6-4-89 ऊत् उपधायाः गोहः असिद्धवत् अत्र आभात् अचि
गोहः उपधायाः ऊत् अचि
गुह्-धातोः अजादिप्रत्यये परे 'गोह्' इति रूपस्य प्रसक्तिः अस्ति चेत् तं बाधयितुमुपधायाः ऊकारादेशः भवति ।
When the उपधा of verb root गुह् has a chance of undergoing a गुणादेश while followed by an अजादिप्रत्यय, the गुणादेश is blocked and the उपधा becomes दीर्घ instead.
गोहोऽङ्गस्योपधाया ऊ कारादेशो भवत्यजादौ प्रत्यये परतः। निगूहयति। निगूहकः। साधुनिगूही। निगूहंनिगूहम्। निगूहन्ति। गूहो वर्तते। उपाधाया इति किम् ? अलोऽन्त्यस्य १.१.५२ मा भूत्। गोह इति विकृतग्रहणं विषयार्थम्। यत्रास्यैतद्रूपं तत्रैव यथा स्याद्, इह मा भूत् — निजुगुहतुः, निजुगुहुः। अयादेशप्रतिषेधार्थं च केचिदिच्छन्ति। निगूह्य गत इत्यूत्त्वस्यासिद्धत्वाद् <<ल्यपि लघुपूर्वात्>> ६.४.५६ इति णेरयादेशः स्यात्। व्याश्रयत्वादेवासिद्धत्वमत्र नास्ति। णावूत्त्वम् ण्यन्तस्य च ल्यप्ययादेश इति। अचीत्येव — निगोढा। निगोढुम्॥
गुह उपधाया ऊत्स्याद्गुणहेतावजादौ प्रत्यये । गूहति । गूहते । ऊदित्त्वादिड्वा । गूहिता । गौढा । गूहिष्यति । घोक्ष्यति । गूहेत् । गुह्यात् । अगूहीत् । इडभावे । क्सः । अघुक्षत् ॥
'गुहूँ' (संवरणे) इति भ्वादिगणस्य धातुः । अस्य धातोः अजादिप्रत्यये परे यदि उपधावर्णस्य (उकारस्य) गुणादेशं कृत्वा ओकारस्य प्रसक्तिः जायते, तर्हि तस्य गुणादेशस्य निषेधं कर्तुमस्य सूत्रस्य प्रयोगः भवति । अनेन सूत्रेण उकारस्य स्थाने दीर्घ-ऊकारस्य विधानं कृत्वा गुणादेशः निषिध्यते । यथा, गुह्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - गुह् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → गुह् + झि [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषबहुवचनस्य प्रत्ययः 'झि'] → गुह् + शप् + झि [<<कर्तरि शप्>> 3.1.68 इति शप्] → गूह् + अ + झि [अजादिप्रत्यये परे <<पुगन्तलघूपधस्य च>> 7.3.86 इत्यनेन गुह्-इत्यस्य उकारस्य गुणे प्राप्ते <<ऊदुपधाया गोहः>> 6.4.89 इत्यनेन तस्य अपवादत्वेन उकारस्य ऊकारादेशः भवति] → गूह् + अ + अन्ति [<<झोऽन्तः>> 7.1.3 इति अन्तादेशः] → गूहन्ति [<<अतो गुणे>> 6.1.97 इति पररूपः अकारः] अस्मिन् सूत्रे 'गोहः' अस्य ग्रहणम् एतत् ज्ञापयति यत् अस्य सूत्रस्य प्रयोगः तदा एव भवेत् अदा अजादिप्रत्ययः गुणं कारयितुम् समर्थः अस्ति । एवमस्ति चेदेव तस्य गुणादेशस्य बाधकरूपेण अनेन सूत्रेण ऊकारादेशः विधीयते । यदि गुह्-इत्यस्य उकारस्य गुणादेशः एव न प्रसज्यते, तर्हि अस्य सूत्रस्यापि प्रयोगः न भवतीति ज्ञातव्यम् । यथा, गु्ह्-धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् - गुह् + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्] → गुह् गुह् + ल् [<<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] → गु गुह् + ल् [<<हलादि शेषः>> 7.4.60 इति हकारलोपः] → जु गुह् + ल् [<<कुहोश्चुः>> 7.4.62 इति गकारस्य चवर्गादेशः जकारः] → जु गुह् + तस् [<<तिप्तस्..>> 3.4.78 इति तस् ] → जु गुह् + अतुस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति तस्-इत्यस्य अतुस्-आदेशः] → जुगुहतुः [अत्र 'अतुस्'-प्रत्ययस्य अकारः <<सार्वधातुकमपित्>> 1.2.4 इत्यनेन ङित्-अस्ति, अतः <<क्ङिति च>> 1.2.5 इत्यनेन सः गुणस्य निषेधं कारयति । अतः अत्र <<पुगन्तलघूपधस्य च>> 7.3.86 इत्यनेन गुणस्य प्रसक्तिः नास्ति । अतः अत्र <<ऊदुपधाया गोहः>> 6.4.89 इत्यनेन दीर्घादेशः अपि न भवति ।] ज्ञातव्यम् - 'ऊत्' इत्यत्र तकारः उच्चारणार्थः अस्ति ।
<<ऊदुपधाया गोहः>> - ऊदुपधायाः ।गोह॑इति कृतलघूपधगुणस्य गुहेर्निर्देशः । ततश्च गुणविषय एवेदं भवति । अचिश्नुधात्वित्यतोऽनुवृत्तस्य अचीत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषमत्वात्तदादिविधिः । तदाह — गुह उपधाया इत्यादिना । गुणहेताविति । गुणं प्रति परनिमित्तभूत इत्यर्थः । गुणापवादः । जुगूह । गुणहेताविति किम् । जुगुहतुः जुगुहुः । जुगुहे जुगुहाते जुगुहिरे । जुगूहिथ । जुगोढ । ढत्वधत्वष्टुत्वढलोपाः । जुगुहथुः जुगुह । जुगुहिषे — जुघुक्षे । ढत्वभष्भावकत्वषत्वानि । जुगुहाथे जुगुहिध्वे — जुगुढ्वे । जुगूह । जुगुहिव-जुगुह्व जुगुहिम — जुगुहृ । जुगुहे । जुगुवहिहे — जुगुह्वहे । जुगुहिमहे-जुगुहृहे । इति लिटि रूपाणि सिद्धवत्कृत्य लुटि इट्पक्षे ऊत्वे रूपमाह — गूहितेति । इडभावे अजादप्रत्ययाऽभावादूत्त्वाऽभावे गुणे ढत्वधत्वष्टुत्वलोपेषु रूपमाह — गोढेति । लृटि स्ये इट्पक्षे ऊत्त्वे रूपमाह — गूहिष्यतीति । इडभावे तु गुणढत्वभष्भावकत्वषत्वेषु रूपमाह — घोक्ष्यतीति । गूहिष्यते, घोक्ष्यते इत्यप्युदाहार्यम् । गूहतु । गूहताम् । अगूहत् । अगूह । गूहेदिति ।गूहेते॑त्यपि ज्ञेयम् । गुह्रादिति । आशीर्लिङि अजादिप्रत्ययाऽभावादूत्त्वं न । कित्त्वान्न गुणः । लुङि इट्पक्षे सिज्लोपे ऊत्त्वे रूपमाह — अगूहीदिति । अगूहिष्टामगूहिषुरित्यादि । इडभावे क्स इति । इगुपधशलन्तत्वादिति भावः । अघुक्षदिति । ढत्वभष्भावकत्वषत्वानि । अधुक्षतामघुक्षन्नित्यादि ।