मितां ह्रस्वः

6-4-92 मितां ह्रस्वः असिद्धवत् अत्र आभात् अचि उपधायाः णौ

Sampurna sutra

Up

index: 6.4.92 sutra: मितां ह्रस्वः


मितामङ्गस्य उपधायाः णौ ह्रस्वः

Neelesh Sanskrit Brief

Up

index: 6.4.92 sutra: मितां ह्रस्वः


मित्संज्ञकस्य अङ्गस्य उपधावर्णस्य णिच्-प्रत्यये परे ह्रस्वादेशः भवति ।

Neelesh English Brief

Up

index: 6.4.92 sutra: मितां ह्रस्वः


The उपधा letter of a मित्संज्ञक अङ्ग becomes ह्रस्व when followed by the णिच् प्रत्यय.

Kashika

Up

index: 6.4.92 sutra: मितां ह्रस्वः


मितो धातवः घटादयो मितः इत्येवमादयो ये प्रतिपादिताः, तेषामुपधाया ह्रस्वो भवति णौ परतः। घटयति। व्यथयति। जनयति। रजयति। शमयति। ज्ञपयति। केचिदत्र वा इत्यनुवर्तयन्ति। सा च व्यवस्थितविभाषा। तेन उत्क्रामयति, सङ्क्रामयति इत्येवमादि सिद्धं भवति।

Siddhanta Kaumudi

Up

index: 6.4.92 sutra: मितां ह्रस्वः


मितामुपधायाह्रस्वः स्याण्णौ परे । ज्ञपयति ।{$ {!1626 यम!} परिवेषणे$} । चान्मित् । पिरवेषणमिह वेष्टनम् । न तु भोजनानापि वेष्टना । यमयति चन्द्रम् । परिवेष्टत इत्यर्थः ।{$ {!1627 चह!} परिकल्कने$} । चहयति । अचीचहत् । कथादौ वक्ष्यमाणस्य तु अदन्तात्वेनाग्लोपित्वाद्दीर्घसन्वद्भावौ न । अचचहत् । चप इत्येके । चपयति ।{$ {!1628 रह!} त्यागे इत्येके$} । अरीरहत् । कथादेस्तु अररहत् ।{$ {!1629 बल!} प्राणने$} । बलयति ।{$ {!1630 चिञ्!} चयने$} ।

Laghu Siddhanta Kaumudi

Up

index: 6.4.92 sutra: मितां ह्रस्वः


घटादीनां ज्ञपादीनां चोपधाया ह्रस्वः स्याण्णौ । घटयति ॥ {$ {! 3 ज्ञप !} ज्ञाने ज्ञापने च $} ॥ ज्ञपयति । अजिज्ञपत् ॥

इति ण्यन्तप्रक्रिया ॥

Neelesh Sanskrit Detailed

Up

index: 6.4.92 sutra: मितां ह्रस्वः


यः धातुः मित्संज्ञकः अस्ति, तस्य धातोः उपधायाः णिच्-प्रत्यये परे ह्रस्वादेशः भवति । किम् नाम मित्संज्ञकः? वस्तुतः 'मकारः यस्मिन् धातौ इत्संज्ञकः, सः धातुः मित्संज्ञकः' - इति अर्थः भवेत्, परन्तु कस्मिन्नपि धातौ मकारः इत्संज्ञकः नास्ति । तर्हि कस्य धातोः मित्संज्ञा भवति? धातुपाठे विद्यमानैः भिन्नैः गणसूत्रैः अनेके धातवः 'मित्'संज्ञकाः उच्यन्ते । यथा, चुरादिगणे विद्यमानम् गणसूत्रम् <ऽज्ञपादयो मितःऽ> इत्यनेन ज्ञपँ, यमँ, चहँ, रहँ, बलँ, चिञ् - एते षट्-धातवः मित्संज्ञकाः भवन्ति । तथैव, <ऽघटादयो मितःऽ> इत्यनेन घटाद्यन्तर्गणे विद्यमानाः धातवः मित्संज्ञकाः भवन्ति । एतादृशाः मित्-संज्ञकाः ये धातवः, तेषामुपधावर्णस्य णिच्-प्रत्यये परे अनेन सूत्रेण ह्रस्वादेशः भवति । यथा -

