इद्वृद्धौ

6-3-28 इत् वृद्धौ उत्तरपदे देवताद्वन्द्वे च ईत् अग्नेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कृतवृद्धावुत्तरपदे देवताद्वन्द्वेऽग्नेरिकारादेशो भवति। आग्निवारुणीमनड्वाहीमालभेत (काठ० सं० १३.६)। आग्निमारुतं कर्म क्रियते। अग्नीवरुणौ देवते अस्य, अग्नामरुतौ देवते अस्येति तद्धितः। तत्र <<देवताद्वन्द्वे च>> ७.३.२१ इत्युभयपदवृद्धौ कृतायामानङम् ईत्वं च बाधितुमिकारः क्रियते। वृद्धाविति किम्? आग्नेन्द्रः। <<नेन्द्रस्य परस्य>>७.३.२२ इत्युत्तरपदवृद्धिः प्रतिषिध्यते॥ इद् वृद्धौ विष्णोः प्रतिषेधो वक्त व्यः॥ आ॒ग्ना॒व॒ैष्ण॒व॑म् ए॑का॒दशकपालं॒ नि॑र्व॒पेत् (मै० सं० १.४.१४)॥

Siddhanta Kaumudi

Up

वृद्धिमत्युत्तरपदे अग्नेरिदादेशः स्याद्देवताद्वन्द्वे । अग्नामरुतौ देवते अस्य आग्निमारुतं कर्म । अग्निवरुणौ देवते अस्य आग्निवारुणम् । देवताद्वन्द्वे च <{SK1239}> इत्युभयपदवृद्धिः । अलौकिके वाक्ये आनङमीत्त्वं च बाधित्वा इत् । वृद्धौ किम् । आग्नेन्द्रः । नेन्द्रस्य परस्य <{SK1240}> इत्युत्तरपदवृद्धिप्रतिषेधः ।<!विष्णौ न !> (वार्तिकम्) ॥ आग्नावैष्णवम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<इद्वृद्धौ>> - आगेन्द्र इति । अग्निश्च इन्द्रश्च अग्नेन्द्रौ ।देवताद्वन्द्वे चे॑त्यानङ् । आद्गुणः । अग्नेन्द्रौ देवते अस्येत्याग्नेन्द्रः ।साऽस्य देवते॑त्यण् । आदिवृद्धिः । अत्रेन्द्रशब्दस्योत्तरपदस्य वृद्धिमत्त्वाऽभावात् । 'इद्वृद्धौ' इति नेति भावः ।देवताद्वन्द्वे चे॑त्युभयपदवृद्धिमाशङ्क्याह — नेन्द्रस्येति । विष्णौ नेति । विष्णुशब्दे परे अग्नेरिकारो नेति वक्तव्यमित्यर्थः । आग्नावैष्णवमिति । अग्नि ष्च विष्णुश्च -अग्नाविष्णू ।देवताद्वन्द्वे चे॑त्यानङ् । अगनाविष्णू देवते अस्येत्यर्थेसाऽस्य देवते॑त्यण् । आग्नावैष्णवं हविः ।देवताद्वन्द्वे चे॑त्युभयपदवृद्धिः । इत्त्वाऽभावादान व ।

Padamanjari

Up

अत्र वृद्धिमदुतरपदं वृद्धिशब्देनोच्यते, वृद्ध्यात्मकस्योतरपदत्यासम्भवात् । अग्नीवरुणौ देवते अस्य, अग्नामरुतौ देवते अस्योति विग्रहः, पूर्वत्रेत्वम्, उतरत्रानङ् । द्व्यधिष्ठानं देवतात्वमिति । देवतेत्येकवचनम् । आनङ्मीत्वं च बाधितुमिति । वरुणे हीत्वस्य प्रसङ्गः, अन्यत्रानङ्ः । यद्यपि प्राग् वृद्धेविग्रहवाक्य एवानङीत्वयोः प्रसङ्गः, तथाप्यपवादविषयत्वात्प्रक्रियावाक्ये न क्रियेते, लौकिके तु वाक्ये भवत एव । इद्वृद्धौ विष्णोः प्रितिषेधः - आग्नावैष्णवमेकादशकपालं निर्वपेत् ॥