति शब्दानाम् यञ्-प्रत्ययान्तरूपात् स्त्रीत्वं द्योतयितुम् नित्यं ष्फ-प्रत्ययः भवति ।
Kashika
Up
यञ इत्येव। पूर्वेण विकल्पे प्राप्ते नित्यार्थं वचनम्। सर्वत्र लोहितादिभ्यः कतपर्यन्तेभ्यो यञन्तेभ्यः स्त्रियां ष्फः प्रत्ययो भवति। कतशब्दः स्वतन्त्रं यत् प्रातिपदिकं तदवधित्वेन परिगृह्यते कपिशब्दात् परः कपि कतेति, न प्रातिपदिकावयवः कुरुकतेति। लौहित्यायनी। शांसित्यायनी। बाभ्रव्यायणी।
कण्वात् तु शकलः पूर्वः कतादुत्तर इष्यते।
पूर्वोत्तरौ तदन्तादी ष्फाणौ तत्र प्रयोजनम्॥
प्रातिपदिकेष्वन्यथा पाठः, स एवं व्यवस्थापयितव्य इति मन्यते। कतन्तेभ्य इति बहुव्रीहितत्पुरुषयोरेकशेषः, तथा <<कण्वादिभ्यो गोत्रे>> ४.२.१११ इति। तत्र तत्पुरुषवृत्त्या संगृहीतो मध्यपाती शकलशब्दो यञन्तः प्रत्ययद्वयमपि प्रतिपद्यते। शाकल्यायनी। शाकल्यस्येमे छात्राः शाकलाः॥
Siddhanta Kaumudi
Up
लौहितादिभ्यः कतशब्दान्तेभ्यो यञन्तेभ्यो नित्यं ष्फः स्यात् । लौहित्यायनी । कात्यायनी ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ष्फ प्रत्ययः प्रकृतसूत्रेण पाठ्यते । <<गर्गादिभ्यो यञ्>> 4.1.105 इत्यनेन सूत्रेण गर्गादिगणस्य शब्देभ्यः यञ्-प्रत्यये कृते, एतेभ्यः यञन्तेभ्यः शब्देभ्यः स्त्रीत्वं द्योतयितुम् <<यञश्च>> 4.1.16 इत्यनेन ङीप्-प्रत्यये प्राप्ते; गर्गादिगणस्य लोहित इत्यस्मात् आरभ्य कत इति यावताम् उपत्रिंशत् शब्दानां विषये यञन्तात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययं बाधित्वा ष्फ-प्रत्ययः भवति — इति अस्य सूत्रस्य आशयः । केवलः ष्फ-प्रत्ययः स्त्रीत्वं द्योतयितुम् सम्पूर्णरूपेण असमर्थः अस्ति इति कारणात् तस्मात् पुनः ङीष्-प्रत्ययः अपि नित्यं विधीयते ।
<<गर्गादिभ्यो यञ्>> 4.1.105 इति सूत्रे निर्दिष्टः गर्गादिगणः अधः निर्दिष्टः अस्ति । अस्मिन् गणे विद्यमानाः लोहितादि-कतन्तशब्दाः स्थूलरूपेण (bold font) निर्दिष्टाः सन्ति । एतेषां विषये प्रकृतत्रस्य प्रयोगः भवति ।
गर्ग । वत्स । वाजासे । संकृति । अज । व्याघ्रपात् । विदभृत् । प्राचीनयोग । अगस्ति । पुलस्ति । रेभ । अग्निवेश । शङ्ख । शट । शक । एक । घूम । अवट । मनस् । धनंजय । विश्वावसु । जरमाण । लोहित । शंसित । बभ्रु । वल्गु । मण्डु । शङ्कु । लिगु । गुहलु । मन्तु । मङ्क्षु । अलिगु । जिगीषु । मनु । तन्तु । मनायीसूनु । कथक । कन्थक । ऋक्ष । तृक्ष । वृक्ष । तनु । तरुक्ष । तलुक्ष । तण्ड । वतण्ड । कपिकत । कपि । कत । कुरुकत । अनडुह् । कण्व । शकल । गोकक्ष । अगस्त्य । कण्डिनी । यज्ञवल्क । पर्णवल्क । अभयजात । विरोहित । वृषगण । रहूगण । शण्डिल । वर्णक । चणक । चुलुक । मुद्गल । मुसल । जमदग्नि । पराशर । जतूकर्ण । जातूकर्ण । महित । मन्त्रित । अश्मरथ । शर्कराक्ष । पूतिमाष । स्थूरा । अदरक । अररक । एलाक । पिङ्गल । कृष्ण । गोलन्द । उलूक । तितिक्ष । भिषज । भिषज् । भिष्णज । भडित । भण्डित । दल्भ । चेकित । चिकित्सित । देवहू । इन्द्रहू । एकलु । पिप्पलु । बृहदग्नि । सुलोहिन । सुलाभिन् । उक्थ । कुटीगु ॥ इति गर्गादिगणः ।
अत्र स्थूलरूपेण निर्दिष्टानां शब्दानां विषये प्रकृतसूत्रं प्रवर्तते । कानिचन उदाहरणानि एतानि —
1. लोहित-शब्दात् गोत्रापत्यस्य निर्देशार्थम् यञ्-प्रत्यये कृते, तत्र स्त्रीत्वं द्योतयितुम् <<यञश्च>> 4.1.16 इत्यनेन प्राप्तं ङीप्-प्रत्ययं बाधित्वा प्रकृतसूत्रेण ष्फ तथा ङीष् इति द्वौ प्रत्ययौ भवतः । प्रक्रिया इयम् —
लोहितस्य गोत्रापत्यं स्त्री
→ लोहित + यञ् + ष्फ + ङीष् [<<गर्गादिभ्यो यञ्>> 4.1.105 इति यञ् । ततः स्त्रीत्वं द्योतयितुम् <<सर्वत्र लोहितादिकतन्तेभ्यः>> 4.1.18
इति ष्फ-प्रत्ययः । ततः सम्पूर्णरूपेण स्त्रीत्वं द्योतयितुम् <<षिद्भिदादिभ्योऽङ्>> 3.3.104 इत्यनेन ङीष् इति द्वितीयः स्त्रीप्रत्ययः ।]
→ लौहित + य + फ + ई [<<तद्धितेष्वचामादैः>> 7.2.117 इति आदिवृद्धिः ]
→ लौहित् + य + फ + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः]
→ लौहित् + य + आयन + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति प्रत्ययादिफकारस्य आयन्-आदेशः]
→ लौहित् + य् + आयन + ई [ष्फ-प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अस्मिन् प्रत्यये परे यकारोत्तरस्य अकारस्य <<यस्येति च>> 6.4.148 इति लोपः भवति ।]
→ लौहित् + य् + आयन् + ई [<<यस्येति च>> 6.4.148 इति नकारोत्तस्य अकारस्य लोपः]
→ लौहित्यायनी
अनेन प्रकारेण लोहितस्य गोत्रापत्यं स्त्री = लौहित्यायनी इति सिद्ध्यति । एवमेव —
1. शंसितस्य गोत्रापत्यं स्त्री = शंसित + यञ् + ष्फ + ङीष् → शांसित्यायनी
2. कपेः गोत्रापत्यं स्त्री = कपि + यञ् + ष्फ + ङीष् → काप्यायनी
3. कतस्य गोत्रापत्यं स्त्री = कत + यञ् + ष्फ + ङीष् → कात्यायनी
इत्यादीनि अन्यानि उदाहरणानि ।
