ऋदुशनस्पुरुदंसोऽनेहसां च

7-1-94 ऋदुशनस्पुरुदंसोनेहसां च सर्वनामस्थाने असम्बुद्धौ अनङ् सौ

Sampurna sutra

Up

ऋत्-उशनस्-पुरुदंसस्-अनेहसां अङ्गस्य असम्बुद्धौ सौ अनङ्

Neelesh Sanskrit Brief

Up

ऋदन्तशब्दानाम्, तथा उशनस्/पुरुदंसस्/अनेहस्-एतेषां शब्दानां असम्बुद्धौ सुँ-प्रत्यये परे अनङ् आदेशः भवति ।

Neelesh English Brief

Up

The ऋकारान्त words, and the words उशनस्/पुरुदंसस्/अनेहस् get अनङ् आदेश when followed by a सुँ-प्रत्यय not belonging to सम्बोधन एकवचन.

Kashika

Up

ऋकारान्तानामङ्गानामुशनस् पुरुदंसस् अनेहस् इत्येतेषां चासंबुद्धौ सौ परतोऽनङादेशो भवति। कर्ता। हर्ता। माता। पिता। भ्राता। उशना। पुरुदंसा। अनेहा। असंबुद्धावित्येव — हे कर्तः। हे मातः। हे पितः। हे पुरुदंसः। हे अनेहः। हे उशनः। उशनसः संबुद्धावपि पक्षेऽनङ् इष्यते। हे उशनन्। <<न ङिसंबुद्ध्योः>>८.२.८ इति नलोपप्रतिषेधोऽपि पक्ष इष्यते। हे उशन। तथा चोक्तम् —

संबोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम्।

माध्यंदिनिर्वष्टि गुणं त्विगन्ते नपुंसके व्याघ्रपदां वरिष्ठः॥

इति। तपरकरणमसन्देहार्थम्॥

Siddhanta Kaumudi

Up

ऋदन्तानामुशनसादीनां चाऽनङ् स्यादसंबुद्धौ सौ परे ॥

Laghu Siddhanta Kaumudi

Up

ऋदन्तानामुशनसादीनाम् चानङ् स्यादसम्बुद्धौ सौ॥

Neelesh Sanskrit Detailed

Up

अनेन सूत्रेण चतुर्ण्णाम् शब्दानाम् विषये प्रथमैकवचनस्य सुँ-प्रत्यये परे अनङ्-आदेशः विधीयते - 1. ऋकारान्तशब्दाः - यथा पितृ, मातृ, कर्तृ आदयः 2. 'उशनस्' शब्दः (= शुक्राचार्यः) 3. 'पुरुदंसस्' शब्दः (= मार्जारः) 4. 'अनेहस्' शब्दः (= समयः) अनङ्-आदेशे ङकारः इत्संज्ञकः अस्ति, नकारोत्तरः अकारः च उच्चारणार्थः अस्ति, अतः द्वयोः लोपः भवति , 'अन्' इत्येव अवशिष्यते । तथा च, ङित्वात् <<ङिच्च>> 1.1.53 इत्यनेन अयं अन्त्यादेशः भवति । प्रक्रियाः एताः - 1. पितृ + सुँ → पित् अनङ् + स् [<<ऋतो ङिसर्वनामस्थानयोः>> 7.3.110 इत्यनेन अङ्गस्य गुणे प्राप्ते अपवादत्वेन <<ऋदुशनस्पुरुदंसोऽनेहसाम् च>> 7.1.94 इति अनङ्-आदेशः] → पित् अन् + स् [इत्संज्ञालोपः] → पितान् + स् [<<सर्वनामस्थाने चासम्बुद्धौ>> 6.4.8 इति नकारान्तस्य अङ्गस्य उपधादीर्घः] → पितान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँलोपः] → पिता [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः । यद्यपि मूल-प्रातिपदिकम् 'पितृ' इति अस्ति, तथापि <<एकदेशविकृतमनन्यवत्>> अनया परिभाषया 'पिता' इत्यस्य अपि प्रातिपदिकसंज्ञा भवति ।] 2. कर्तृ + सुँ → कर्त् + अनङ् + स् [<<ऋतो ङिसर्वनामस्थानयोः>> 7.3.110 इत्यनेन अङ्गस्य गुणे प्राप्ते अपवादत्वेन <<ऋदुशनस्पुरुदंसोऽनेहसां च>> 7.1.94 इति अनङ्-आदेशः] → कर्तान् स् [<<अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्>> 6.4.11 इत्यनेन ऋकारान्तस्य अङ्गस्य सर्वनामस्थाने परे उपधादीर्घः ।] → कर्तान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः] → कर्ता [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इत्यनेन नकारस्य लोपः] 3. उशनस् + सुँ → उशन अनङ् + सुँ <<ऋदुशनस्पुरुदंसऽनेहसाम् च>> 7.1.94 इति अङ्गस्य अनङ्-आदेशः] → उशन अन् + स् [इत्संज्ञालोपः] → उशनन् + स् [<<अतो गुणे>> 6.1.97 इति पररूप-एकादेशः] → उशनान् स् [<<सर्वनामस्थाने चासम्बुद्धौ>> 6.4.8 इति उपधादीर्घः] → उशनान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः] → उशना [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इत्यनेन नकारस्य लोपः] तथैव 'पुरुदंसस्' इत्यस्य पुरुदंसा, तथा 'अनेहस्' इत्यस्य 'अनेहा' एते रूपे भवतः । अनेन सूत्रेण निर्दिष्टः 'अनङ्' आदेशः सम्बोधनैकवचनस्य सुँ-प्रत्यये परे न भवति । यथा - 1. कर्तृ + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → कर्तर् स् [<<ऋतो ङिसर्वनामस्थानयोः>> 7.3.110 इत्यनेन ऋकारस्य गुणः रपरः अकारः] → कर्तर् [<<रात्सस्य>> 8.2.24 इत्यनेन रेफात् परस्य सकारस्य लोपः] → कर्तः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इत्यनेन रेफस्य अवसाने खरि वा विसर्गः ] पितृ-शब्दस्य सम्बोधनैकवचनमपि अनयैव प्रक्रियया 'पितः' इति सिद्ध्यति । 2. उशनस् + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → उशनस् [ <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः] → उशनः [<<ससजुषो रुँ>> 8.2.66 इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] एवमेव पुरुदंसस्-शब्दस्य 'पुरुदंसः' तथा 'अनेहस्' शब्दस्य 'अनेहः' इति रूपं सिद्ध्यति । उशनस् शब्दस्य विषये एकम् वार्त्तिकम् ज्ञातव्यम् - <!उशनसः सम्बुद्धौ अपि पक्षे अनङ् इष्यते!> । इत्युक्ते, उशनस्-शब्दस्य विषये सम्बोधनस्य एकवचनस्य सुँ-प्रत्यये परे वैकल्पिकः अनङ्-आदेशः , तथा (अनङ्-आदेशे कृते) वैकल्पिकः नकारलोपः भवति । अतः उशनस्-शब्दस्य सम्बोधनस्य एकवचनस्य रूपत्रयं सिद्ध्यति - उशन, उशनन्, उशनः । प्रक्रिया इयम् - [अ] अनङ्-आदेशः न भवति - उशनस् + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → उशनस् [ <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः] → उशनः [<<ससजुषो रुँः>> 8.2.66 इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] [आ] अनङ्-आदेशः भवति - उशनस् + सुँ [सम्बोधनैकवचनस्य प्रत्ययः] → उशनस् अनङ् सुँ [<<ऋदुशनस्पुरुदंसऽनेहसाम् च>> 7.1.94 इति अनङ्-आदेशः] → उशन अन् स् [इत्संज्ञालोपः] → उशनन् स् [<<अतो गुणे>> 6.1.97 इति पररूपएकादेशः] → उशनन् [ <<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः] → उशनन् [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इत्यनेन नकारस्य लोपे प्राप्ते <<न ङि सम्बुद्ध्योः>> 8.2.8 इति निषेधः । परन्तु <!उशनसः सम्बुद्धौ अपि पक्षे अनङ् इष्यते!> अनेन वार्तिकेन वैकल्पिकः नकारलोपः] → उशन, उशनन् अतः उशनस्-शब्दस्य सम्बोधनैकवचनस्य उशन, उशनन्, उशनः - एतानि त्रीणि रूपाणि भवन्ति ।

Balamanorama

Up

<<ऋदुशनस्पुरुदंशोऽनेहसां च>> - ऋदुशनस् । 'सख्युरसंबुद्धौ' इत्यतोऽसंबुद्धाविति 'अनङ सौ' इत्यतोऽनङिति चानुवर्तते,अङ्गस्ये॑त्यधिकृतमृदादिभिर्विशेष्यते । तदाह — ऋदन्तानामिति । उशनसादिष्वपि तदन्तविधिर्बोध्यः । अनङि ङकार इत् । नकारादकार उच्चारणार्थः ।ङिच्चे॑त्यन्तादेशः । क्रोष्टन् स् इति स्थिते ।

Padamanjari

Up

सम्बुद्धावपि पक्षेऽनङ्ष्यिते तैति यदुक्तं तदाप्तगमेन द्रढयति - तथा चोक्तमिति । सम्बोधने - सम्बुद्धौ, त्रयाणां रुपाणां समाहारस्त्रिरुपम्, पात्रादिः । कानि पुनस्तानि रुपाणि इत्यत आह - सान्तमित्यादि । सान्तमनङेऽभावपक्षे, नान्तं नलोपाभावपक्षे, तादन्तं नलोपपक्षे, मध्यन्दिनस्यापत्यं माध्यन्दिनिः - आचार्यः, वष्टि इच्छति । भाषायामस्य साधुत्वं चिन्त्यमिति जक्षित्यादयः षट् इत्यत्रावोचाम । तथा व्याध्रपदां व्याध्रपादपत्यानां मध्ये वरिष्ठो वैयाघ्रपद्याअचार्यः नपुंसके नपुंसकसम्बन्धिनि, इगन्ते हे त्रपो इत्यादौ, गुणं षष्टीति श्लोकस्यार्थः ॥