6-3-39 वृद्धिनिमित्तस्य च तद्धितस्य अरक्तविकारे उत्तरपदे स्त्रियाः पुंवत् भाषितपुंस्कादनूङ् न
index: 6.3.39 sutra: वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे
न इति वर्तते। वृद्धेर्निमित्तं यस्मिन् स वृद्धिनिमित्तः तद्धितः, स यदि रक्तेऽर्थे विकारे च न विहितः, तदन्तस्य स्त्रीशब्दस्य न पुंवद् भवति। स्त्रौघ्नीभार्यः। माथुरीभार्यः। स्त्रौघनीपाशा। माथुरीपाशा। सौघनीयते। माथुरीयते। स्त्रौघ्नीमानिनी। माथुरीमानिनीइ। वृद्धिनिमित्तस्य इति किम्? मध्यमभार्यः। तद्धितस्य इति किम्? काण्डलावभार्यः। बहुव्रीहिपरिग्रहः कमर्थः? तावद्भार्यः। यावद्भार्यः। अरक्तविकारे इति किम्? कषायेण रक्ता काषायी, काषायी बृहतिका यस्य स काषायवृहतिकः। लोहस्य विकारो लौहीम् लौही ईषा यस्य रथस्य स लौहेषः। खादिरेषः।
index: 6.3.39 sutra: वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे
वृद्धिशब्देन विहिता या वृद्धिस्तद्धेतुर्यस्तद्धितोऽरक्तविकारार्थस्तदन्ता स्त्री न पुंवत् । स्त्रौघ्नीभार्यः । माथुरीयते । माथुरीमानिनी । वृद्धिनिमित्तस्य किम् । मध्यमभार्यः । तद्धितस्य किम् । काण्डलावभार्यः । वृद्धिशब्देन किम् । तावद्भार्यः । रक्ते तु काषायी कन्था यस्य स काषायकन्थः । विकारे तु हैमी मुद्रिका यस्येति हैममुद्रिकः । वृद्धिशब्देन वृद्धिं प्रति फलोपधानाभावादिह पुंवत् । वैयाकरणभार्यः । सौवश्वभार्यः ॥
index: 6.3.39 sutra: वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे
वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे - वृद्धिनिमित्तस्य च । वृद्धेर्निमित्तं हेतुरिति विग्रहः । रक्तं च विकारश्चेति समाहारद्वन्द्वः । तता नञ्तत्पुरुषः । रक्तविकारभिन्नेऽर्थे विद्यमानस्येत्यर्थः । वृद्धिशब्देन विहितैव वृद्धिरिह विवक्षिता, व्याख्यानात् । तदाह — वृद्धिशब्देनेत्यादिना । तदन्तेति । प्रत्ययग्रहणपरिभाषालभ्यम् । रुआऔग्घ्नीति । रुआउग्घ्नो देशः । 'तत्र भव' इत्यण् । 'यस्येति च' इत्यकारलोपः । णित्त्वादादिवृद्धिःटिड्ढाण॑ञिति ङीप् । रुआऔघ्नी भार्या यस्येति विग्रहः । 'स्त्रियाः पुंवत्' इति प्राप्तमिह निषिध्यते । माथुरीयते माथुरीमानिनीति । मथुरायां भवा माथुरी, 'तत्र भवः' इत्यण् । 'यस्येति च' इत्यकारलोपः, आदिवृद्धिः,टिड्ढे॑ति ङीप् । माथछुरीवाचरतीत्यर्थेकर्तुः क्य॑ङिति क्यङ् । 