7-3-94 यङः वा पिति सार्वधातुके हलि ईट्
यङः अङ्गात् सार्वधातुके हलि पिति ईट् वा
यङ्-प्रत्ययान्त-अङ्गात् परस्य हलादि-पित्-सार्वधातुकप्रत्ययस्य विकल्पेन ईडागमः भवति ।
A हलादि-पित्-सार्वधातुकप्रत्यय attached to a यङ्-प्रत्ययान्त-अङ्ग gets ईडागम optionally.
यङ उत्तरस्य हलादेः पितः सार्वधातुकस्येडागमो भवति वा। शाकुनिको लालपीति। दु॑न्दु॒भिर्वा॑वदीति (ऋ० ६.४७.३१)। त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्या॒ँ॒ आ वि॑वेश (ऋ० ४.५८.३)। न च भवति — वर्व॑र्ति (ऋ० १.१६४.११)। चर्कर्ति चक्रम्। हलादेः पितः सार्वधातुकस्य यङन्तादभाव इति यङ्लुगन्तस्योदाहरणम्॥
यङन्तात्परस्य हलादेः पितः सार्वधातुकस्य ईड्वा स्यात् । भुसुवोः - <{SK2224}> इति गुणनिषेधो यङ्लुकि भाषायां न । बोभूतु तेतिक्ते <{SK3596}> इति छन्दसि निपातनात् । अत एव यङ्लुग्भाषायामपि सिद्धः । न च यङ्लुकि अप्राप्त एव गुणाभावो निपात्यतामिति वाच्यम् । [(परिभाषा - ) प्रकृतिग्रहणेन यङ्लुगन्तस्यापि ग्रहणात्] । द्विः प्रयोगो द्विर्वचनं षाष्ठम् इति सिद्धान्तात् । बोभवीति । बोभोति । बोभूतः । बोभुवति । बोभवांचकार । बोभविता । अबोभवीत् । अबोभोत् । अबोभूताम् । अबोभवुः । बोभूयात् । बोभूयाताम् । बोभूयास्ताम् । गातिस्था - <{SK2223}> इति सिचो लुक् । यङो वा - <{SK2651}> इतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वुक् । अबोभूवीत् । अबोभोत् । अबोभूताम् । अभ्यस्ताश्रयो जुस् । नित्यत्वाद्रुक् । अबोभूवुः । अबोभविष्यदित्यादि । पास्पर्धीति । पास्पर्धि । पास्पर्धः । पास्पर्धति । पास्पर्त्सि । हुझल्भ्यो हेर्धिः <{SK2425}> । पास्पर्धि । लङ् । अपास्पतर् । अपास्पदर् । सिपि दश्च <{SK2468}> इति रुत्वपक्षे रो रि <{SK173}> । अपास्पाः । जागाद्धि । जाधात्सि । अजाघात् । सिपि रुत्वपक्षे । अजाघाः । नाथृ । नानात्ति । नानात्तः । दध । दादद्धिः । दाधत्सि । अदाधत् । अदादद्धाम् । अदादधुः । अदाधः । अदाधत् । लुङि । अदादाधीत् । अदादधीत् । चोस्कुन्दीति । चोस्कुन्ति । अचोस्कुन् । अचोस्कुन्ताम् । अचोस्कुन्दुः । मोमुदीति । मोमोत्ति । मोमोदांचकार । मोमोदिता । अमोमुदीत् । अमोमोत् । अमोमुत्ताम् । अमोमुदुः । अमोमुदीः । अमोमोः । अमोमोत् । लुङि गुणः । अमोमोदीत् । चोकूर्ति । चोकूर्दीति । लङ् तिप् । अचोकूतर् । अचोकूर्दीत् । सिप्पक्षे । अचोकूः । अचोखूः । अजोगूः । वनीवञ्चीति । वनीवङ्क्ति । वनीवक्तः । वनीवचति । अवनीवञ्चीत् । अवनीवन् । जङ्गमीति । जङ्गन्ति । अनुदात्तोपदेश - <{SK2428}> इत्यनुनासिकलोपः । जङ्गन्तः । जङ्ग्मति । म्वोश्च <{SK2309}> । जङ्गन्मि । जङ्गन्वः । एकाज्ग्रहणेनोक्तत्वान्नेण्निषेधः । जङ्गमिता । अनुनासिकलोपस्याभीयत्वेनासिद्धत्वान्न हेर्लुक् । जङ्गहि ॥