वा द्रुहमुहष्णुहष्णिहाम्

8-2-33 वा द्रुहमुहष्णुहष्णिहाम् पदस्य पूर्वत्र असिद्धम् झलि अन्ते हः धातोः घः

Sampurna sutra

Up

द्रुह-मुह-ष्णुह-ष्णिहाम् धातोः हः पदस्य अन्ते झलि घः वा

Neelesh Sanskrit Brief

Up

द्रुहँ, मुहँ, ष्णुहँ तथा ष्णिहँ - एतेषांं धातूनाम् हकारस्य पदान्ते झलि परे वा विकल्पेन घकारादेशः भवति, घकारादेशाभावे औत्सर्गिकः ढकारादेशः भवति ।

Neelesh English Brief

Up

A हकार occurring at end of verbs द्रुहँ, मुहँ, ष्णुहँ and ष्णिहँ at पदान्त or when followed by a झल् letter is converted optionally to a घकार.

Kashika

Up

द्रुह मुह ष्णुह ष्णिह इत्येतेषां धातूनां हकारस्य वा घकारादेशो भवति झलि परतः, पदान्ते च। द्रुह — द्रोग्धा, द्रोढा। मित्रध्रुक्, मित्रध्रुट्। मुह — उन्मोग्धा, उन्मोढा। उन्मुक् , उन्मुट्। ष्णुह — उत्स्नोग्धा, उत्स्नोढा। उत्स्नुक्, उत्स्नुट्। ष्णिह — स्नेग्धा, स्नेढा। स्निक् , स्निट्। द्रुहेर्दादित्वाद् घत्वं नित्यं प्राप्तम्, इतरेषामप्राप्तमेव घत्वं विकल्प्यते॥

Siddhanta Kaumudi

Up

एषां हस्य वा घः स्याज्झलि पदान्ते च । पक्षे ढः । ध्रुक् । ध्रुग् । ध्रुट् । ध्रुड् । द्रुहौ । द्रुहः । ध्रुग्भ्याम् । ध्रुड्भ्याम् । ध्रुक्षु । ध्रुट्त्सु । ध्रुट्सु । एवं मुहष्णुहष्णिहाम् ॥ विश्ववाट् । विश्ववाड् । विश्ववाहौ । विश्ववाहः । विश्ववाहम् । विश्ववाहौ ॥

Laghu Siddhanta Kaumudi

Up

एषां हस्य वा घो झलि पदान्ते च। ध्रुक्, ध्रुग्, ध्रुट्, ध्रुड्। द्रुहौ। द्रुहः। ध्रुग्भ्याम्, ध्रुड्भ्याम्। ध्रुक्षु, ध्रुट्त्सु, ध्रुट्सु॥ एवं मुक्, मुग् इत्यादि॥