'सनाद्यन्ताः' इति धातुत्वाल्लडादि । माथुरीयते । माथुरीं मन्यते माथुरीमानिनी । 'मनः' इति णिनिः । उपधावृद्धिः । उपपदसमासः । सुब्लुक् । नान्तत्वान्ङीप् । इहोभयत्रापिक्यङ्भानिनोश्चे॑ति प्राप्तं पुंवत्त्वं निषिध्यते । मध्यमभार्य इति । मध्ये भवा मद्यमा । 'मध्यान्मः' इति मः । म ध्यमा भार्या यस्येति विग्रहः । स्त्रियाः पुंव॑दिति पुंत्त्वम् । अत्र मप्रत्ययस्य तद्धितस्य वृद्धिनिमित्तत्वाऽभावान्न पुंवत्त्वनिषेधः । काण्डलाभार्य इति । काण्डं लुनातीति काण्डलावी । 'कर्मण्यण्' इत्यण्प्रत्ययः कृत् । 'अचो ञ्णिति' इति वृद्धिः, आवादेशः, उपपदसमासः, टिड्ढाण॑ञिति ङीष् । काण्डलावी भार्या यस्येति विग्रहः । पुंवत्त्वान्ङीपो निवृत्तिः । अत्राऽणः कृत्त्वात्तद्धितत्वाऽभावान्न पुंवत्त्वनिषेधः । तावद्भार्य इति । तत् परिमाणमस्यास्तावती ।यत्तदेतेभ्यः परिमाणे वतुप् इति तच्छब्दाद्वतुप् तद्धितः, 'आ सर्वनाम्नः' इत्याकारः, उगित्त्वान्ङीप् । तावती भार्या यस्येति विग्रहः । पुंवत्त्वान्ङीपो निवृत्तिः, 'आ सर्वनाम्नः' इत्याकारात्मिकां वृद्धि प्रति वतुपो निमित्तत्वेऽपि आकारस्य वृद्धिशब्देन विधानाऽभावात्तन्निमित्तवतुबन्तस्य न पुंवत्त्वनिषेधः । रक्ते त्विति । रक्तेऽर्थे विद्यमानस्य तद्धितस्य न पुंवत्त्वनिषेध इत्यर्थः । काषायीति । कषायो गौरिको धातुविशेषः । तेन रक्ता काषायी ।तेन रक्तं रागा॑दित्यणियस्येति चे॑ति लोपः, आदिवृद्धिः,टिड्ढाण॑ञिति काषायकन्थ इति । पुंवत्त्वे ङीपो निवृत्तिः । अत्राऽणस्तद्धितस्य रक्तार्थकत्वान्न पुंवत्त्वनिषेधः । विकारे त्विति । विकारार्थे विद्यमानस्य तद्धितस्य न पुंवत्त्वनिषेध इत्यर्थः । हैमीति । हेम्नो विकारभूतेत्यर्थः ।अनुदात्तादेश्चे॑त्यञ्, टलोपः, आदिवृद्धि,टिड्ढे॑ति ङीप् । हैमीचि रूपम् । हैमी मुद्रिका यस्येति विग्रहः । पुंवत्त्वे ङीपो निवृत्तिः । अत्राऽञस्तद्धितस्य विकारार्थकत्वान्न पुंवत्त्वनिषेधः । स्यादेतत् । व्याकरणमदीते वेत्ति वा स्त्री वैयाकरणी,तदधीते तद्वेदे॑त्यण् तद्धितः ।यस्येति चे॑त्यकारलोपः । अणो णित्त्वात्तन्निमित्तिकाया यकाराकारस्य पर्जन्यबल्लक्षणप्रवृत्त्या प्राप्ताया वृद्धेःन य्वाभ्या॑मिति निषेधः । यकारात्प्रागैकारागमश्च,टिड्ढाण॑ञिति ङीप् । वैयाकरणी भार्या यस्येति बहुव्रीहौ पुंवत्त्वे ङीपो निवृत्तौ 'वैयाकरणभार्य' इति रूपम् । तथा स्वस्वस्यापत्यं स्त्री ।