वृद्धाच्छः

4-2-114 वृद्धात् छः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गोत्र इति नानुवर्तते। सामान्येन विधानम्। वृद्धात् प्रातिपदिकाच् छः प्रत्ययो भवति शैषिकः। अणोऽपवादः। गार्गीयः। वात्सीयः। शालीयः। मालीयः। अव्ययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधीन् (४.२.१०४,१०६,१०९,११०) तु परत्वाद् बाधते॥

Siddhanta Kaumudi

Up

शालीयः । मालीयः । तदीयः ॥

Laghu Siddhanta Kaumudi

Up

शालीयः। मालीयः। तदीयः। <<वा नामधेयस्य वृद्धसंज्ञा वक्तव्या>> (वार्त्तिकम्) । देवदत्तीयः, दैवदत्तः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वृद्धाच्छः>> - भवतष्ठक्छसौ । भावत्क इति ।इसुसुक्तान्तात्कः॑ । ननु भवच्छब्दाच्छस्य ईयादेशे सति भत्वेन पदत्वस्य बाधात्कथं जश्त्वमित्यत आह — जश्त्वमिति ।सिति चे॑ति पदत्वेन भत्वस्य बाधादिति भावः । ननु 'भावत' इति कथमण्प्रत्ययः,त्यदादीनि चे॑ति भवच्छब्दस्य वृद्धतया छस्यैव युक्तत्वादित्यत आह — वृद्धादित्यनुवृत्तेः शत्रन्तादणेवेति । त्यदादिषुभातेर्डवतु॑रिति डवत्वन्तस्यैव पाठादिति भावः ।

Padamanjari

Up

अव्ययतीरेत्यादि । अव्ययात्यब् भवतीत्यस्यावकाशः - अमात्यः, च्छस्यावकाशः - शालीयो मालीयः, आराच्छब्दाच्छाए भवति - आरातीयः । ठमेहक्वतसित्रेभ्यःऽ इति परिगणनमनपेक्ष्यायं विप्रतिषेधः । तीरोतरविधेरवकाशः - काश्यतीरः, च्छस्य स एव; वायसतीराच्छाए भवति वायसतीरियः । रूप्योतरविधेरवकाशः - चाररूप्यः, च्छस्य स एव; माणिरूप्याच्छः प्राप्तः, तं चापि योपधलक्षणो वुञ् बाधते - माणिरूप्यकः । प्राप्तिमात्राश्रयेण तु च्छस्य रूप्योतरपदलक्षणस्य च ञस्य विप्रतिषेध उक्तः । उदीच्यग्रामलक्षणस्य विधेरवकाशः -शिवपुर - शैवपुरः, वाडवकर्षाच्छाए भवति - वाडवकर्षीयः। कोपधविधिः -'प्रस्थोतरपदपलद्यादिकोपधादण्' इत्ययं विवक्षितः, स तस्माद्धि परस्थस्तस्यावकाशः -'प्रस्थोतरपदपलद्यादिकोपधादण्' इत्ययं विवक्षितः, स तस्माद्धि परस्थस्तस्यावकाशः - निलीनक - नैलीनकम्, उलूका अस्मिन्सन्ति'तदस्मिन्नस्ति' इत्यण्, औलको नाम ग्रामस्तत्र भवः, तस्माच्छाए भवति - औलूकीयः । यस्तु'कोपधादण्' इत्यण्, स जनपदवुञोऽपवादः, तस्यापि'वृद्धादकेकान्त' इत्यत्र'कोपधग्रहणं सोसुकाद्यर्थम्' इति विहितश्छाए बाधको भवति ॥