मो नो धातोः <{SK341}> अजङ्गन् । अनुबन्धनिर्देशान्न च्लेरङ् । ह्म्यन्त - <{SK2299}> इति न वृद्धिः । अजङ्गमीत् । अजङ्गमिष्टाम् । हन्तेर्युङ्लुक् । अभ्यासाच्च <{SK2430}> इति कुत्वं यद्यपि हो हन्तेः <{SK358}> इत्यतो हन्तेरित्यनुवर्त्य विहितं, तथापि यङ्लुकि भवत्येवेति न्यासकारः । [(परिभाषा - ) श्तिपा शपा...] इति निषेधस्तवनित्यः गुणो यङ्लुकोः <{SK2630}> इति सामान्यापेक्षज्ञापकादिति भावः । जङ्घनीति । जङ्घन्ति । जङ्घतः । जङ्घ्नति । जङ्घनिता । श्तिपा निर्देशाज्जादेशो न । जङ्घहि । अजङ्घनीत् । अजङ्घन् । जङ्घन्यात् । आशिषि तु । वध्यात् । अवधीत् । अवधिष्टामित्यादि । वधादेशस्य द्वित्वं तु न भवति । स्थानिवत्त्वेनानभ्यासस्येति निषेधात् । तद्धि समानाधिकरणं धातोर्विशेषणम् । बहुव्रीहिबलात् । आङ्पूर्वात्तु आङो यमहनः <{SK2695}> इत्यात्मनेपदम् । आजङ्घते इत्यादि । उत्परस्य - <{SK2637}> इति तपरत्वान्न गुणः । हलि च <{SK354}> इति दीर्घस्तु स्यादेव । तस्यासिद्धत्वेन तपरत्वनिवर्त्यत्वायोगात् । चञ्चुरीति । चञ्चूर्ति । चञ्चूर्तः । चञ्चुरति । अचञ्चूरीत् । अचञ्चूः । चङ्खनीति । चङ्खन्ति । जनसन - <{SK2504}> इत्यात्वम् । चङ्खातः । गमहन - <{SK2363}> इत्युपधालोपः । चङ्ख्नति । चङ्खाहि । चङ्खनानि । अचङ्खनीत् । अचङ्खन् । अचङ्खाताम् । अचङ्ख्नुः । ये विभाषा <{SK2319}> । चङ्खायात् । चङ्खन्यात् । अचङ्खनीत् । अचङ्खानीत् । उतो वृद्धिः <{SK2443}> इत्यत्र नाभ्यस्तस्येत्यनुवृत्तेरुतोवृद्धिर्न । योयोति । योयवीति । अयोयवीत् । अयोयोत् । योयुयात् । आशिषि दीर्घः । योयूयात् । अयोयावीत् । नोनवीति । नोनोति । जाहेति । जाहाति । ई हल्यघोः <{SK2497}> । जाहीतः । इह जहातेश्च <{SK2498}> आच हौ <{SK2499}> लोपो यि <{SK2500}> घुमास्था - <{SK2462}> एर्लिङि - <{SK2374}> इत्येते पञ्चापि न भवन्ति । श्तिपा निर्देशात् । जाहति । जाहासि । जाहेषि । जाहीथः । जाहीथ । जाहीति । अजाहेत् । अजाहात् । अजाहीताम् । अजाहासिष्टाम् । अजाहिष्यत् । लुका लुप्ते प्रत्ययलक्षणाभावात् स्वपिस्यमि - <{SK2645}> इत्युत्वं न । रुदादिभ्यः - <{SK2464}> इति गणनिर्दिष्टत्वादिण्न । सास्वपीति । सास्वप्ति । सास्वप्तः । सास्वपति । असास्वपीत् । असास्वप् । सास्वप्यात् । आशिषि तु वचिस्वपि - <{SK2409}> इत्युत्वम् । सासुप्यात् । असास्वापीत् । असास्वपीत् ॥
यङ्लुगन्तात्परस्य हलादेः पितः सार्वधातुकस्येड् वा स्यात्। भूसुवोरिति गुणनिषेधो यङ्लुकि भाषायां न, बोभूतु तेतिक्ते इति छन्दसि निपातनात् । बोभवीति, बोभोति । बोभूतः । अदभ्यस्तात् । बोभुवति । बोभवाञ्चकार, बोभवामास । बोभविता । बोभविष्यति । बोभवीतु, बोभोतु, बोभूतात् । बोभूताम् । बोभुवतु । बोभूहि । बोभवानि । अबोभवीत्, अबोभोत् । अबोभूताम् । अबोभवुः । बोभूयात् । बोभूयाताम् । बोभूयुः । बोभूयात् । बोभूतास्ताम् । बोभूतासुः । गातिस्थेति सिचो लुक् । यङो वेतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वुक् । अबोभूवीत्, अबोभोत् । अबोभूताम् । अबोभूवुः । अबोभविष्यत् ॥ इति यङ्लुक्प्रक्रिया ॥
लालपीतीत्यादि । लपिवदिरौतिभ्यो यङ्लुक्, द्विर्वचनम् । रौतेरभ्यासस्य गुणः । इतरयोर्दीर्घत्वम् । ववर्तीति । वृते रूपम्, रुग्रिकौ च लुकिऽ इत्यभ्यासस्य रुक् । किं पुनः कारणं यङ्लुगन्तमेवोदाहृतम्, न पुनर्यङ्न्तम् ? तत्राह - हलादेरिति । यङ्न्ते हि शपा भवितव्यम्, स च हलादिर्न भवति ॥