नित्यवीप्सयोः

8-1-4 नित्यवीप्सयोः सर्वस्य द्वे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नित्ये चार्थे वीप्सायां च यद् वर्तते तस्य द्वे भवतः। केषु नित्यता? तिङ्षु नित्यताव्ययकृत्सु च। कुत एतत् ? आभीक्ष्ण्यमिह नित्यता। आभीक्ष्ण्यं च क्रियाधर्मः। यां क्रियां कर्ता प्राधान्येनानुपरमन् करोति तन् नित्यम्। पचतिप॒च॒ति॒ । जल्पतिज॒ल्प॒ति॒। भुक्त्वाभु॒क्त्वा॒ व्रजति। भोजंभो॒जं॒ व्रजति। लुनीहिलु॒नी॒हि॒ इत्येवायं लुनाति। क्त्वाणमुलोर्लोटश्च द्विर्वचनापेक्षायामेव पौनःपुन्यप्रकाशने शक्ति ः। यङ् तु तन्निरपेक्षः प्रकाशयति। पुनः पुनः पचति पापच्यत इति। यदा तु तत्र द्विर्वचनं तदा क्रियासमभिहारे पौनःपुन्यं द्रष्टव्यम् — पापच्यतेपा॒प॒च्य॒त॒ इति। अथ केषु वीप्सा ? सुप्सु वीप्सा। का पुनर्वीप्सा ? व्याप्तिविशेषविषया प्रयोक्तुरिच्छा वीप्सा। का पुनः सा ? नानावाचिनामधिकरणानां क्रियागुणाभ्यां युगपत् प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा। नानाभूतार्थवाचिनां शब्दानां यान्यधिकरणानि वाच्यानि तेषां क्रियागुणाभ्यां युगपत् प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा। ग्रामोग्रा॒मो॒ रमणीयः। जनपदोज॒न॒प॒दो॒ रमणीयः। पुरुषःपु॒रु॒षो॒ निधनमुपैति। यत् तिङन्तं नित्यतया प्रकर्षेण च युक्तं ततः कृतद्विर्वचनात् प्रकर्षप्रत्यय इष्यते — पचतिप॒च॒ति॒त॒रामिति। इह तु आढ्यतरमा॒ढ्य॒त॒र॒मानयेति प्रकष᐀्युक्तस्य वीप्सायोग इष्यते॥

Siddhanta Kaumudi

Up

आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्विर्वचनं स्यात् । आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च । पचति पचति । भुक्त्वा भुक्त्वा । वीप्सायाम् । वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः ॥

Laghu Siddhanta Kaumudi

Up

आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात्। आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञकेषु च कृदन्तेषु च। स्मारं स्मारं नमति शिवम्। स्मृत्वा स्मृत्वा। पायम्पायम्। भोजम्भोजम्। श्रावं श्रावम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नित्यवीप्सयोः>> - नित्यवीप्सयोः । नित्यशब्देन नित्यत्वं विवक्षितम् । तश्च आभीण्यमिति भाष्यम् । व्याप्तुमिच्छा वीप्सा=व्याप्तिप्रतिपादनेच्छा । सा च प्रयोक्तृधर्मः । व्याप्तिरेव तु शाब्दबोधविषय इति भाष्यस्वरसः । तथा चनित्यव्याप्त्या॑रित्येव सुवचनम् । व्याप्तिश्च कात्स्र्यन्येन संबन्धः, उपसर्गबलात् । पदस्येत्यधिकरिष्यमाणमिहापकृष्यते ।