षिद्भिदादिभ्योऽङ्

3-3-104 षिद्भिदादिभ्यः अङ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

षिद्भ्यो भिदादिभ्यश्च स्त्रियामङ् प्रत्ययो भवति। गणपरिपठितेषु भिदादिषु निष्कृष्य प्रकृतयो गृह्यन्ते? जृष् — जरा। त्रपूष् — त्रपा। भिदादिभ्यः खल्वपि — भिदा। छिदा। विदा। क्षिपा। गुहा गिर्योषध्योः (ग०सू० २९)। श्रद्धा। मेधा। गोधा। आरा। हारा। कारा। क्षिया। तारा। धारा। लेखा। रेखा। चूडा। पीडा। वपा। वसा। मृजा। क्रपेः संप्रसारणं च (ग०सू० ३०)। कृपा। भिदा विदारणे (ग०सू० ३१)। भित्तिरन्या। छिदा द्वैधीकरणे (ग०सू० ३२)। छित्तिरन्या। आरा शस्त्र्याम् (ग०सू० ३३)। आर्तिरन्या। धारा प्रपाते (ग०सू०३४)। धृतिरन्या॥

Siddhanta Kaumudi

Up

षिद्भ्यो भिदादिभ्यश्च स्त्रियामङ् । जॄष् । ऋदृशोऽङि गुणः <{SK2406}> । जरा । त्रपूष् । त्रपा । भिदा । विदारण एवायम् । भित्तिरन्या । छिदा । मृजा ॥ (गणसूत्रम् -) क्रपेः सम्प्रसारणं च । कृपा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

गणपरिपठितेष्विति । गणे तावद्भिदा च्छिदेत्यङ्न्ता एव समुदायाः पठ।ल्न्ते, तेषु भिदिच्छिदिप्रभृतयोऽङ्ः प्रकृतयो यास्ता इह भिदादिशब्देन निर्दिश्यन्त इत्यर्थः । कुत एतत् ? धात्वधिकारात् । भिदादिभ्यो धातुभ्य इति ।'भिदिर्विदारणे' ,'च्छिदिर्द्वैधीकरणे' ,'विद ज्ञाने' ,'क्षिप प्रेरणे' ,'गुहू संवरणे' ,'डुधाञ् धारणपोषणयोः' ,'मिधृ मेधृ हिसासंक्लेशनयोः' , 'ऋ गतौ' ,'हृञ् हरणे' ,'क्षि क्षये' , अथ वा'क्षि निवासगत्योः' ,'तृप्लवनतरणयोः' ,'धृञ् धारणे' ,'लिख अक्षरविन्यासे' ,'चुद प्रेरणे' ,'पीड अवगाहने' ,'डुवप् बीजतन्तुसन्ताने' ,'वस निवासे' ,'मृजूष् शुद्धौ' ,'क्रप कृपायाम्' इत्येते वेदितव्याः । जरेति । ठृदृशोऽङ् गुणिःऽ । गुहा गिर्योषध्योरिति । गिरिशब्देन तदेकदेश उच्यते, अन्यत्र गूढिः, क्तिन्नेव भवति । आरा॥ढारेति । गुणे कृते दीर्घत्वं च निपात्यते । रेखा, लेखेति । लिखेः पक्षे लकारस्य रेफो निपात्यते, गुणश्च । चूडेति । चुदेर्डत्वं दीर्घत्वं च निपात्यते । मितिरन्येति । भिद्यत इति भितिःउकुड।ल्म्, च्छितिःउच्छिद्रम् । आरा शस्त्र्यामिति । शस्त्री शस्त्रजातिः, स्वभावाच्च विशेषः परिगृह्यते । आराउप्रतोदः, अर्यन्ते प्रेर्यन्तेऽनयाश्वा इति कृत्वा । आतिंरन्येति । आङेऽर्तेश्च ठुपसर्गादृति धातौऽ इति वृद्धिः । धार्यते प्रपात्यते इति धारा । धृतिरन्येति । प्रीतिर्धैर्यं च ॥