वा छन्दसि

6-1-106 वा छन्दसि संहितायाम् अचि एकः पूर्वपरयोः अकः दीर्घः पूर्वसवर्णः इचि दीर्घात् जसि च

Sampurna sutra

Up

छन्दसि - दीर्घात् जसि इचि प्रथमयोः पूर्वसवर्णदीर्घः वा

Neelesh Sanskrit Brief

Up

<<दीर्घाज्जसि च>> 6.1.105 इत्यनेन उक्तः पूर्वसवर्णदीर्घनिषेधः वैदिकप्रक्रियायाम् विकल्प्यते ।

Neelesh English Brief

Up

The पूर्वसवर्णदीर्घनिषेध given by the sutra 'दीर्घाज्जसि च' is optional while deriving the Vedic forms.

Kashika

Up

दीर्घात् छन्दसि विषये जसि च इचि च परतो वा पूर्वसवर्णदीर्घो न भवति। मारुती॑॑श्च॑॑तस्रः (काठ० सं० ११.१०) पिण्डीः। मारुत्यश्चतस्रः पिण्ड्यः। वा॑॑रा॒ही उपा॒न॑॑हा (मै० सं० ४.४.६)। वाराह्यौ उपानह्यौ (लौ० गृ० ३.७)॥

Siddhanta Kaumudi

Up

दीर्घाज्जसि इचि च पूर्वसवर्णदीर्घो वा स्यात् । वाराही । वाराह्यौ । मानुषीरीळते विशः (मानु॑षीरीळते॒ विशः॑) । उत्तरसूत्रद्वयेऽपीदं वाक्यभेदेन संबध्यते । तेनामि पूर्वत्वं वा स्यात् । शमीं च शम्यं च । सूर्मं सुषिरामिव (सू॒र्मं॑ सुषि॒रामि॑व) । संप्रसारणाच्च <{SK330}> इति पूर्वरूपमपि वा । इज्यमानः । यज्यमानः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन सूत्रेण निर्दिष्टस्य पूर्वसवर्णदीर्घस्य <<दीर्घात् जसि च>> 6.1.105 इत्यनेन विहितः निषेधः वैदिकरूपेषु विकल्पेन एव भवति । इत्युक्ते, दीर्घवर्णात् जस्-प्रत्यये परे / प्रथमा-द्वितीययोः इच्-वर्णे परे <<दीर्घात् जसि च>> 6.1.105 इत्यनेन प्राप्त: निषेधः रूपसिद्ध्यर्थम् कुत्रचित् क्रियते, कुत्रचित् वा न क्रियते । यथा - मानुषीः ईळते विशः (ऋग्वेदः 5.8.3) इत्यत्र 'मानुषीः' इति मानुषीशब्दस्य प्रथमाबहुवचनस्य रूपम् अस्ति । एतत् रूपम् तदा एव सम्भवति यदा <<दीर्घाज्जसि च>> 6.1.105 इत्यनेन जस्-प्रत्यये परे उक्तः पूर्वसवर्णनिषेधः न प्रवर्तते — मानुषी + जस् →‌ मानुषी + अस् [इत्संज्ञालोपः] → मानुषीस् [<<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन प्राप्तं पूर्वसवर्णस्य <<दीर्घाज्जसि च>> 6.1.105 इत्यनेन प्राप्तः निषेधः वैदिकरूपसिद्ध्यर्थम् <<वा छन्दसि>> 6.1.106 इत्यनेन पक्षे न भवति । अतः अत्र <<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे कृते एव रूपं सिद्ध्यति । → मानुषीः [रुत्वविसर्गौ] अग्रिमसूत्रयोः अपि विकल्पः <<अमि पूर्वः>> 6.1.107 तथा <<समप्रसारणाच्च>> 6.1.108 एतयोः अग्रिमसूत्रयोः अपि <<वा छन्दसि>> 6.1.106 इत्यस्य अनुवृत्तिं कृत्वा एतयोः सूत्रयोः विषये अपि वैदिकरूपसिद्ध्यर्थम् तत्तत्कार्यस्य विकल्पः विधीयते । यथा — 1) गौरीं च गौर्यं च (ऋग्वेदः 10.126.8) - इत्यत्र 'गौरी' शब्दस्य प्रथमाद्विवचनस्य अम्-प्रत्यये परे <<अमि पूर्वः>> 6.1.107 इत्यनेन प्राप्तम् पूर्वरूपम् विकल्प्यते, येन पक्षे <<इको यणचि>> 6.1.77 इति यणादेशं कृत्वा 'गौर्यम्' इति रूपम्, पक्षे च <<अमि पूर्वः>> 6.1.107 इत्यनेन पूर्वरूपं कृत्वा 'गौरीम्' इत्यपि रूपं सिद्ध्यति । 2) एवैनं देवतेज्यमाना भूत्या... (तैत्तिरीयसंहिता 2.5.4.5) - इत्यत्र विद्यमानः 'इज्यमानः' इति शब्दः यज्-धातोः कर्मणि-शानच्-प्रत्ययान्तरूपम् अस्ति । अस्य प्रक्रियायाम् यज्-धातोः यकारस्य सम्प्रसारणे कृते, ततः <<सम्प्रसारणाच्च>> 6.1.108 इत्यनेन प्राप्तम् पूर्वरूपम् वैदिकप्रक्रियायां विकल्प्यते, अतः पूर्वरूपस्य स्थाने पुनः यणादेशं कृत्वा यकारघटितम् 'यज्यमान' इति रूपं सिद्ध्यति । प्रक्रिया इयम् — यज् + लट् [<<वर्त्तमाने लट्>> 3.2.123 इति लट्] → यज् + यक् + शानच् [<<लटः शतृशानचावप्रथमासमानाधिकरणे>> 3.2.124 इति शानच्-प्रत्ययः । <<सार्वधातुके यक्>> 3.1.67 इति यक्] → यज् + य + मुक् + आन [<<आने मुक्>> 7.2.82 इति अङ्गस्य मुक्-आगमः] → इ अज् + य + म् + आन [<<वचिस्वपियजादीनां किति>> 6.1.15 इति यकारस्य सम्प्रसारणम् इकारः] → यज् + य + म् + आन [<<सम्प्रसारणाच्च>> 6.1.108 इत्यनेन पूर्वरूपे प्राप्ते, वेदेषु <<वा छन्दसि>> 6.1.106 इति विकल्पः । अतः इकार-अकारयोः <<इको यणचि>> 6.1.77 इत्यनेन यणादेशं कृत्वा पुनः 'य' इति सिद्ध्यति ।] → यज्यमानः । पक्षे <<सम्प्रसारणाच्च>> 6.1.108 इत्यनेन पूर्वरूपैकादेशे कृते 'इज्यमान' इति रूपं अपि वेदेषु दृश्यते एव ।

Balamanorama

Up

Padamanjari

Up

मारुतीरिति। मरुतो देवता आसामिति'सास्य देवता' इत्यण्, ङीप्, जसि पूर्वसवर्णदीर्घत्वम्। वाराहीति। वराहस्य विकार इति ठवयवे च प्राण्योषधिवृक्षेभ्यःऽ इति'प्राणिरजतादिभ्यो' ञ्ऽ, ङीप्, द्विवंचने पूर्वसवर्णदीर्घः। उपानहौ विशेष्ये ॥