लभेश्च

7-1-64 लभेः च इदितः नुम् अचि शब्लिटोः

Sampurna sutra

Up

लभेः अशप्-लिटपः अचि नुम्

Neelesh Sanskrit Brief

Up

लभ्-धातोः शप्-प्रत्ययं लिट्-लकारं च विहाय अन्येषु अजादिप्रत्ययेषु परेषु नुमागमः भवति ।

Neelesh English Brief

Up

The verb root लभ् which is followed by an अजादि प्रत्यय gets a नुमागम. But this नुमागम is not seen in presence of शप् विकरणप्रत्यय as well as in presence of लिट्-लकार.

Kashika

Up

लभेश्चाजादौ प्रत्यये शब्लिड्वर्जिते नुमागमो भवति। लम्भयति। लम्भकः। साधुलम्भी। लम्भंलम्भम्। लम्भो वर्तते। अशब्लिटोरित्येव — लभते। लेभे। अचीत्येव — लब्धा। लभेश्च पृथग्योगकरणमुत्तरार्थम्॥

Siddhanta Kaumudi

Up

अररम्भत् । अललम्भत् । हेरचङि - <{SK2531}> इति सूत्रे अचङीत्युक्तेः कुत्वं न । अजीहयत् । अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् <{SK2566}> । असस्मरत् । अददरत् । तपरत्वसामर्थ्यादत्र लघोर्न दीर्घः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

डुलभष् (प्राप्तौ, भ्वादिः <{1.1130}>) इति भ्वादिगणस्य धातुः । अस्य धातोः विषये अजादिप्रत्यये परे वर्तमानसूत्रेण नुमागमः भवति । परन्तु शप्-विकरणप्रत्यये परे, लिट्-लकारस्य विषये च अयं नुमागमः न क्रियते । उदाहरणानि एतानि - 1) लभ् धातोः अनीयर्-प्रत्यये परे प्रक्रिया - डुलभष् (प्राप्तौ) → लभ् + अनीयर् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति अनीयर्-प्रत्ययः] → लभ् + अनीय [इत्संज्ञालोपः] → ल नुम् भ् + अनीय [<<लभेश्च>> 7.1.64 इत्यनेन अचि परे लभ्-धातोः नुमागमः] → ल न् भ् अनीय [इत्संज्ञालोपः] → लंभनीय [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः] → लम्भनीय [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः] 2) लभ्-धातोः णिच्-प्रत्यये परे प्रक्रिया - डुलभष् (प्राप्तौ) → लभ् + णिच् [<<हेतुमति च>> 3.1.26 इति णिच्] → लभ् + इ [इत्संज्ञालोपः] → ल नुम् भ् + इ [<<लभेश्च>> 7.1.64 इत्यनेन अचि परे लभ्-धातोः नुमागमः। <<मिदचोऽन्त्यात्परः>> 1.1.47 इति सः अन्त्यात् अचः परः । अत्र <<अतः उपधायाः>> 7.2.116 इत्यनेन परत्वात् प्राप्तम् उपधावृद्धिकार्यम् वर्तमानसूत्रेण नित्यत्वात् बाधते । अतः अत्र नुमागमः एव भवति ।] → ल न् भ् इ [इत्संज्ञालोपः] → लंभि [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः] → लम्भि [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः । <<सनाद्यन्ता धातवः>> 3.1.32 इति धातुसंज्ञा ।] अग्रे लटि तिप्प्रत्यये कृते 'लम्भयति' इति रूपं सिद्ध्यति । 3) लभ्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनम् - लभ् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → लभ्+ त [<<तिप्तस्..>> 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः] → लभ् + शप् + त [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकम् विकरणम् शप् । शप्-प्रत्ययस्य उपस्थितौ <<लभेश्च>> 7.1.64 इत्यस्य प्रसक्तिः नास्ति, अतः नुमागमः न भवति ।] → लभ्+ अ + ते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति एकारः] → लभते 4) लभ्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनम् - लभ् + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्] → लभ् + लभ् + लिट् [<<लिटिधातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] → ल + लभ् + लिट् [<<हलादि शेषः>> 7.4.60 इति अभ्यासस्य भकारलोपः] → ल लभ् + त [<<तिप्तस्झि...>> 3.4.78 इति प्रथमपुरुषैकवचनस्य त-प्रत्ययः] → लेभ् + त [<<अत एकहल्मध्येऽनादेशादेर्लिटि>> 6.4.120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः] → लेभ् + एश् [<<लिटस्तझयोरेशिरेच्>> 3.4.81 इत्यनेन त-प्रत्ययस्य एश्-आदेशः । यद्यपि अयम् अजादिः आदेशः, तथापि अयं लिट्-लकारस्य स्थाने विधीयते, अतः अत्र <<लभेश्च>> 7.1.64 इति नुमागमः न भवति ।] → लेभे [इत्संज्ञालोपः] सूत्ररचनाविशेषाः 1. <<यस्मिन् विधिः तदादौ अल्ग्रहणे>> अनया परिभाषया अत्र 'अचि' इत्यस्य अर्थः 'अजादौ' इति क्रियते । शास्त्रसंवादः छात्रः - अत्र पूर्वसूत्रम् <<रभेरशब्लिटोः>> 7.1.63 इति रभ्-धातोः विषये नुमागमविधानं करोति । वर्तमानसूत्रेण लभ्-धातोः विषयेऽपि स एव विधिः उच्यते । अतः सूत्रद्वयं एकत्ररूपेण स्थाप्यते चेत् वरमेव । यथा 'रभिलभ्योः अशब्लिटोः' इति । आचार्यः - एतादृशं क्रियते चेत् अत्र 'यथासङ्ख्यम्' भवति वा (इत्युक्ते, रभ्-धातोः विषये अशपि तथा लभ्-धातोः विषये अलिटि - इति सन्दर्भः स्वीकरणीयः वा) इति सन्देहः जायते । अपि च, अग्रिमसूत्रे <<आङो यि>> 7.1.65 इत्यत्र केवलं 'लभ्' इत्यस्यैव अनुवृत्तिः इष्यते, न हि 'रभ्' इत्यस्य । अतः आचार्यैः अत्र पृथक् सूत्रम् रचितम् ।