सर्वस्ये॑ति स्थानषष्ठी । 'द्वे' इति त्वादेशसमर्पकम् । तस्य च 'शब्दरूपे' इति विशेष्यमर्थाल्लभ्यते, शब्दानुशासनप्रस्तावात् । ते च शब्दरूपे स्वरूपतोऽतश्चान्तरतमे पदे इति स्थानेऽन्तरतमपरिभाषया लभ्यते । ततश्च पौनःपुन्ये कार्त्स्न्ये च गम्ये कृत्स्नावयवविशिष्टस्य पदस्याऽर्थतश्च शब्दतश्चान्तरतमे द्वे पदे भवत इति फलितम् । तदभिप्रेत्याह — आभीक्ष्ण्ये वीप्साया च द्योत्ये इति । द्योत्यं च द्योत्या च द्योत्यम् । तस्मिन्नित्यर्थः ।नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्या॑मिति नपुंसकैकशेषः । एकत्वं च नित्यवीप्से च प्रकृतिगम्ये । द्विर्वचनं तु द्योतकम् । सत्यपि प्रकृतेर्द्वित्वे द्विरुक्तयोः प्रकृत्यनतिरेकादिति बोध्यम् । द्विर्वचनं स्यादिति । द्वे पदे आदेशौ स्त इत्यर्थः । तत्रावयवयोः पदत्वं स्वतः सिद्धम् । समुदायस्य तु पदद्वयात्मकस्य स्थानिवत्त्वात्सुबन्तत्वम् । तेनअपचन्नपचन्नि॑त्यत्र ङमुट्,वृक्षान्वृक्षा॑नित्यत्रपदान्तस्ये॑ति णत्वनिषेधः, 'अग्रेऽग्रे' इत्यत्रएङः पदान्ता॑दिति पूर्वरूपं चेत्यादीन्यवयवानां पदकार्याणि सिध्यन्ति ।पुनःपुन॑रिति समुदायस्य स्थानिवत्त्वेन सुबन्तत्वाद्भावे ष्यञि, भवे ठञि च पौनः पुन्यम्, पौनःपुनिक इति च सिध्यति । 'द्वे उच्चारणे स्त' इत्याश्रयणे तु सर्वं पदं द्विरुच्चारयेदित्यर्थः फलितः स्यात् । ततश्च पुनरित्येकस्यैव द्विरुच्चार्यमाणस्य पुनःपुनरित्यादेशत्वाऽभावेन स्थानिवत्त्वाऽप्रसक्त्या सुबन्तत्वविरहात्तद्दितोत्पत्तिर्न स्यात् । तस्मादादेशपक्ष एव श्रेयानित्यास्तां तावत् । आभीक्ष्ण्यं तिङन्तेष्विति । आक्षीक्ष्ण्यं-पौनः पुन्यम् । तच्चैह प्रधानभूतक्रियाया एव । क्रियाप्राधान्यं चाख्यातेष्वस्तीतिप्रशंसायां रूप॑विति सूत्रे भाष्ये स्पष्टम् । अव्ययकृत्स्वपि क्त्त्वातुमुन्नादिषु क्रियाप्राधान्यम्, 'अव्ययकृतो भावे' इत्युक्तेः तथा च तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च पौनःपुन्यनिमित्तकद्विर्वचनं नान्यत्रेत्यर्थः । तथैवोदाहरति — पचति पचति भुक्त्वा भुक्त्वेति । वीप्सायामिति । 