आङो यि
7-1-65 आङः यि इदितः नुम् लभेः
Sampurna sutra
Up
आङो लभेः यि नुम्
Neelesh Sanskrit Brief
Up
आङ्-उपसर्गपूर्वकस्य लभ्-धातोः यकारादि प्रत्ययस्य विषये नुमागमः भवति ।
Neelesh English Brief
Up
The verb root आङ् + लभ् gets a नुमागम in the anticipation of a pratyay that starts with य् ।
Kashika
Up
आङ उत्तरस्य लभेर्यकारादिप्रत्ययविषये नुमागमो भवति। आ॒ल॒म्भ्या॑ गौः। आ॒ल॒म्भ्या॑ वडवा। प्राक् प्रत्ययोत्पत्तेर्नुमि कृते विहतम् अदुपधत्वमिति <<ऋहलोर्ण्यत्>> ३.१.१२४ इति ण्यत्प्रत्ययः, तत्र कृदुत्तरपदप्रकृतिस्वरत्वेन ६.२.१३९ अन्तस्वरितत्वं ६.१.१८५ भवति। यति तु पुनरुत्तरपदाद्युदात्तत्वं ६.१.२१३ स्यात्। आङ इति किम्? लभ्यम्। कथम् अ॒ग्निष्टो॒म॑ आ॒ल॑भ्यः॒ (मै०सं० ३.९.५) इति? <<सर्वे विधयश्छन्दसि विकल्प्यन्ते>>। अथ वा आलभ्य इत्यत्र नुमि कृतेऽनुषङ्गलोपः क्रियते॥
Siddhanta Kaumudi
Up
आङः परस्य लभेर्नुम् स्याद्यादौ प्रत्यये विवक्षिते । नुमि कृतेऽदुपधात्वाभावात् ण्यदेव । आलम्भ्यो गौः ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
डुलभष् (प्राप्तौ, भ्वादिः <{1.1130}>) इति धातुः आङ्-उपसर्गेण सह प्रयुज्यते चेत् यकारादि-प्रत्ययस्य विषये अस्य नुमागमः भवति । अत्र सूत्रे 'यि' इति विषयसप्तमी अस्ति, अतः यकारादि-प्रत्ययस्य केवलविवक्षायाम्, यकारादि-प्रत्ययस्य स्थापनात् पूर्वमेव अयम् नुमागमः भवति । नुमागमे कृते 'लन्भ्' इति यत् रूपम् जायते, तस्मादेव यथोचितं यकारादिप्रत्ययः विधीयते । उदाहरणानि एतानि -
1. आङ् + डुलभष् (प्राप्तौ, भ्वादिः) अत्र यकारादि-कृत्य-प्रत्ययस्य विवक्षायाम् -
आ + लभ्
--> आ + ल नुम् भ् [यकारादिप्रत्ययस्य विवक्षायाम् नुमागमः]
--> आ + लन्भ् [इत्संज्ञालोपः]
--> आ + लन्भ् + ण्यत् [हलन्तधातोः <<ऋहलोर्ण्यत्>> 3.1.124 इति ण्यत् प्रत्ययः ।]
--> आ + लन्भ् + य [इत्संज्ञालोपः]
--> आलंभ्य [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः]
--> आलम्भ्य [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः मकारः]
2. आङ् + डुलभष् (प्राप्तौ, भ्वादिः) अत्र 'ल्यप्' प्रत्ययस्य विवक्षायाम् ततः नुमागमस्य लोपः अपि भवति -
आ + लभ्
--> आ + ल नुम् भ् [यकारादिप्रत्ययस्य विवक्षायाम् नुमागमः]
--> आ + लन्भ् [इत्संज्ञालोपः]
--> आ + लन्भ् + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> 3.4.21 इति क्त्वाप्रत्ययः]
--> आ + लन्भ् + ल्यप् [<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> 7.1.37 इति क्त्वाप्रत्ययस्य ल्यबादेशः]
--> आ + लभ् + य [<<अनिदितां हल उपधायाः क्ङिति>> 6.4.24 इति उपधानकारलोपः]
--> आलभ्य
3. आङ् + डुलभष् (प्राप्तौ, भ्वादिः) अत्र 'यक्' प्रत्ययस्य विवक्षायाम् ततः नुमागमस्य लोपः अपि भवति -
आ + लभ्
--> आ + ल नुम् भ् [यकारादिप्रत्ययस्य विवक्षायाम् नुमागमः]
--> आ + लन्भ् [इत्संज्ञालोपः]
