अदोऽनन्ने

3-2-68 अदः अनन्ने प्रत्ययः परः च आद्युदात्तः च धातोः कृत् सुपि उपसर्गेटपि विट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

छन्दसीति निवृत्तम्। अदेर्धातोरनन्ने सुप्युपपदे विट् प्रत्ययो भवति। आममत्ति आमात्। सस्यात्। अनन्न इति किम्? अन्नादः॥

Siddhanta Kaumudi

Up

विट् स्यात् । आममत्ति आमात् । सस्यात् । अनन्ने किम् । अन्नादः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अदोऽनन्ने>> - अदोऽनन्ने । विट् स्यादिति । शेषपूरणमिदम् । अन्नशब्दभिन्ने सुप्युपपदे अदेर्विट् स्यादिति फलितम् ।जनसनखनक्रमगमो वि॑जिति छान्दससूत्राद्विडित्यनुवर्तते । सस्यादिति । सस्यमत्तीति विग्रहः । अन्नाद इति । कर्मण्यण् ।

Padamanjari

Up

अदोऽनन्ने॥ अन्नाद इति। भाषायामणेव भवति। च्छन्दसि त्वकारादनुपपदादित्यणि प्राप्ते पचाद्यजिष्यते, तेनान्नाद इत्यन्न इत्यन्न अद इत्यवग्रहो भवति॥