अत इञ्इति इञोऽपवादः शिबाद्यण्,यस्येति चे॑ति लोपः । प्रथमवकारात्परस्य अकारस्यादिवृद्धेर्न य्वाभ्यामिति निषेधः । प्रथमबकारात्प्रागौकारागमश्च,टिड्ढे॑ति ङीप् । सौवआई भार्या यस्येति बहुव्रीहौ पुंवत्त्वे ङीपो निवृत्तौ 'सौवआभार्य' इति रूपमिति स्थितिः । अत्रोभयत्रापि आदिवृद्धेःन य्वाभ्या॑मिति निषेधेऽपि अणस्तस्य णित्त्वेन स्वरूपयोग्यवृद्धिनिमित्तत्वानपायात् पुंवत्वनिषेधो दुर्वार इत्यत आह — वृदिंध प्रति फलोपधानाऽभावादिति । प्रतीत्यनन्तरंनिमित्तस्य तद्धितस्ये॑ति शेषः । अणो वृद्धिनिमित्तस्य यत् फलं=वृद्धिस्तेन उपधानं=तात्कालिकसाहित्यं, तदभावादित्यर्थः ।वृद्धेस्तद्धितस्ये॑त्येतावत्युक्तेऽपि निमित्तत्वसंबन्धे वृद्धेरिति षष्ठीमाश्रित्यवृद्धिनिमित्ततद्धितस्ये॑त्यर्थलाभे सति निमित्तग्रहणात् फलोपहितनिमित्तत्वं विवक्षितमिति विज्ञायत इति बावः । यद्यप्यैजागमसिद्धवृदिंध प्रति अण्प्रत्ययः फलोपिहतमेव निमित्तन्तथापि वृद्धिशब्देन विहितां वृदिंध प्रति फलोपहितं निमित्तं न भवत्येवेति न दोषः । वृद्धिशब्देन विहितैव वृद्धिरिग गृह्रत इत्यत्रापि इदमेव निमित्तग्रहणं लिङ्गम् । अन्यथा एजागमादत्र फलोपहितनिमित्तत्वस्यापि सत्त्वात्तन्निमित्तग्रहणं निष्फलं स्यात् । विस्तरस्तु शब्देन्दुशेखरे द्रष्टव्यः ।
index: 6.3.39 sutra: वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे
वृद्धेनिमितं णकारः । इह निमितग्रहणं न कर्तव्यम्, वृद्धेस्तद्धितस्य इत्येव वक्तव्यम् - वृद्धेर्यस्तद्धितः, कश्च वृद्धेस्तद्धितः यस्तस्या निमितमेवं सिद्धे निमितग्रहणाद्व्यधिकरणपदो बहुव्रीहिः । अपर आह - षष्ठीसमासादर्शाअद्यच्प्रत्यय इति । यद्वा - निमितग्रहणाद्वहुवचनान्तस्य समासः वृद्धीनां तिसृणामपि निमितं वृद्धिनिमितमिति । वतुस्त्वाकारस्यैव निमितम् । इह तु सर्वस्मै हिता सार्वा सा भार्या यस्य स सार्वभार्य इति यद्यपि सर्वपुरुषाभ्याम् इति णप्रत्यये आकार एव वृद्धिर्भवति, तथापि नासौ स्वरुपेण वृद्धेर्निमितम्, किं तर्हि णित्वेन । तच्च तिसृणामपि निमितम् । मध्ये भवा मध्यमा, तमध्यान्मः । काण्डं लुगातीति काण्डलावी, कर्मण्यण् टिट्ञाणञ् इति ङीप् , यतदेतेभ्यः परिमाणे वतुप् आ सर्वनाम्नः अगितश्चं ङ्प्, तावती । तत्पुरषाश्रयणेऽस्यापि प्रतिषेघः स्यात्, बहुव्रीहौ तु णकारदेरभावान् न भवति । काषायीति । तेन रक्तं रागात् इत्यण् । लौहीति । प्राणिरजतादिभ्योऽञ् । खदिरशब्दः पलाशादिः ईषा - रथावयवविशेषः ॥