'उदाह्यियते' इति शेषः । वृक्षं वृक्षमिति । कृत्स्नं वृक्षमित्यर्थः । अत्र प्रकृततद्वाटिकागतवृक्षकार्त्स्न्यंगम्यते, जगतीतलस्थितकृत्स्नवृक्षसेचनस्याऽशक्यत्वात् । सर्वशब्दस्य कार्त्स्न्यवाचित्वेऽपि न द्वित्वमित्यनुपदमेव 'यथास्वे' इत्यत्र वक्ष्यते । वृक्षं-वृक्षमित्यत्र कार्त्स्न्यावगमेऽपि प्रत्येकनिषठमेकत्वमेव भासते, नतु बहुत्वम्, अतो न बहुवचनम्,एकैकस्य प्राचा॑मिति लिङ्गाच्च ।सर्वस्ये॑त्यभावे वृक्षाभ्यामित्यादौ 'स्वादिषु' इति पदत्वमवलम्ब्य प्रकृतिभागमात्रस्य द्विर्वचनं स्यात् । कृते तु सर्वग्रहणे पदावयवत्वानाक्रान्तस्यैव कृत्स्नावयवोपेतस्य पदस्य द्वित्वमित्यर्थलाभान्न दोषः । पदस्येति किम् । वाक्यस्य मा भूत् ।

Padamanjari

Up

नित्ये चार्थे वीप्सायां च यद्वर्तते इति । अनेन सप्तमीयमर्थनिर्देशार्थेति दर्शयति । प्रयोक्तृधर्मभूता वीप्सा, न च सा ग्रामादिशब्दैरभिधीयते । पचतिपचतीत्यत्रापि वस्तुतो यन्नित्यं न ततिङ्न्तेनाभिधीयते । नित्यत्वं तु द्विर्वचनद्योत्यम् । तस्मादयमत्रार्थः - नित्यत्वे द्योत्यत्वेन विषयभूते, वीप्सायां व द्योत्यत्वेन विषयभूतायामिति । एषैव च तत्र वृत्तिः, शब्दस्य यद्वता तद्विषयता । यदि पुनरेषा षष्ठी स्यात्सव्रूपविधिः प्रसज्येत, ततश्च'नित्यं क्रीडाजीविकयोः' ,'पादशतस्य संख्यादेर्वीप्सायाम्' इत्यादिनिर्देशो नोपपद्यते । यदि तु'नित्यार्थविषयः शब्दो नित्यः' इत्युच्येत, वीप्सार्थविषयश्च वीप्सेति; तदा षष्ठ।लमप्यदोषः ? गौणत्वप्रसङ्गातदनाश्रितम् । नित्यशब्दोऽयं सर्वकालावस्थायिनो य आत्माकाशादयः, येषामुत्पत्तिविनाशौ प्रयोक्तृभिर्नोपलभ्येते, तेष्वपि प्रयुज्यमानो दृश्यते - नित्य आत्मा, नित्य आकाशः, नित्या द्यौरिति; आभीक्ष्ण्येऽपि - नित्यं प्रहसितः, नित्यं प्रजल्पित इति । तत्राविशेषादुभयोरपि ग्रहणादाकाशादिशब्दानामपि द्विर्वचनप्रसङ्ग इति मन्यमानः पृच्छति -केषु नित्यतेति । अथ वा - नित्यशब्दस्य कूटस्थलक्षण एव मुख्योऽर्थः, शब्दान्तरसन्निध्यनपेक्षणात् । आभीक्ष्ण्यं तु क्रियापदप्रयोगसमधिगम्यं गौणोऽर्थः; अविच्छेदोपलब्धिसामान्यमाश्रित्य तत्र प्रयोगात् । ततश्च'गौणमुख्ययोर्मुख्ये सम्प्रत्ययः' इति कूटस्थवाचिनामेव द्विर्वचनप्रसङ्ग इति मन्यमान आह - केषु नित्यतेति । इतरोऽपि विदिताभिप्राय आह - तिङ्क्ष्विति । अविशेषमेव मन्यमानः पृच्छति - कुत इति । आभीक्ष्ण्यमिहेति । अयमभिप्रायः - कूटस्थवचनग्रहणे तिङ्न्तानि न संगृहीतानिस्युः, आभीक्ष्ण्यलक्षणे