कण्वादिभ्यो गोत्रे

4-2-111 कण्वादिभ्यः गोत्रे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अण्

Kashika

Up

index: 4.2.111 sutra: कण्वादिभ्यो गोत्रे


गोत्रम् इह न प्रत्ययार्थो न च प्रकृतिविशेषणम्। तर्ह्येवं सम्बध्यते, कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितः, तदन्तेभ्य एव अण् प्रत्ययो भवति शैषिकः। छस्य अपवादः। काण्वाः छात्राः। गौकक्षाः।

Siddhanta Kaumudi

Up

index: 4.2.111 sutra: कण्वादिभ्यो गोत्रे


एभ्यो गौत्रप्रत्ययान्तेभ्योऽण् स्यात् । कण्वो गर्गादिः । काण्वस्य छात्राः काण्वाः ॥

Balamanorama

Up

index: 4.2.111 sutra: कण्वादिभ्यो गोत्रे


कण्वादिभ्यो गोत्रे - कण्वादिभ्यो गोत्रे । काण्व्यस्येति । कण्वस्य गोत्रापत्यं काण्व्यः । गर्गादियञ् । काण्व्यस्य छापवादोऽण् ।यस्येति चे॑त्यकारलोपः ।आपत्यस्य चे॑ति यकारलोपः । 'काण्वा' इति रूपम् ।

Padamanjari

Up

index: 4.2.111 sutra: कण्वादिभ्यो गोत्रे


गोत्रमिह न प्रत्ययार्थ इति । शेषाधिकारस्य बाधप्रसङ्गात् । न च प्रकृतिविशेषणमिति । कण्वादीनामगोत्रप्रत्ययान्तानां गोत्रे वृत्यसम्भवात् । कण्वादिभ्यो गोत्रे यः प्रत्ययो विहित इति । प्रतिपदविहितो यञेव गृह्यते । एवं च कृत्वा गोत्रमपि पारिभाषिकं गृह्यते, न त्वपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यत इत्यपत्यमात्रस्य ग्रहणम् - कण्वो देवताऽस्येति । ननु'कण्वादिभ्यः' इत्युच्यमाने कथमणन्तात्प्रसङ्गः ? कथं वा यञन्तेभ्यः स्याद् येनेष्ट्ंअ तावत्सिद्ति ? एवं मन्यते - केवलेभ्यः कण्वादिभ्य औत्सर्गिक एवाण्, सिध्यति, छापवादत्वाद्योगस्य कण्वाद्यवयवे तद्धितान्ते कण्वादिश्ब्दो वर्तिष्यत इति ॥