3-4-9 तुमर्थे सेसेनसे९सेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् छन्दसि
छन्दसीत्येव। तुमुनोऽर्थस्तुमर्थः। तत्र छन्दसि विषये धातोः सयादयः प्रत्यया भवन्ति। तुमर्थो भावः। कथं ज्ञायते? वचनसामर्थ्यात् तावदयं कर्तुरपकृष्यते। न चान्यस्मिन्नर्थे तुमुन्नादिश्यते। <<अनिर्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति>>(परि० ११३)। स्वार्थश्च धातूनां भाव एव। से — वक्षे रायः। सेन् — ता वा॒मेषे॒ रथा॑नाम् (ऋ० ५.६६.३)। असे, असेन् — क्रत्वे॒ दक्षा॑य जी॒वसे॑ (शौ०सं० ६.१९.२)। स्वरे विशेषः। क्से, कसेन् — प्रेषे॒ भगा॑य॒ (तै०सं० १.२.११.१)। श्रि॒यसे॑ (ऋ० ५.५९.३)। अध्यै, अध्यैन् — काममुपाचरध्यै। स्वरे विशेषः। कध्यै — इ॒न्द्रा॒ग्नी॒ आ॒हु॒वध्यै॑ (मा०सं० ३.१३)। कध्यैन् — श्रियध्यै। शध्यै, शध्यैन् — वा॒यवे॒ पिब॑ध्यै (ऋ० ७.९२.२)। स॒ह मा॑द॒यध्यै॑ (मा०सं०३.१३)। तवै — सोम॒मिन्द्रा॑य॒ पात॒वै। तवेङ् — दश॒मे मा॒सि सूत॑वे (ऋ० १०.१८४.३)। तवेन् — स्वर्दे॒वेषु॒ गन्त॑वे (शौ०सं० ९.५.१७)। क॑र्तवे (ऋ० ९.८३.२०)। हर्तवे॥
से । वक्षे रायः । सेन् । ता वामेषे (ता वा॒मेषे॑) । असे । शरदो जीवसे धाः (श॒रदो॑ जी॒वसे॑ धाः) । असेन्नित्त्वादाद्युदात्तः । क्से । प्रेषे । कसेन् । गवामिव श्रियसे (गवा॑मिव श्रि॒यसे॑) । अध्यै । अध्यैन् । जठरं पृणध्यै (ज॒ठरं॑ पृ॒णध्यै॑) । पक्षे आद्युदात्तम् । कध्यै । कध्यैन् । आहुवध्यै (आहु॒वध्यै॑) । पक्षे नित्स्वरः । शध्यै । राधसः सह मादयध्यै (राध॑सः स॒ह मा॑द॒यध्यै॑) । शध्यैन् । वायवे पिबध्यै (वा॒यवे॒ पिब॑ध्यै) । तवै । दातवाउ (दात॒वाउ॑) । तवेङ् । सूतवे (सूत॑वे) । तवेन् । कर्तवे (कर्त॑वे) ॥
कथं ज्ञायत इति ।'कर्तरि कृत्' इति वचनात् भावस्तुमर्थो नोपपद्यत इति प्रश्नः । अपकर्षःउअपनयः, स्वार्थश्च धातूनां भाव इति साध्यमानरूपः । स एव हि धातुवाच्यो भावः । घञादिवाच्यस्तु भावो धात्वर्थव्यतिरिक्तः सिद्धतारूपः । पिबध्यै इति ।'यको बहुलं च्छन्दसि' इति लुकि पिबादेशः । मादयर्ध्यै इति । यकः प्रसङ्गे व्यत्ययेन शप् ॥