2. बभ्रु-शब्दात् गोत्रापत्यस्य निर्देशार्थम् यञ्-प्रत्यये कृते, तत्र स्त्रीत्वं द्योतयितुम् <<यञश्च>> 4.1.16 इत्यनेन प्राप्तं ङीप्-प्रत्ययं बाधित्वा प्रकृतसूत्रेण ष्फ तथा ङीष् इति द्वौ प्रत्ययौ भवतः । प्रक्रिया इयम् —
बभ्रोः गोत्रापत्यं स्त्री
→ बभ्रु + यञ् + ष्फ + ङीष् [गर्गादिगणे विद्यमानात् बभ्रु-शब्दात् <<मधुबभ्र्वोर्ब्राह्मणकौशिकयोः>> 4.1.106 इति यञ्-प्रत्ययः भवति । ततः स्त्रीत्वं द्योतयितुम् <<सर्वत्र लोहितादिकतन्तेभ्यः>> 4.1.18 इति ष्फ-प्रत्ययः । ततः सम्पूर्णरूपेण स्त्रीत्वं द्योतयितुम् <<षिद्भिदादिभ्योऽङ्>> 3.3.104 इत्यनेन ङीष् इति द्वितीयः स्त्रीप्रत्ययः ।]
→ बाभ्रु + य + फ + ई [<<तद्धितेष्वचामादैः>> 7.2.117 इति आदिवृद्धिः ]
→ बाभ्रो + य + फ + ई [<<ओर्गुणः>> 6.4.146 इति गुणः]
→ बाभ्रव् + य + फ + ई [<<वान्तो यि प्रत्यये>> 6.1.79 इति अवादेशः]
→ बाभ्रव् + य + आयन + ई [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति प्रत्ययादिफकारस्य आयन्-आदेशः]
→ बाभ्रव् + य् + आयन + ई [ष्फ-प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अस्मिन् प्रत्यये परे यकारोत्तरस्य अकारस्य <<यस्येति च>> 6.4.148 इति लोपः भवति ।]
→ बाभ्रव् + य् + आयन् + ई [<<यस्येति च>> 6.4.148 इति नकारोत्तस्य अकारस्य लोपः]
→ बाभ्रव्यायणी [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्]
अनेन प्रकारेण बभ्रोः गोत्रापत्यं स्त्री = बाभ्रव्यायणी इति सिद्ध्यति । एवमेव —
1. वल्गोः गोत्रापत्यं स्त्री = वल्गु + यञ् + ष्फ + ङीष् → वाल्गव्यायनी ।
2. मण्डोः गोत्रापत्यं स्त्री = मण्डु + यञ् + ष्फ + ङीष् → माण्डव्यायनी ।
3. शङ्कोः गोत्रापत्यं स्त्री = शङ्कु + यञ् + ष्फ + ङीष् → शाङ्कव्यायनी ।
इत्यादीनि अन्यानि उदाहरणानि ।
1. प्रकृतसूत्रे निर्दिष्ट: कतन्त इति शब्दः कत अन्ते येषाम् इति बहुव्रीहिसमासेन सिद्ध्यति । अत्र कत + अन्त = कतन्त इत्यत्र वस्तुतः <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यनेन सवर्णदीर्घः प्राप्नोति, परन्तु अस्य शब्दस्य शकन्ध्वादिगणे ग्रहणं कृत्वा सवर्णदीर्घं बाधित्वा <!शकन्ध्वादिषु पररूपं वाच्यम्!> इत्यनेन पररूपे कृते कतन्त इति शब्दः सिद्ध्यति ।
