4-1-151 कुर्वादिभ्यः ण्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्
'तस्य अपत्यम्' (इति) कुर्वादिभ्यः ण्यः
'तस्य अपत्यम्' अस्मिन् अर्थे कुर्वादिगणस्य शब्देभ्यः ण्य-प्रत्ययः भवति ।
सौवीरेषु बहुलमिति निवृत्तम्। कुरु इत्येवमादिभ्यः शब्देभ्योऽपत्ये ण्यः प्रत्ययो भवति। कौरव्यः। गार्ग्यः। <<कुरुनादिभ्यो ण्यः>> ४.१.१७२ इति कुरुशब्दादपरो ण्यप्रत्ययो भविष्यति। स तु क्षत्रियात् तद्राजसंज्ञकः तस्य बहुषु लुका भवितव्यम्, अयं तु श्रूयत एव। कौरव्याः। कौरव्यशब्दस्य क्षत्रियवचनस्य तिकादिषु पाठात् फिञपि भवति। कौरव्यायणिः। रथकारशब्दोऽत्र पठ्यते, स जातिवचनः। त्रैवर्णिकेभ्यः किंचिन्न्यूना रथकारजातिः। कारिणस्तु रथकारशब्दादुत्तरसूत्रेणैव ण्यः सिद्धः। केशिनीशब्दः पठ्यते, तस्य कैशिन्यः। पुंवद्भावो न भवति, स्त्रीप्रत्ययनिर्देशसामर्थ्यात्। <<वेनाच्छन्दसि>> (ग०सू० ७६) इति पठ्यते। कथं भाषायां वैन्यो राजेति? छान्दस एवायं प्रमादात् कविभिः प्रयुक्तः। वामरथशब्दः पठ्यते, तस्य कण्वादिवत् कार्यमिष्यते, स्वरं वर्जयित्वा लुगादिकमतिदिश्यते। बहुषु वामरथाः। स्त्री वामरथी। वामरथ्यायनी। युवा वामरथ्यायनः। वामरथ्यस्य छात्रा वामरथाः। वामरथानि सङ्घाङ्कलक्षणानि। स्वरस्तु ण्यप्रत्ययस्यैव भवति, नातिदेशिकमाद्युदात्तत्वम्॥ कुरु। गर्ग। मङ्गुष। अजमारक। रथकार। वावदूक। सम्राजः क्षत्रिये (ग०सू० ७५)। कवि। मति। वाक्। पितृमत्। इन्द्रजालि। दामोष्णीषि। गणकारि। कैशोरि। कापिञ्जलादि। कुट। शलाका। मुर। एरक। अभ्र। दर्भ। केशिनी। वेनाच्छन्दसि (ग०सू० ७६)। शूर्पणाय। श्यावनाय। श्यावरथ। श्यावपुत्र। सत्यंकार। वडभीकार। शङ्कु। शाक। पथिकारिन्। मूढ। शकन्धु। कर्तृ। हर्तृ। शाकिन्। इनपिण्डी। वामरथस्य कण्वादिवत् स्वरवर्जम् (ग० सू० ७७)॥
अपत्ये । कौरव्या ब्राह्मणाः । वावदूक्याः ॥ (गणसूत्रम् -) सम्राजः क्षत्रिये ॥ साम्राज्यः । साम्राजोऽन्यः ॥
<<कुर्वादिभ्यो ण्यः>> - कुर्वादिभ्यो ण्यः । अपत्ये इति । शेष पूरणमिदम् ।सौवीरेष्वि॑ति निवृत्तम् । कौरव्या ब्राआहृणा इति । कुरुर्नाम कश्चिद्ब्राआहृणः । तस्यापत्यानीति विग्रहः । ण्यप्रत्यये ओर्गुणे अवादेशः । आदिवृद्धिः । यस्तु 'कुरुनादिभ्यो ण्यः' इति ण्यो वक्ष्यते, तस्य तद्राजत्वाद्बहुषु लुकि-॒कुरवः क्षत्रियाः॑ इति भवति । एतत्सूचनार्थमेव बहुवचनं, 'ब्राआहृणा' इति विशेष्यं चोदाहृतम् । वावदूक्या इति । वावदूकस्यापत्यानीति विग्रहः । सम्राजः क्षत्रिये इति । कुर्वादिगणसूत्रम् । 'अपत्ये' इति शेषः । क्षत्रिय एवेति नियमार्थमिदम् । साम्राजोऽन्य इति । सम्राजः क्षत्रिये इति । कुर्वादिगणसूत्रम् । 'अपत्ये' इति शेषः । क्षत्रिय एवेति नियमार्थमिदम् । साम्राजोऽन्य इति । सम्राजः शूद्रादौ उत्पन्न इत्यर्थः ।
ननु च'कुरुनादिभ्यो ण्यः' इत्येव कुरुशब्दाण्णयः सिद्धः, किमर्थमिह पठ।ल्ते ? अत आह - कुरुशब्दादपरोऽपीति । सत्यमपरोऽपि ण्यप्रत्ययो भविष्यति । स तु त्रत्रियादित्यनेनार्थभेदमाह । तद्राजसंज्ञक इत्यजेन रूपभेदमाह । तिकादिषु पाठादिति । कुरुकौरव्यशब्दौ द्वावपि पठ।लेते । कारिणस्तु रथकारशब्दादिति । कारिणःउशिल्पिनः । रथकारजातिस्तु शिल्पिवृत्तिर्न भवतीति मन्यते । तस्य पुंवद्भावो न भवतीति ।'भस्या' ढेअ तद्धितेऽ इति विधीयमानः, यदि हि स्यात्'नस्तद्धिते' इति टिलोपः स्यात् । कस्मान्न भवतीत्याह - स्त्रीप्रत्ययनिर्देशसामर्थ्यादिति । पुंलिङ्गस्यापि पाठे लिङ्गविशिष्टपरिभाषया केशिनीशब्दादपि सिद्धः प्रत्ययः, पुंल्लिङ्गात्वनभिधानान्न भविष्यतीति भावः । वामरथस्य कण्वादिवत्स्वरवर्जमिति गणवाक्यं व्याचष्टे - वामरथशब्द इत्यादि । तस्येति प्रकरणाण्ण्यप्रत्ययान्तस्येति विज्ञेयम् । कण्वादिबदिति । केवलानां तेषां कस्यचित्कार्यस्याविधानाद्यञन्तानां कण्वादीनां यत्कार्यं तस्यातिदेशः । लुगादिकमिति । कण्वादिषु यञन्तेषु दृष्टमात्रस्य कार्यस्यातिदेशः, न तु कण्वादित्वप्रत्युक्तस्य, अत एव स्वरवर्जमित्याह । तेन लुगादिकमप्यतिदिश्यते, न तु'कण्वादिभ्यो गोत्रे' इत्येव प्रत्ययविधिः । वामरथा इति ।'यञञोश्च' इति बहुषु लुक् । यञश्च'प्राचांष्फ तद्धितः' , यूनि'यञिञोश्च' इति फक्; शैषिकेष्वर्थेषु छे प्राप्ते'कण्वादिभ्यो गोत्रे' 'सङ्घाङ्कलक्षणेषु' इति चाण् भवति । सम्राजः क्षत्रिय इति । सम्राजोऽपत्यं साम्राज्यो भवति, क्षत्रियश्चेत्; साम्राजोऽन्यः ॥