आभीक्ष्ण्ये णमुल् च

3-4-22 आभीक्ष्ण्ये णमुल् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्त्वा समानकर्तृकयोः पूर्वकाले

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

समानकर्तृकयोः पूर्वकाल इत्येव। आभीक्ष्ण्यं पौनःपुन्यम्। प्रकृत्यर्थविशेषणं चैतत्। आभीक्ष्ण्यविशिष्टेऽर्थे वर्तमानाद् धातोर्णमुल् प्रत्ययो भवति, चकारात् क्त्वा च। द्विर्वचनसहितौ क्त्वाणमुलावाभीक्ष्ण्यं द्योतयतः, न केवलौ। <<आभीक्ष्ण्ये द्वे भवतः>> (वा० ८.१.१२) इत्युपसंख्यानाद् द्विर्वचनम्। भोजंभोजं व्रजति। भुक्त्वाभुक्त्वा व्रजति। पायंपायं व्रजति। पीत्वापीत्वा व्रजति॥

Siddhanta Kaumudi

Up

पौनः पुन्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च । द्वित्वम् । स्मारं स्मारं नमति शिवम् । स्मृत्वा स्मृत्वा । पायं पायम् । भोजं भोजम् । श्रावं श्रावम् । चिण्णमुलोः <{SK2762}> इति णमुल्परे णौ वा दीर्घः । गमं गमम् । गामं गामम् । विभाषा चिण्णमुलोः <{SK2765}> इति नुम् वा । लम्भं लम्भम् । लाभं लाभम् । व्यवस्थितविभाषया उपसृष्टस्य नित्यं नुम् । प्रलम्भं प्रलम्भम् । जाग्रोऽविचिण्ण-<{SK2480}> इति गुणः । जागरं जागरम् । ण्यन्तस्याप्येवम् ॥

Laghu Siddhanta Kaumudi

Up

आभीक्ष्ण्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

द्विर्वचनसहिताविति । केन पुनरत्र द्विर्वचनमित्याह - आभीक्ष्णये द्वे भवत इत्युपसङ्ख्यानाद् द्विर्वचनमिति ।'नित्यवीप्सयोः' इत्यत्र तु वामनो वक्ष्यति -'तिङ्क्षु नित्यता अव्ययकृत्सु च' इति । तन्मते नित्यग्रहणादेवात्र द्विर्वचनम् । पायंपायमिति । ठातो युक्ऽ ॥