2. गर्गादिगणे कत इति शब्दः वस्तुतः त्रिषु स्थलेषु विद्यते — कुरुकत, कपिकत, तथा च कत । एताभ्याम् कुरुकत तथा च कपिकत इत्यत्र कत-शब्दः केवलम् अंशरूपेण विद्यते, पूर्णशब्दस्वरूपेण न । अतः प्रकृतसूत्रे विद्यमानः कतशब्दः पृथग् रूपेण विद्यमानेन कत-शब्देन सह एव अन्वेति ।
ष्फ-प्रत्ययान्तशब्देभ्यः ङीष्-प्रत्ययविधानम्
ष्फ-प्रत्यये विद्यमानस्य आदिस्थस्य षकारस्य <<षः प्रत्ययस्य>>
1.3.6 इत्यनेन इत्संज्ञा भवति । अयं
इत्संज्ञक-षकारः अस्मिन् प्रत्यये ङीष्-प्रत्ययविधानार्थः निर्दिष्टः अस्ति । अनेन ष्फ-प्रत्ययान्तशब्दाः षित्-संज्ञकाः भवन्ति, अतः तेभ्यः <<षिद्गौरादिभ्यश्च>>
4.1.41 इत्यनेन अग्रे ङीष्-प्रत्ययः विधीयते । केवलः ष्फप्रत्ययः स्त्रीत्वम् द्योतयितुम् न हि समर्थः, अतएव ङीष्-प्रत्ययः अपि तत्र नित्यम् भवति इति अस्य आशयः ।
'शकल' इति शब्दस्य विषये अपि ष्फ-प्रत्ययविधानम्
गर्गादिगणे विद्यमानः
शकल इति शब्दः वस्तुतः लोहितादि-कतन्तेषु नैव परिगण्यते । परन्तु
अस्मात् शब्दात् यञ्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् ष्फ-प्रत्ययः एव भवति — इति अत्र भाष्यकारेण स्पष्टीकृतम् अस्ति । अतः,
शकलस्य गोत्रापत्यं स्त्री = शकल + यञ् + ष्फ + ङीष् → शाकल्यायनी इति शब्दः सिद्ध्यति ।
तर्हि एतत् साधयितुम्
शकल-शब्दः
कत-शब्दात् पूर्वमेव किमर्थं न स्थापितः इति चेत्, गर्गादिगणस्यैव कश्चन उपगणः
कण्वादिगणः, यः <<कण्वादिभ्यो गोत्रे>>
4.2.111 इत्यस्मिन् सूत्रे प्रयुक्तः अस्ति; तस्मिन् अपि
शकल इति शब्दः आवश्यकः । कण्वादिगणस्य आरम्भः तु
कत-शब्दात् अनन्तरं भवति । अतः
शकल इति शब्दः कत-शब्दात् पूर्वम् स्थापयितुम् नैव शक्यः । अतएव तस्य विषये भाष्ये विशेषविधानं कृतम् अस्ति ।
प्रकृतसूत्रे सर्वत्र इति शब्दस्य प्रयोजनम्
प्रकृतसूत्रे विद्यमानः
सर्वत्र इति शब्दः पूर्वसूत्रे पाठितस्य
प्राचां शब्दस्य अनुवृत्तिबाधनार्थम् अस्ति । इत्युक्ते, <<प्राचां ष्फ तद्धितः>>
4.1.17 इति पूर्वसूत्रात्
प्राचाम् शब्दस्य अनुवृत्तिः अग्रे मा भूत् इति हेतुना अस्मिन् सूत्रे
सर्वत्र शब्दः स्थापितः वर्तते । <<प्राचां ष्फ तद्धितः>> इत्यत्र निर्दिष्टः नियमः केवलं प्राचां मतेन साधु अस्ति, परन्तु प्रकृतसूत्रे निर्दिष्टः नियमः सर्वेषाम् मतेन साधु अस्ति — इति अत्र आशयः वर्तते । वस्तुतस्तु <<प्राचां ष्फ तद्धितः>>
4.1.17 इत्यनेन गर्गादिगणस्य सर्वेषाम् एव शब्दानां विषये ष्फ-प्रत्यये विहिते सति प्रकृतसूत्रे
सर्वत्र शब्दं विना अपि