  1. चुरादिगणे विद्यमानः ज्ञप् धातुः -

ज्ञप् + णिच् [सत्यापपाश.. 3.1.25 इति णिच्]

→ ज्ञप् + इ [इत्संज्ञालोपः]

→ ज्ञाप् + इ [अतः उपधायाः 7.2.116 इति वृद्धिः]

→ ज्ञप् + इ [मितां ह्रस्वः 6.4.92 इति ह्रस्वादेशः]

→ ज्ञपि [सनाद्यन्ताः धातवः 3.1.32 इति धातुसंज्ञा]

अस्य रूपाणि अग्रे 'ज्ञपयति', 'ज्ञपयतः' आदीनि भवन्ति ।

  1. भ्वादिगणस्य घटाद्यन्तर्गणे विद्यमानः हेड्-धातुः-

हेड् + णिच् [हेतुमति च 3.1.26 इति णिच्]

→ हेड् + इ [इत्संज्ञालोपः]

→ हिड् + इ [मितां ह्रस्वः 6.4.92 इति ह्रस्वादेशः । एच इग्घ्रस्वादेशे 1.1.48 इति एकारस्य ह्रस्वादेशः इकारः]

→ हिडि[सनाद्यन्ताः धातवः 3.1.32 इति धातुसंज्ञा]

अस्य रूपाणि अग्रे 'हिडयति', 'हिडयतः' आदीनि भवन्ति ।

  1. चुरादिगणे विद्यमानः चिञ्-धातुः

चि + णिच् [सत्यापपाश.. 3.1.25 इति णिच्]

→ चि + इ [इत्संज्ञालोपः]

→ चै + इ [अचो ञ्णिति 7.2.115 इति वृद्धिः]

→ चाय् + इ [एचोऽयवायावः 6.1.78 इति आय्-आदेशः]

→ चय् + इ [मितां ह्रस्वः 6.4.92 इति ह्रस्वादेशः]

→ चयि [सनाद्यन्ताः धातवः 3.1.32 इति धातुसंज्ञा]

अस्य रूपाणि अग्रे 'चययति', 'चययतः' आदीनि भवन्ति ।

ज्ञातव्यम् - एतत् सूत्रम् अतः उपधायाः 7.2.116 इत्यस्य अपवादः नास्ति, यतः अनेन सूत्रेण सर्वेषामुपधावर्णानाम् ह्रस्वादेशः उच्यते, केवलमकारस्य न । एतयोर्मध्ये विप्रतिषेधः अपि नास्ति, यतः उपधायामकारः अस्ति चेत् अस्य सूत्रस्य किमपि प्रयोजनमेव नास्ति । अतः णिच्-प्रत्यये परे आवश्यकं चेत् अतः उपधायाः 7.2.116 इत्यस्यापि प्रयोगः भवितुमर्हति, मितां ह्रस्वः 6.4.92 इत्यस्यापि च । एवमस्ति चेत् च णिच्-प्रत्ययविशिष्टानि कार्याणि ( यथा - गुणवृद्धी तथा तस्मात् जायमानाः अय्/अव्/आय्/आव् एते आदेशाः - एतानि सर्वाणि) आदौ कृत्वा तदनन्तरमेव च अनेन सूत्रेण ह्रस्वादेशः विधीयते । किमर्थम्? यतः आदौ एव अनेन सूत्रेण ह्रस्वादेशं कृत्वा अनन्तरम् णिच्-प्रत्ययविशिष्टानि कार्याणि कुर्मश्चेत् ह्रस्वादेशस्य प्रयोजनमेव विनश्येत् ।

