उत्तरपदवृद्धौ सर्वं च

6-2-105 उत्तरपदवृद्धौ सर्वं च पूर्वपदम् अन्तः दिक्शब्दाः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<उत्तरपदस्य>> ७.३.१० इत्यधिकृत्य या विहिता वृद्धिः, तद्वत्युत्तरपदे सर्वशब्दो दिक्शब्दाश्चान्तोदात्ता भवन्ति। स॒र्वपा॑ञ्चालकः। पू॒र्वपा॑ञ्चालकः। उ॒त्त॒रपा॑ञ्चालकः। <<सुसर्वार्धदिक्शब्देभ्यो जनपदस्य>> (महाभाष्य १.१८६) इति तदन्तविधिना जनपदलक्षणो ४.२.१२५ वुञ्प्रत्ययः। <<सुसर्वार्धाज्जनपदस्य>> ७.३.१२ <<दिशोऽमद्राणाम्>> ७.३.१३ इति चोत्तरपदवृद्धिः। अधिकारलक्षणादिह न भवति — स॒र्व॒भा॒सः, स॒र्व॒का॒र॒क इति॥

Siddhanta Kaumudi

Up

उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता तद्वत्युत्तरपदे परे सर्वशब्दो दिक्शब्दाश्चान्तोदात्ता भवन्ति । सर्वपाञ्चालकः । अपरपाञ्चालकः । अधिकारग्रहणं किम् । सर्वभासः । सर्वकारकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

वृद्धौ इत्येतावतैव तद्वदुतरपदपरिग्रहे सिद्धे उतरपदग्रहणातदधिकारो लक्ष्यते ॥ एबहुव्रीहौ विश्वं संज्ञायाम् ॥ विशेः क्वनि विश्वशब्द आद्यौदातः । विश्वामित्र इत्यादि । अस्यावकाशः - विश्वदेवः , विश्वयशाः , संज्ञायां मित्राजिनयोः इत्यस्यावकाशः - कुलमित्त्रः, कुलाजिनः, विश्वामित्त्रः, विश्वाजिन इत्यत्रोभयप्रसङ्ए संज्ञायां मित्राजिनयोः इत्येतद्भवति विप्रतिषेधेन ॥