सर्वत्र इति अर्थः अवश्यं स्पष्टी भवति, यतः प्रकृतसूत्रे गर्गादिगणस्य केभ्यश्चन शब्देभ्यः एव पुनः ष्फ-प्रत्ययः पाठितः विद्यते । अतएव अयम्
सर्वत्र इति शब्दः प्रकृतसूत्रार्थं नास्ति अपितु अस्य पूर्वसूत्रे अपकर्षः कर्तव्यः इति अस्मिन् सन्दर्भे भाष्यकारः विवृणोति —
सर्वत्रग्रहणं किमर्थम् ? प्राचामेव हि स्यात्। नैतदस्ति प्रयोजनम्, सिद्धं प्राचां पूर्वेण । इदं तर्हि प्रयोजनम्। सर्वेषामेव यथा स्यात् — आवट्यायनी, चापं बाधित्वा ष्फो यथा स्यात् । — महाभाष्यम्
यत्र यत्र यञन्तात् अन्यः कश्चित् प्रत्ययः स्त्रीप्रत्ययः विहितः दृश्यते, तत्र तत्र सर्वत्र प्राचां मतेन तं बाधित्वा ष्फ-प्रत्ययः एव करणीयः — इति अनेन अपकर्षण भाष्यकारः स्पष्टी करोति । <<आवट्याच्च>>
4.1.75 इति सूत्रेण
आवट्य इति यञ्-प्रत्ययान्तात् शब्दात् वस्तुतः चाप्-प्रत्ययः पाठितः अस्ति, परन्तु प्राचां मतेन तत्रापि प्रकृतसूत्रेण चाप्-प्रत्ययस्य बाधं कृत्वा ष्फ-प्रत्ययः एव भवति, येन
आवट्य + ष्फ + ङीष् → आवट्यायनी इति सिद्ध्यति — इति उदाहरणम् अपि अस्मिन् सन्दर्भे भाष्ये दत्तं विद्यते ।
बाध्यबाधकभावः
1. गर्गादिगणे विद्यमानानाम् लोहितादि-कतन्त-शब्दानां विषये <<यञश्च>> 4.1.16 इत्यनेन प्राप्तं ङीप्-प्रत्ययं बाधित्वा प्रकृतसूत्रेण ष्फ-प्रत्ययः विधीयते । तद्भिन्नानाम् शब्दानां विषये तु प्रकृतसूत्रं नैव प्रवर्तते; अतः तेषां विषये इत्यनेन औत्सर्गिकः ङीप्-प्रत्ययः एव भवति ।
2. प्राचाम् आचार्याणां मतेन तु गर्गादिगणस्य सर्वेषाम् एव शब्दानां विषये ङीप्-प्रत्ययं बाधित्वा यञन्तात् ष्फ इत्येव प्रत्ययः विधीयते — इति <<प्राचां ष्फ तद्धितः>> 4.1.17 इत्यनेन सूत्रेण उच्यते ।
Balamanorama
Up
<<सर्वत्र लोहितादिकतान्तेभ्यः>> - सर्वत्र लोहितादिर्गर्गाद्यन्तर्गणः । लोहित आदिर्येषामिति, कतोऽन्तो येषामिति च विग्रहः ।कतन्ते॑त्यत्र शकन्ध्वादित्वात्पररूपम् । 'यञ' इत्यनुवृत्तं बहुवचनान्ततया विपरिणम्यते ।प्राचां ष्फ तद्धितः॑ इति सूत्रंप्राचां॑वर्जमनुवर्तते । सर्वत्रेति । सर्वेषु मतेष्वित्यर्थः । नित्यमिति यावत् । तदाह — लोहितादिभ्य इत्यादिना । लौहित्यायनीति । लोहितस्यापत्यं स्त्रीति विग्रहः । लोहितशब्दाद्गर्गादियञन्तात् ष्फः । ष इत्, फकारस्यायन्,यस्येति चे॑ति यकारादकारस्य लोपः, 'तद्धितः' इत्यप्यनुवृत्तेः षित्त्वान्ङीषिति भावः । कात्यायनीति । पूर्ववत्प्रक्रिया बोध्या ।