--> आ + लन्भ् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्]
--> आ + लन्भ् + त [<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 इति भावकर्मणोः आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः]
--> आ + लन्भ् + ते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति एकारादेशः]
--> आ + लन्भ् + यक् + ते [<<सार्वधातुके यक्>> 3.1.67 इति यक्-विकरणप्रत्ययः]
--> आ + लभ् + य + ते [<<अनिदितां हल उपधायाः क्ङिति>> 6.4.24 इति उपधानकारलोपः]
--> आलभ्यते
'ल्युट्' इति प्रत्ययः यकारादिः नैव स्वीक्रियते अपितु अकारादिः स्वीक्रियते, यतः प्रक्रियायाः प्रारम्भे एव तस्य 'अन' इति आदेशः भवति । अतः 'ल्युट्'प्रत्ययस्य विषये इदं सूत्रं नैव प्रवर्तते, अपि तु 'लभ् + ल्युट्' इत्यत्र <<लभेश्च>> 7.1.64 इत्यनेनैव नुमागमः सिद्ध्यति ।
शास्त्रसंवादः
छात्रः - अत्र विषयसप्तमी किमर्थं स्वीक्रियते ? यदि अत्र परसप्तमीपक्षे 'यकारादि-प्रत्यये परे' इति सूत्रार्थः स्वीक्रियते, तथाऽपि आङ्-उपसर्गपूर्वकात् लभ्-धातोः आदौ <<पोरदुपधात्>>
3.1.98 इत्यनेन अच्-प्रत्ययं कृत्वा, ततः नुमागमे कृते 'आलम्भ्य' इति समानमेव रूपं सिद्ध्यति ।
आचार्यः - यदि अत्र ण्यत्-प्रत्ययस्य स्थाने <<पोरदुपधात्>>
3.1.98 इत्यनेन अच्-प्रत्ययः क्रियते, तर्हि प्रत्ययस्य अकारः <<यतोऽनावः>>
6.1.213 इत्यनेन उदात्तः भवति । परन्तु अन्तिमरूपे यकारोत्तरः अकारः स्वरितः इष्यते । अतः अत्र आदौ यकारादि-प्रत्ययस्य विवक्षायाम् नुमागमे कृते लन्भ् इति रूपम् कृत्वा, ततः 'ण्यत्' प्रत्ययः विधीयते, येन <<गतिकारकोपपदात् कृत्>>
6.2.139 इत्यनेन पदस्य अन्त्यस्वरितत्वम् सम्यक् सिद्ध्यति ।
Balamanorama
Up
<<आङो यि>> - आङो यि ।इदितो नुम् धातो॑रित्यतो नुमिति,लभेश्चे॑त्यतो लभेरिति चाऽनुवर्तते । तदाह — आङः परस्येति । विवक्षिते इति । 'यी' इति विषयसप्तमीति भाष्ये स्पष्टम् । 'विवक्षिते' इत्यस्य प्रयोजनमाह — नुमि कृते इति । यत्प्रत्यये विवक्षिते तत्प्रवृत्तेः प्रागेव नुमि कृते अदुपधत्वाऽभावाद्यत्प्रत्ययस्याऽप्रवृत्तेण्र्यदेवेत्यर्थः ।यति परे नु॑मित्यर्थे तु अदुपधत्वाद्यदेव स्यान्नतु ण्यदिति भावः । आलम्भ्यो गौरिति । यद्यपि यण्ण्यतोर्न रूपभेदस्तथापि ण्यति कृतेतित्स्वरित॑मिति स्वरितत्वम्, यति तु 'यतोऽनावः' इत्याद्युदात्तत्वमिति स्वरभेदः फलम् ।
Padamanjari
Up
अत्र धातोः इत्यनुवृतेरुपदेशावस्थायामेव नुमा भवितव्यम्, तस्माद् यि इति विषयसप्तमीत्याह - यकारादौ प्रत्यये विषय इति । प्रागित्यादिना विषयसप्तम्याश्रयणस्य फलं दर्शयति । तत्रेत्यादि । रुपे तु नास्ति विशेषः, ण्यत्प्रत्ययेऽपि वृद्ध्या नैव भवितव्यम् , नित्ये नुमि सति विहितनिमितत्वात् । यति पुनरुतरपदाद्यौदातत्वं स्यादिति । यतोऽनावः इत्युतरपदाद्यौदातत्वात् । आलभ्य इति । यक् । अनुषङ्गलोपः क्रियत इति । एतेन यक्ल्यपौ व्याख्यातौ । तेन यि इति सामान्योक्तावपि ण्यदेवोदाहृत इति भावः ॥