कुरुनादिभ्यो ण्यः

4-1-172 कुरुनादिभ्यः ण्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् जनपदशब्दात्

Sampurna sutra

Up

index: 4.1.172 sutra: कुरुनादिभ्यो ण्यः


तस्य अपत्यम् (इति) क्षत्रियात् जनपदशब्दात् कुरु-नादिभ्यः ण्यः

Neelesh Sanskrit Brief

Up

index: 4.1.172 sutra: कुरुनादिभ्यो ण्यः


'कुरु' अयम् क्षत्रियवाची शब्दः तथा नकारादि-क्षत्रियवाचिशब्दाः यदि जनपदस्य नामरूपेण अपि प्रयुज्यन्ते, तर्हि तेभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे ण्य-प्रत्ययः भवति ।

Kashika

Up

index: 4.1.172 sutra: कुरुनादिभ्यो ण्यः


जनपदशब्दात् क्षत्रियातित्येव। कुरुशब्दात् नादिभ्यश्च प्रातिपदिकेभ्यो ण्यः प्रत्ययो भवति। अणञोरपवादः। कौरव्यः। नकारादिभ्यः नैषध्यः। नैपथ्यः। तस्य राजनि इत्येव, कौरव्यो राजा।

Siddhanta Kaumudi

Up

index: 4.1.172 sutra: कुरुनादिभ्यो ण्यः


कौरव्यः । नैषध्यः । स नैषधस्यार्थपतेःइत्यादौ तु शैषिकोऽण् ॥

Laghu Siddhanta Kaumudi

Up

index: 4.1.172 sutra: कुरुनादिभ्यो ण्यः


कौरव्यः। नैषध्यः॥

Balamanorama

Up

index: 4.1.172 sutra: कुरुनादिभ्यो ण्यः


कुरुणादिभ्यो ण्यः - कुरुनादिभ्यो ण्यः । कुरुशब्दान्नकारादिभ्यश्च जनपदक्षत्रियवाचकेभ्योऽपत्ये राजनि च ण्यः स्यादित्यर्थः । कौरव्य इति । कुरोरपत्यं, कुरूणां राजेति वा विग्रहः । नैषध्य इति । निषधशब्दो देशे राजनि च । शैषिक इति ।तस्येदमित्यनेने॑ति शेषः ।

Padamanjari

Up

index: 4.1.172 sutra: कुरुनादिभ्यो ण्यः


आदिशब्दो नकारेणैव सम्बध्यते, न कुरुशब्देन; तदादेर्जनपदस्याभावात्, तदाह - कुरुशब्दान्नकारादिभ्यश्चेति । अमञोरपवाद इति । कुरुशब्दाद्'द्व्यञ्मगध' इत्यणोऽपवादः, नादिभ्यस्त्वञः । नैषध्य इति । कथं'नैषधो' र्हति चेदघम्ऽ इति ? स्वच्छन्दवाच ऋषयः । कथं'स नैषधस्यार्थपतेः सुतायाम्' इति ? निराङ्कुशाः कवयः । शेषविवक्षायां वोभयत्राण्समर्थनीयः ॥