कर्मण्याक्रोशे कृञः खमुञ्

3-4-25 कर्मणि आक्रोशे कृञः खमुञ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् समानकर्तृकयोः पूर्वकाले

Kashika

Up

index: 3.4.25 sutra: कर्मण्याक्रोशे कृञः खमुञ्


कर्मण्युपपदे कृञो धातोः खमुञ् प्रत्ययो भवति आक्रोशे गम्यमाने। चोरंकारमाक्रोशति। चोरोऽसि, दस्युरसि इत्याक्रोशति। चोरकरणमाक्रोशसम् पादनार्थम् एव, न त्वसौ चोरः क्रियते।

Siddhanta Kaumudi

Up

index: 3.4.25 sutra: कर्मण्याक्रोशे कृञः खमुञ्


कर्मण्युपपदे आक्रोशे गम्ये । चौरङ्कारमाक्रोशति । करोतिरुच्चारणे । चोरशब्दमुच्चार्येत्यर्थः ॥

Padamanjari

Up

index: 3.4.25 sutra: कर्मण्याक्रोशे कृञः खमुञ्


उदाहरणेषु करोतिरुच्चारणे वर्तते, तस्य शब्दात्मकमेव कर्म भवति । तत्र चोरादिशब्दाः शब्दप्रधानाः । चोरङ्कारम् । कोऽथेः ? चोरशब्दमुच्चार्येत्यर्थः, तदाह - चोरोऽसीत्यादि । चोरकरणमिति । चोरशब्दोच्चारणम् । आक्रोशसम्पादनार्थमिति । निन्दितशब्दोच्चारणमन्तरेण तस्य सम्पादयितुशक्यत्वात् । न त्वसाविति । न हि चोरोऽसीति वचनेन चोरः क्रियते ॥