तु नित्यत्वे गृह्यमाणे तल्लक्षणं द्विर्वचनं तिङ्न्तानाम्, वीप्सालक्षणं तु सुबन्तानामित्युभयानुग्रहो भवति । गौणोऽपि चार्थो लक्ष्यदर्शनवशादिहाश्रीयते - यथा'शीतोष्णाभ्यां कारिणि' , पार्श्वेनान्विच्छतीत्यादौ । उभ्यविधेऽपि नित्यत्वे गृह्यमाणे तद्वाचिनां सुबन्तानां स्वार्थ एव द्विर्वचनं स्यात्, न चैवं लोके प्रयोगोऽस्ति - आत्मात्मेति । एवं ह्युक्ते वीप्सा प्रतीयते, न तु स्वार्थः । तस्मादाभीक्ष्ण्यस्यैव ग्रहणमिति भवत्याभीक्ष्ण्यमिह नित्यता । सा च तिङ्क्ष्वव्ययकृत्सु चेति । एतत्कुतसत्यम् ? इत्याह -आभीक्ष्ण्यं च क्रियाधर्म इति । पौनः पुन्यमुआभीक्ष्ण्यम् । तच्च साध्यरूपायाः क्रियाया एव सम्भवति, तज्जातीयस्य तु पुनः करणं घटादिष्वपि रूम्भवति; तथापि क्रियाविषयैव पुनः क्रियत इति प्रतीतिः । तद्वचनाश्च पुनः पुनः, आभीक्ष्ण्यम्, नित्यमित्यादयः शब्दाः, यथा युगपत्पृथगित्यादयः शब्दाः क्रियाविषयाः, तद्वत् । क्रिया च तङ्क्ष्विव्यवकृत्सु चाभिधीयते, पाचकादिषु तु साधनं प्रधानम् । पाकादिष्वपि तु सिद्धता प्रधानम्, न क्रिया । कीदृशी पुनः सा क्रिया यस्या आभीक्ष्ण्यं धर्मः ? इत्याह - यां क्रियामिति । तन्नित्यमिति । नित्यशब्दस्य नपुंसकलिङ्गत्वातद्वृत्ति तच्छब्दस्यापि नपुंसकत्वम्, यथा - अणौ यत्कर्म णौ चेत्स कर्तेत्यत्र पुंस्त्वम् । लुनीहिलुनीहीति । क्रियासमभिहारे लोटुअ । यद्यपि तिङ्न्तस्य दर्शितमुदाहरणं तथाप्यस्त्यत्र वक्तव्यमिति पुनरुपन्यासः, तद्दर्शयति - कत्वाणमुलोर्लोटश्चेति ।'समानकर्तृकयोः' इत्यादिनार्थान्तरेऽपि क्त्वाणमुलौ विहितौ, लोडपि विध्यादावर्थान्तरे विहित इति सामान्यशब्दत्वात् द्विर्वचनापेक्षा एव पौनः पुन्यं प्रकाशयन्ति । यङ् तु तन्निरपेक्ष इति । स हि क्रियासमभिहारं न व्यभिचरति, तत्किं तस्य तद्द्योतने द्विर्वचनापेक्षया ! ननु यङ्न्तस्यापि कदाचिद् द्विर्वचनमिष्यते, तत्कथम् ? इत्याह - यदा त्विति । द्विविधो हि क्रियायाः समभिहारः - पौनः पुन्यम्, भृशार्थश्च । तत्र यदा द्विर्वचनं भवति, तदा भृशार्थे यङ्, तस्यैव पौनः पुन्यं द्योतयितुं द्विर्वचनम्, तस्य यङऽद्योतितत्वादित्यर्थः । वृतौ च सामान्यशब्दस्यापि क्रिया समभिहारशब्दस्य भृशार्थलक्षणे क्रियासमभिहारे वृत्तिविज्ञेया । पापच्यत इति । सकला अवयवक्रियाः स्वयमेव सम्पादयन् पुनः पुनः पचतीत्यर्थः । लोडपि भवति - पापच्यस्व