6-1-4 पूर्वः अभ्यासः एकाचः द्वे प्रथमस्य अजादेः द्वितीयस्य
पूर्वः अभ्यासः
अस्मिन् द्वित्वप्रकरणे ये द्वे विहिते, द्वयोः यः 'पूर्वः' (प्रथमः), तस्य 'अभ्यास' इति नाम दीयते ।
When a repetition is done, the first entity out of the two is called अभ्यास.
द्वे इति प्रथमान्तं यदनुवर्तते, तदर्थादिह षष्ठ्यन्तं जायते। तत्र प्रत्यासत्तेरस्मिन् प्रकरणे ये द्वे विहिते, तयोर्यः पूर्वोऽवयवः सोऽभ्याससंज्ञो भवति। पपाच। पिपक्षति। पापच्यते। जुहोति। अपीपचत्। अभ्यासप्रदेशास्तु — <<अत्र लोपोऽभ्यासस्य>> ७.४.५८ इत्येवमादयः॥
अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् ॥
अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात्॥
यदा शब्दस्य (तस्य कस्यचन अवयवस्य वा) द्वित्वम् क्रियते, तर्हि द्वयोः यः प्रथमः, तस्य 'अभ्यास' संज्ञा भवति । यथा, 1. 'पच्' धातोः द्वित्वे कृते 'पच् पच्' इति स्थिते यः प्रथमः 'पच्', तस्य 'अभ्यास' संज्ञा भवति । 2. 'जागृ' धातोः द्वित्वे कृते 'जाग् जागृ' इति स्थिते यः प्रथमः जाग् ', तस्य 'अभ्यास' संज्ञा भवति । 3. 'अर्चि' धातोः द्वित्वे कृते 'अर्चि चि' इति स्थिते यः प्रथमः 'चि' तस्य अभ्याससंज्ञा भवति ।अत्र रेफस्य द्वित्वं न क्रियते अतः रेफस्य अभ्याससंज्ञायाम् समावेशः नैव करणीयः । 4. 'उन्दि' धातोः द्वित्वे कृते 'उन्दि दि' इति स्थिते यः प्रथमः 'दि' तस्य अभ्याससंज्ञा भवति । अत्र नकारस्य द्वित्वं न क्रियते अतः नकारस्य अभ्याससंज्ञायाम् समावेशः नैव करणीयः ।
'अभ्यास' संज्ञायाः प्रयोगः <<लिटि धातोरनभ्यासस्य>> 6.1.8, तुजादीनां दीर्घोऽभ्यासस्य 6.1.7 एतादृशेषु सूत्रेषु कृतः अस्ति ।
<<पूर्वोऽभ्यासः>> - पूर्वः । अत्रेति ।एकाचो द्वे प्रथमस्ये॑ति षाष्ठद्वित्वप्रकरम इत्यर्थः । तेन 'सर्वस्य द्वे' इत्यादिविहितस्य द्वित्वस्य न सङ्ग्रहः । कस्य पूर्व इत्याकाङ्क्षायां 'द्वे' इत्यनुवृत्तं षष्ठआ विपरिणतं संबध्यते । तदाह — ये द्वे विहिते तयोरिति ।
अर्थादिति। सामर्थ्यात्पूर्वशब्दोऽयमवयववचनः, अवयवश्चावयविनो भवति, स चेह कश्चिन्न निर्द्दिष्टः, अतोऽवश्यम्'द्वे' इति अत्रानुवर्तनीयम्। न वानुवृतमपि प्रथमान्तमेवावस्थिमवयव्यपेक्षां पूरयितुमलमित्येतत्सामर्थ्यम्। अस्मिन्प्रकरण इति। अनेन'सर्वस्य द्वे' इत्यत्र प्रकरणे इयं संज्ञा न भवति, तेन तत्र हलादिशेषाद्यभावः। यद्येवम्,'द्यौतिगमिजुहोत्यादीनां द्वे' इत्यत्र न प्राप्नोति? कर्तव्योऽत्र यत्नः। तयोः पूर्वोऽवयव इति। अवयववाचिभिर्दिक्शब्दैर्योगे पञ्चमी न भवति;'तस्य प्रमाम्रेडितम्' इति लिङ्गात्। पपाचेत्यादौ'हलादिः शेषः' ,'सन्यतः' ,'दीर्घो' कितःऽ,'कुहोश्चुः' , ठभ्यासे चर्चऽ,'सन्वल्लघुनि' ,'दीर्घो लघोः' इत्यादीनि यथायोगमब्यासकार्याणि ॥