Balamanorama

Up

index: 6.4.92 sutra: मितां ह्रस्वः


मितां ह्रस्वः - मितां ह्रस्वः । 'ऊदुपधाया गोहः' इत्यत उपधाया इति, 'दोषो णौ' इत्यतो णाविति चानुवर्तते । तदाह — मितामुपधाया इत्यादिना । ज्ञपयतीति । णिचि उपधावृद्धौ ह्रस्व इति भावः । यम च परिवेषणे । चान्मिदिति । 'इति अनुकृष्यते' इति शेषः । यमधातुः परिवेषणे णिचं लभते, मित्कार्यभाक्चेत्यर्थः । मित्संज्ञक इति वा । परिवेषणामिह वेष्टनमिति ।पिरवेषस्तु परिधि॑रिति कोशादिति भावः । न तु भोजनमिति । भुजेर्हेतुमण्ण्यन्तात्स्त्रियामित्यधिकारेण्यासश्रन्थो युच् । क्लीबत्वं लोकात् ।भोजने॑त्येव क्वचित्पाठः । भोक्तुः पात्रे भोज्यद्रव्योपकल्पनमिह न परिवेषणमित्यर्थः । भोजनायां यमेर्हुतमण्ण्यन्तस्य अमन्तत्वादेव मित्त्वसिद्धेरिति भावः । परिवेष्टत इत्यर्थ इति । अनेन इह परिविषेरण्यन्ताल्ल्युटि परिवेषणशब्द इति सूचितम् । नच वेष्टनेऽप्यर्थे यमेरमन्तत्वादेव सिद्धे मित्त्विधिव्र्यर्थ इति वाच्यं,न कम्यमिचमा॑मिति मित्तवप्रतिषेधप्रकरणस्थे 'यमोऽपरिवेषणे' इति घटाद्यन्तर्गणसूत्रेऽपरिवेषणे इति पर्युदासेन भोजनेतोऽन्यत्र वेष्टनेऽर्थे मित्तवनिषेधस्य प्राप्तौ मित्त्वप्रापणार्थत्वात् । 'यमोऽपरिवेषणे' इत्यत्र परिवेषण शब्देन भोजनाया एव विवक्षितत्वेन वेष्टने यमेर्मित्त्वनिषेधस्य प्रसङ्गात् । अत एवयमिर्भोजनातोऽन्यत्र न मि॑दिति व्याख्यातं मूलकृता । भोजनायां तु 'यमोऽपरिवेषणे' इति मित्त्वनिषेधविधौ भोजनायाः पर्युदासादेव तत्र मित्त्वनिषेधाऽभावादम्नतत्वादेव मित्त्वप्राप्तेरिह चुरादौ पिरवेषणशब्देन वेष्टनमेव विवक्षितं नतु भोजनेत्यास्तां तावत् । चह परिकल्पने इति । इत आरभ्य 'चिञ् चयने' इत्येतत्पर्यन्तं चेत्यनुवर्तते । अतस्तेषां मित्त्वण्णिचि ह्रस्वः । तदाह - चहयतीति । नन्वनेनैव सिद्धे अग्रे चुराद्यन्तर्गणे कथादावस्य पाठो व्यर्थ इत्यत आह — कथादाविति ।कथादयोऽदन्ता॑इति वक्ष्यते । तस्माण्णिचि अल्लोपे चहयतीत्यादौ अल्लोपस्य स्थानिवत्त्वाद्वृद्ध्यबावे मित्त्वाद्ध्रस्वे च न विशेषः । तथापि अदन्ताच्चङि णौ अल्लोपे सति अग्लोपितया सन्वत्त्वदीर्घयोरभावेअचचह॑दिति रूपमस्ति फलमित्यर्थः । चप इत्येके इति । 'चह परिकल्पने' इत्यस्य स्थानेचपे॑त्येके पठन्तीत्यर्थः । 'रह त्यागे इत्येके' इत्यपि तथैव व्याख्येयम् । एवं च ज्ञपादिषु पञ्चसु चहधातुश्चपधातुः रहधातुर्वा अन्यतमस्तृतीयः, बलधातुश्चतुर्थः, चिञ्धातुः पञ्चम इति कृत्वा ज्ञपादिपञ्चानां मतत्रयेऽपि पञ्चत्वाज्ज्ञपादिपञ्चकत्वस्य न विरोधः ।रह त्यागे॑इत्यस्यापि कथादिपाठफलमाह — कथादेस्तु अररहदिति । अदन्तत्वेन अग्लोपित्वान्न दीर्घसन्वत्त्वे इति भावः । बल प्राणने ।चे॑त्यनुवृत्त्या मित्त्वस्यानुकर्षणाद्ध्रस्वं मत्वाह — बलयतीति ।

Padamanjari

Up

index: 6.4.92 sutra: मितां ह्रस्वः


रजयतीति । रञ्जोर्णौ मृगरमण उपसङ्ख्यानम् इत्युपधालोपः ॥