पापच्यस्वेत्येवायं पापच्यत इति । अथ नित्यतायां द्विर्वचनमुच्यमानं धातुमात्रस्य कस्मान्न भवति, स हि क्रियावचनः ? उच्यते; परिगृहीतसाधना क्रिया व्यवहारोपयोगिनी भवति, तदभिधानाच्च धातुमात्रस्य द्विर्वचनाभावः । पदाधिकारो वाश्रयणीयः । अनेनैवाभिप्रायेण पूर्वमुक्तम् - ठथ पदस्येत्येव कस्मान्नोच्यतेऽ इति, अस्मिन्पक्षे सगतिकस्य द्विर्वचनं वक्तव्यमेव । एतेनैतदपि निरस्तम् - भृशार्थे सावकाशो यङ् पौनः पुन्ये परेण द्विर्वचनेन बाध्यत इति । कथमिदं निरस्तम् ? पदस्य द्विर्वचनं धातोर्यङ्, तत्रान्तरङ्गस्य न युक्तो बाध इत् व्याख्यातम् । नित्यं वीप्सां व्याख्यास्यन् विषयं तावत्पृच्छति - अथेति । सुप्सु वीप्सेति । सुपामेव तदभिव्यक्तौ समर्थत्वात् । एवं विषयमुक्त्वा स्वरूपं पृच्छति - का पुनरिति । यदि सामान्येन व्याप्तुमिच्छा वीप्सा, तदा चिकीर्षतीत्यादौ द्विर्वचनप्रसङ्गः; करोत्यादिक्रियाभिः कटादीनां या व्याप्तुमिच्छा तद्विचित्वात् । इतरो'योगरूढिर्वीप्साशब्दः' इत्यभिप्रायेणाह - व्याप्तिविशेषविषयेति । प्रयोक्तुरिच्छेति । अनेन नाभिधेया वीप्सा गृह्यते - वीप्सावाचिनो द्वे भवत इति, किं तर्हि ? प्रयोक्तृधर्मः, आबाधवत् । गतगत इत्युक्ते प्रियस्य चिरगमनादिना पीडितो वाक्यं प्रयुङ्क्त इति प्रतीयते, तेन चिकीर्षतीत्यादौ द्विर्वचनं भवतीति दर्शयति । व्याप्तिविशेषविपयेत्युक्तम्, स तु विशेषो नाद्याप्यभिहितद इति पुनः पृच्छति - का पुनरसाविति । नानावाचिनामित्यादि । पूर्ववृत्तिषु पठितं वीप्सालक्षणम्, तद् व्याचष्टे - नानाभूतार्थवाचिनामिति । तत्र नानावाचिनामिति वचनाज्जातिवाचिनां द्विर्वचनं न भवति - ब्राह्मणो न हन्तव्यः, सम्पन्नो व्रीहिरिति । नहि जातिशब्दा नानाभूतार्थवाचिनः; जातेरेकत्वात् । युगपद्ग्रहणात्क्रमविवक्षायां द्विर्वचनाभावः, यथा - अस्मिन्वनेऽयं वृक्षः शोभनोऽयं वृक्षः शोभन इति क्रमेण शोभनत्वप्रतिपादने बहूनामपि शब्दानां प्रयोगो भवति, तथैकशेषोऽपि न भवति - अस्मिन्वने वृक्षाः शोभना इति; नानावाचित्वाभावात् । पृथगर्थपर्यवसायित्वं हि नानावाचित्वम्, न चैकशेषे तदस्ति । अत एव तत्र न प्रत्येकं विधेयसम्बन्धो नियमेन प्रतीयते । न'हि ब्राह्मणेभ्यः शतं देयम्' इत्युक्ते नियमेन प्रत्येकं शतं देयं भवति । ब्राह्मणाय ब्राह्मणाय शतं देयमित्युक्ते प्रत्येकं शतं दीयते, तत्करय हेतोः ? पृथगर्थपर्यवसायितया