Padamanjari
Up
लोहितादीति पृथक्पदं लुप्तविभक्तिकम्, पूर्वत्र च प्राचां मते ष्फो विहितः, इह तु सर्वत्र मते । कोऽर्थः ? सर्वेषाअं मत इत्यर्थः, तदाह - सर्वेषामाचार्याणां मत इति । मतेनेति तृतीयान्तपाठे सूत्रे पष्ठ।ल्न्तात्रल् । स्वतन्त्रमिति । योऽन्यस्यावयवो न भवति तत्स्वतन्त्रं प्रातिपदिकम्, कः पुनरसावित्यत्राह - कपिशब्दात्पर इति । लौहित्यायनीत्यादिर्गर्गाद्यन्तर्गणः । बभ्रुशब्दोऽपि तत्रैव पठ।ल्ते, यञ्तु'मधुबब्भ्र्वोर्ब्राह्मणकौशिक्योः' इत्यननैव भवति । कण्वात्वित्यादि । कण्वशब्दात्पूर्वः कतशब्दातूतरः शकलशब्द इष्यते, कतशकलकण्वेत्येवभेषां संनिवेशः कार्य इत्यर्थः । किमेवं सति भवति ? इत्याह - पूर्वोतराविति । शकलशब्दोऽन्त आदिश्च यथाक्रमं ययोः पूर्वोतरयोर्गणयोस्तौ तथोक्तौ । पूर्वो गणो लोहितादिः शकलशब्दान्तो भवति, उतरश्च गणः शकलशब्दादिर्भवतीत्यर्थः । सत्यमेवं भवति, प्रयोजनं तु किम् ? इत्यत आह - ष्फाणाविति । श्लोकं व्याटष्टे - प्रातिपदिकेष्वन्यथा पाठ इति । कपिकत, कुरुकत, अनडुह्, कण्व, शकलेत्येवं गर्गादिषु गणसन्निवेशः । स एवं व्यवस्थापयितव्य इति । एवमिति श्लोकोक्तयाऽऽनुपूर्व्येत्यर्थः । अनडुह्कुरुकतशब्दावस्मात्स्थानादपकृष्यान्यत्र पाठयौ, शकलशब्दस्तु कतकण्वयोर्मध्ये पठितव्य इति यावत् । नन्वेवं गणद्वयादपि प्रच्युतः शकलशब्दः ष्फाणौ द्वावपि न प्रतिपद्येत, तत्राह - कतन्तेभ्य इति । बहुव्रीहितत्पुरुषयोरेकशेष इति । कतस्यान्तः समीपभूतः कतन्त इति तत्पुरुषेण शकलशब्द उच्यते, शकन्ध्वादित्वान्निपातनाद्वा पररूपम् । तथा कतोऽन्तो येषां तानि कतन्तानीति बहुव्रीहिः, तत्र बहुव्रीहितत्पुरुषयोः सह विवक्षायां बहुव्रीहिः शिष्यते;'स्वरभिन्नानां यस्योतरस्वरविधिः स शिष्यते' इति वचनात् । तथेत्यादि ।'कण्वादिभ्यः' इत्यपि बहुव्रीहितत्पुरुषयोरेकेशेष इत्यर्थः । कण्वस्यादिः समीपभूतः कण्वादिः शकलशब्दः, कण्व आदिर्येषां तानि कण्वादीनि, ततः पूर्ववदेकशेषः । तत्र बहुव्रीहितत्पुरुषयोर्मध्ये तत्पुरुषसमासेन । मध्यवर्तीति । गणद्वयस्य । प्रत्ययद्वयमपीति । ष्फाणावित्यर्थः । शाकला इति । ठापत्यस्य चऽ इति यलोपः । अपर आह - पूर्वोतरौ तदन्तादी ग्राह्याविति शेषः, पूर्वो गणस्तदन्तो ग्राह्यः - सर्वत्र लोहितादिशकलान्तेभ्य इति, उतरो गणस्तदादिर्ग्राह्यः - शकलादिभ्यो गोत्र इति । एवं ष्फाणौ प्रयोजनमिति ॥