Neelesh Sanskrit Detailed

Up

एतत् सूत्रम् द्रुहँ (जिघांसायाम्), मुहँ (वैचित्ये), ष्णुहँ (उद्गिरणे) तथा ष्णिहँ (प्रीतौ) - एतेषां चतुर्ण्णाम् धातूनाम् विषये अस्ति । एतेभ्यः द्रुह्-धातोः हकारस्य <<दादेर्धातोर्घः>> 8.2.32 इत्यनेन नित्यम् घकारादेशे प्राप्ते, तथा च अन्येषां त्रयाणाम् घकारादेशे अप्राप्ते; प्रकृतसूत्रेण एतेषां चतुर्ण्णाम् विषये हकारस्य विकल्पेन घकारादेशः विधीयते । घकारादेशस्य अभावे <<हो ढः>> 8.2.31 इत्यनेन औत्सर्गिकः ढकारादेशः अपि भवति । उदाहरणानि एतानि - 1. द्रुह्-धातोः क्त-प्रत्ययान्तरूपम् - द्रुह् + क्त [<<निष्ठा>> 3.2.102 → द्रुह् + त [इत्संज्ञालोपः] → द्रुघ् + त [<<वा द्रुहमुहष्णुहष्णिहाम्>> 8.2.33 इत्यनेन विकल्पेन हकारस्य घकारः] → द्रुघ् + ध [<<झषस्तथोर्धोऽधः>> 8.2.40 इत्यनेन झष्-वर्णात् परस्य तकारस्य धकारः] → द्रुग् + ध [<<झलां जश् झशि>> 8.4.53 इत्यनेन जश्त्वम्] → द्रुग्ध घकारादेशस्य अभावे प्रक्रिया इयम् भवति - द्रुह् + क्त [<<निष्ठा>> 3.2.102 → द्रुह् + त [इत्संज्ञालोपः] → द्रुढ् + त [<<वा द्रुहमुहष्णुहष्णिहाम्>> 8.2.33 इत्यनेन विकल्पेन हकारस्य घकारे न कृते <<हो ढः>> 8.2.31 इति औत्सर्गिकः ढकारः] → द्रुढ् + ध [<<झषस्तथोर्धोऽधः>> 8.2.40 इत्यनेन झष्-वर्णात् परस्य तकारस्य धकारः] → द्रुढ् + ढ [<<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वम् ] → द्रु + ढ [<<ढो ढे लोपः>> 8.3.13 इति ढकारस्य ढकारे परे लोपः । एतस्य कृते ष्टुत्वम् सिद्धमस्ति ।] → द्रूढ [<<ढ्रलोपे पूर्वस्य दीर्घोणः>> 6.3.111 इति अण्-वर्णस्य दीर्घादेशः । एतस्य कृते ढकारलोपः सिद्धः अस्ति] अत्र निर्दिष्टः धातुः 'द्रुह्' (= द् + र् + उ + ह्) इति अस्ति, दृह् (द् + ऋ + ह्) इति नास्ति एतत् स्मर्तव्यम् । 2. मुह्-धातोः तृच-प्रत्ययान्तस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - मुह् + तृच् + सुँ [<<ण्वुल्तृचौ>> 3.1.133 इति तृच्-प्रत्ययः । <<स्वौजस्..>> 4.1.2 इति प्रथमैकवचनस्य सुँ-प्रत्ययः] → मोह् तृ सुँ [<<पुगन्तलघूपधस्य च>> 7.3.86 इति गुणः] → मोह् त् अन् स् [<<ऋदुशनस्पुरुदंसोऽनेहसां च>> 7.1.94 इत्यनेन अङ्गस्य 'अनङ्' आदेशः ] → मोह् तान् स् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> 6.4.11 इति अङ्गस्य उपधादीर्घः] → मोह् तान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः] → मोह् ता [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारस्य लोप] → मोघ् ता [<<वा द्रुहमुहष्णुहष्णिहाम्>> 8.2.33 इत्यनेन विकल्पेन हकारस्य घकारः] → मोघ् धा [<<झषस्तथोर्धोऽधः>> 8.2.40 इति तकारस्य धकारः] → मोग् धा [<<झलां जश् झशि>> 8.4.53 इति घकारस्य गकारः] → मोग्धा घकारादेशस्य अभावे प्रक्रिया इयम् भवति - मुह् + तृच् + सुँ [<<ण्वुल्तृचौ>> 3.1.133 इति तृच्-प्रत्ययः । <<स्वौजस्..>> 4.1.2 इति प्रथमैकवचनस्य सुँ-प्रत्ययः] → मोह् तृ सुँ [<<पुगन्तलघूपधस्य च>> 7.3.86 इति गुणः] → मोह् त् अन् स् [<<ऋदुशनस्पुरुदंसोऽनेहसां च>> 7.1.94 इत्यनेन अङ्गस्य 'अनङ्' आदेशः ] → मोह् तान् स् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> 6.4.11 इति अङ्गस्य उपधादीर्घः] → मोह् तान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः] → मोह् ता [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारस्य लोप] → मोढ् ता [<<वा द्रुहमुहष्णुहष्णिहाम्>> 8.2.33 इत्यनेन विकल्पेन हकारस्य घकारे न कृते <<हो ढः>> 8.2.31 इति औत्सर्गिकः ढकारः] → मोढ् धा [<<झषस्तथोर्धोऽधः>> 8.2.40 इति तकारस्य धकारः] → मोढ् ढा [<<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वम् ] → मोढा [<<ढो ढे लोपः>> 8.3.13 इति ढकारस्य ढकारे परे लोपः । एतस्य कृते ष्टुत्वम् सिद्धमस्ति ।] ष्णुहँ तथा ष्णिहँ धातोः <<धात्वादे षः सः>> 6.1.64 इत्यनेन षकारस्य सकारे कृते, ष्टुत्वनिवृत्या णकारस्यापि नकारं कृत्वा 'स्नुह्' / 'स्निह्' एते सिद्ध्यतः । एतयोः प्रक्रिया अपि मुह्-धातुवद् एव अस्ति । यथा, स्नुह् + क्त = स्नुग्ध, स्नूढ । स्निह् + क्त = स्निग्ध, स्नीढ ।

Balamanorama

Up

Padamanjari

Up

द्रुहादय एते दिवादिष्वनेनैव क्रमेण प्रपठ।ल्न्ते, रधादित्वाद्विकल्पितेटः । तत्र'वा द्रुहादीनाम्' इति वक्तव्ये प्रतिपदपाठो यङ्लुक्यपि यथा स्यात् - दोध्रुक्, दोध्रुट्; अन्यथा'निर्द्दिष्ट्ंअ यद्गणेन च' इति न स्यात् ॥