पृथग्देयस्य सम्बन्धात् । यदा च पृथगर्थपर्थवसायिता, तदा यावन्तोऽर्था अभिधित्सिताः, तावन्तः शब्दाः पृथगेकैकपर्यवसायिनः प्रसक्ताः, तेषामनेन निवृत्तिः क्रियते - वीप्सायां द्वे एव प्रयोक्तव्ये, न तु बहु प्रयोक्तव्यमिति । कथं तहि निवृतानामर्थः प्रतीयते, यावता प्रत्येकपर्यवसायित्वे द्वयोरेव प्रतीतिः स्यात् ? उच्यते - एकशेषे यथान्येषामर्थः शिष्टेन गम्यते । तद्वदत्र विशेषेऽपि शिष्टाभ्यामितरार्थधीः ॥ यथैव हि वृक्षौ वृक्षा इत्येकशेषविषये शिष्यमाणमेव निवृतानामप्यर्थमाह, तथेहापि शिष्यमाणे द्वे एव विवक्षितानर्थानबिधास्यतः । न च बहुवचनप्रसङ्गः; परिगृहीतैकत्वानां बहूनामभिधानात्; अन्यथा प्रतेयकसम्बन्धस्याप्रतीतेः द्विर्वचनादुतरकालं सत्यामपि बहुत्वावगतावप्रातिपदिकत्वाद्वहुवचनाभावः, यथा - पश्य मृगो धावतीति सत्यपि दर्शनक्रियापेक्षे कर्मत्वे द्वितीयाभावः । एकैकमित्यत्र तु सत्यपि बहुव्रीहिवद्भावेन प्रातिपदिकत्वं परिगृहीतैकत्वस्यैकारथस्य वीप्सायोगादन्तरङ्गत्वादेकवचनं भवति, न बहुवचनम् ; बहुत्वप्रतीतेर्बहिरङ्गत्वात् । अस्यैवार्यस्य ठेकैकस्य प्राचाम्ऽ इति निर्देशो लिङ्गमित्यलमियता । तदयमत्रार्थः - नानाभूतार्थवाचिनां यान्यधिकरणानि वाच्यानि तेषां सहविवक्षितानां पृथक् संख्यायुक्तानां प्रत्येकं क्रियया गुणेन वा व्याप्तुमिच्छा वीप्सेति । क्रियागुणग्रहणं द्रव्यस्याप्युपलक्षणम् । ग्रामेग्रामे पानीयमिति । द्रव्यव्याप्तेरुदाहरणम् । पुरुषः पुरुषो निधनमुपैतीति । निधनमुमरणम् । जातस्य हि ध्रुवो मृत्युरित्यर्थः । अपर आह - साम्नां भक्तिविशेषःउनिधनम्, सर्व एव ऋत्विजो निधनमुपयन्तीत्यर्थ इति । यतिङ्न्तमित्यादि । अत्र विप्रतिषेधो हेतुः, द्विर्वचनस्यावकाशो यत्र नित्यता विवक्षिता, न प्रकर्षः - पचतिपचतीति, प्रकर्षप्रत्ययस्यावकाशो यत्र प्रकर्ष एव विवक्ष्यते, न नित्यिता - पचतितरामिति; उभयविवक्षायामुभयप्रसंगे परत्वाद् द्विर्वचनम्, ततः पुनः प्रसङ्गविज्ञानात्प्रकर्षप्रत्ययः । यद्वा - प्रतियोग्यपेक्षः प्रकर्षो बहिरङ्गः, पौनःपुन्यमन्तरङ्गमिति पूर्वं द्विर्वचनम् । इह त्वित्यादि । इष्टिरेवेयम् । यद्वा - प्रकर्षयुक्ता एवाढ्यदय आनयनक्रियायामुपयुज्यन्त इति लघुप्रकर्षा एव वीप्स्यन्ते । किञ्च - कृतद्विर्वचनातरपि सत्याढ्यतरमिति भवितव्यम्, तथा च प्रकर्षार्थो गम्येत, न वीप्सेति पूर्वं प्रकर्षयोगः ॥