3-4-59 अव्यये अयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
अव्यय उपपदेऽयथाभिप्रेताख्याने गम्यमाने करोतेः क्त्वाणमुलौ भवतः। ब्राह्मण पुत्रस्ते जातः। किं तर्हि वृषल नीचैः कृत्याचक्षे। नीचैः कृत्वा। नीचैःकारम्। उच्चैर्नाम प्रियमाख्येयम्। ब्राह्मण कन्या ते गर्भिणी। किं तर्हि वृषलोच्चैःकृत्याचक्षे। उच्चैःकृत्वा। उच्चैःकारम्। नीचैर्नामाप्रियमाख्येयम्। अयथाभिप्रेताख्यान इति किम्? उच्चैः कृत्वाचष्टे पुत्रस्ते जात इति। क्त्वाग्रहणं किम्, यावता सर्वस्मिन्नेवात्र प्रकरणे वासरूपेण क्त्वा भवतीत्युक्त म्? समासार्थं वचनम्। तथा हि<<क्त्वा च>>२.२.२२ इत्यस्मिन् सूत्रे <<तृतीयाप्रभृतीन्यन्यतरस्याम्>>२.२.२१ इति वर्तते। णमुलधिकारे पुनर्णमुल्ग्रहणं तुल्यकक्षत्वज्ञापनार्थम्। तेनोत्तरत्र द्वयोरप्यनुवृत्तिर्भविष्यति॥
अयथाभिप्रेताख्यानं नाम अप्रियस्योच्चैः प्रियस्य नीचैः कथनम् । उच्चैःकृत्य । उच्चैः कृत्वा । उच्चैःकारमप्रियमाचष्टे । नीचैःकृत्य । नीचैःकृत्वा । नीचैःकारं प्रियं ब्रूते ॥
ठयथाभिप्रेताख्यानेऽ इति नञः प्रश्लेषः पश्चान्निर्देशाद्विज्ञायते, अन्यथाऽसन्देहार्थं पूर्वं निर्दिशेत्, अयथाभिप्रेतशब्दश्चाख्यानक्रियाविशेषणं यथाभिप्रेतं न भवति तथाख्यान इत्यर्थः । पुत्रजन्म प्रार्थमानं ब्राह्मणं गत्वा केनचिद्गोपनीयवन्नीचैराख्यातम् - ब्राह्ण पुत्रस्ते जात इति तममृष्यमाणो ब्राह्मण आह - किं तर्हीति । पुत्रजन्माख्यानस्य प्रियत्वेऽपि आख्यानप्रकारस्यानभिप्रेतत्वाद्भवत्युदाहरणम्, त एवायथाभिप्रेताख्यान इत्युक्तम्, न पुनरप्रियाख्यान इति । आचक्ष इति । लट्,'थासस्से' , शपो लुकि'स्कोः संयोगाद्योः' इति ककारलोपः,'षढोः कः सि' । उदाहरणेऽयथाभिप्रेताख्यानं दर्शयति - उच्चैर्नामेति । नामशब्दः प्रसिद्धौ, न पुनरिदं ब्राह्मणवाक्यमुक्तमिति ठुपदंशस्तृतीयायाम्ऽ इत्यत्रेदमुक्तम् । समासार्थं वचनमिति । एतदेवोपपादयति - तथा हीति ।'क्त्वा च' इत्यत्र'तृतीयाप्रभृतीन्यन्यतरस्याम्' इति वर्तते, तस्मादनेन यः क्त्वा विहितस्तेनैव पक्षे समासो लभ्यते, न तु समानादिसूत्रविहितेन, न हि तेन तृतीयाप्रभृतिषूपपदेषु क्त्वा विधीयत इत्यर्थः । णमुल्ग्रहणमनर्थकम्, प्रकृतो ह्यसौ तत्र क्त्वा चेति वक्तव्यम् ? इत्यत आह - णमुलधिकार इत्यादि । तुल्यकक्षत्वमुतुल्यबलत्वम् ॥ तेनेत्यादि । यदि तु चकारेण णमुलनुकृष्येत, उतरत्र नानुवर्तेत; यत्नाभावात् । पुनर्णमुल्ग्रहणे तु द्वन्द्वनिर्दिष्टयोर्द्वयोरप्युतरत्रानुवृत्तिः सिद्धा भवति ॥