Balamanorama

Up

<<लभेश्च>> - लभेश्च । लभेरपि नुम् स्यादचि, नतु शब्लिटोरित्यर्थस्य स्पष्टत्वादनुक्तिः । अररम्भदिति । नुमि कृते संयोगपरत्वेन अकारस्य लघुत्वाऽभावान्न सन्वत्त्वमिति भावः ।हि गतौ वृद्धौ चे॑त्यस्माच्चङिअजीहय॑दित्यत्रहेरचङी॑ति हकारस्य कुत्वं नेत्याह — हेरचङीति ।अत्स्मृदृत्वरे॑ति सूत्रं चुरादौ 'प्रथ प्रख्याने' इति धातौ व्याख्यातम् । असस्मरदिति । अत्र 'सन्यतः' इतीत्त्वे प्राप्ते अत्त्वम् । अत एव ज्ञापकादनेकहल्व्यवधानेऽपि लघुपरत्वमित्युक्तं प्राक् । संयोगपरत्वेन लघुत्वाऽभावान्नाऽभ्यासदीर्घः । अददरदिति । 'दृ विदारणे' इत्यस्य रूपम् । अत्रापि 'सन्यतः' इत्यस्यापवादोऽयम् । दीर्घमाशङ्क्याह — तपरत्वसामर्थ्यादिति । अतत्वरत् । अपप्रथत् । अमम्रदत् । अतस्तरत् । अपस्पशत् ।

Padamanjari

Up

डुलभष् प्राप्तौ, अनुदातेन । लम्भो वर्तत इति । उपसर्गादेव खल्घञोः इति नियमस्य वक्ष्यमाणत्वादपपाठोऽयम् । खनो घ चेति चकाराद् भगः पदम् इतिवत् घप्रत्यय इत्येके । योगविभाग उतरार्थ इति । उतरोविधिर्लभेरेव यथा स्याद्रभेर्मा भूत् । किञ्च - शिब्लिटोर्यथासंख्यनिरासार्थश्च ॥