5-2-55 त्रेः सम्प्रसारणं च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा सङ्ख्यायाः तस्य पूरणे तीयः
index: 5.2.55 sutra: त्रेः सम्प्रसारणम् च
'तस्य पूरणे' (इति) त्रेः तीयः, सम्प्रसारणम् च
index: 5.2.55 sutra: त्रेः सम्प्रसारणम् च
षष्ठीसमर्थात् 'त्रि' शब्दात् 'पूरणः' इत्यस्मिन् अर्थे 'तीय' प्रत्ययः विधीयते, तथा च प्रक्रियायाम् 'त्रि' शब्दस्य सम्प्रसारणमपि भवति ।
index: 5.2.55 sutra: त्रेः सम्प्रसारणम् च
त्रिशब्दात् तीयः प्रत्ययः भवति तस्य पूरणे इत्येतद् विषये। डटोऽपवादः। तत्संनियोगेन त्रेः संप्रसारणं च भवति। त्रयाणाम् पूरणः तृतीयः। हलः (*6,4.2.) इति संप्रसारणस्य दीर्घत्वं न भवति। अणः इति तत्र अनुवर्तते ढ्रलोपे इत्यतः। पूर्वेण च णकारेण अण्ग्रहणं।
index: 5.2.55 sutra: त्रेः सम्प्रसारणम् च
तृतीयः ॥
index: 5.2.55 sutra: त्रेः सम्प्रसारणम् च
तृतीयः॥
index: 5.2.55 sutra: त्रेः सम्प्रसारणम् च
तस्य पूरणे डट् 5.2.48 अनेन सूत्रेण 'पूरणम्' अस्मिन् अर्थे सङ्ख्यावाचिभ्यः शब्देभ्यः औत्सर्गिकरूपेण 'डट्' प्रत्ययः विधीयते । अस्य अपवादरूपेण 'त्रि' शब्दात् 'तीय' इति प्रत्ययविधानम् वर्तमानसूत्रेण क्रियते । अस्मिन् प्रत्यये परे 'त्रि' शब्दस्य सम्प्रसारणमपि भवति । इत्युक्ते, 'त्रि' (= त् + र् + इ) इत्यत्र उपस्थितस्य रेफस्य इग्यणः सम्प्रसारणम् 1.1.45 इत्यनेन ऋकारादेशः भवति । प्रक्रिया इयम् -
त्रयाणां पूरणः
= त्रि + तीय [वर्तमानसूत्रेण पूरणे 'तीय' प्रत्ययः]
= त् + र् + इ + तीय
→ त् + ऋ + इ + तीय ['तीय' प्रत्ययस्य उपस्थितौ अङ्गस्य सम्प्रसारणम् । रेफस्य सम्प्रसारणम् ऋकारः ]
→ त् + ऋ + तीय [सम्प्रसारणाच्च 6.1.108 इति पूर्वरूपम्]
→ तृतीय
स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् 4.1.4 इत्यनेन टाप्-प्रत्यये कृते 'तृतीया' इति रूपं सिद्ध्यति ।
विशेषः - 'तृ + तीय' इत्यत्र वस्तुतः हलः 6.4.2 इत्यनेन अङ्गस्य दीर्घादेशः भवति यः न इष्यते । अस्य समाधानम् भाष्यकारः हलः 6.4.2 इत्यत्र द्वाभ्याम् प्रकाराभ्यां करोति -
(अ) हलः 6.4.2 अस्मिन् सूत्रे ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इत्यस्मात् 'अणः' इति अनुवृत्तिं स्वीकृत्य 'अण् वर्णस्यैव दीर्घादेशः भवति' इति अर्थविधानं कृत्वा ऋकारान्तस्य दीर्घस्य आपत्तेः निराकरणम् भवति - इति प्रथमः सिद्धान्तः ।
(आ) द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् 2.2.3 इत्यत्र 'तृतीय' शब्दस्य ग्रहणेन 'त्रयाणां पूरणम्' अस्यां प्रक्रियायाम् निपातनेन हलः 6.4.2 इति सूत्रमेव न स्वीकर्तव्यम् - इति द्वितीयः सिद्धान्तः ।
index: 5.2.55 sutra: त्रेः सम्प्रसारणम् च
त्रेः सम्प्रसारणम् च - त्रेः संप्रसारणं च । त्रेस्तीयः स्यात्प्रकृतेः सम्प्रसारणं चेत्यर्थः । तृतीय इति । त्रयाणां पूरण इति विग्रहः । तीयप्रत्यये सति रेफस्य सम्प्रसारणमृकारः ।सम्प्रसारयणाच्चे॑ति पूर्वरूपम् । 'हलः' इति दीर्घस्तु न भवति, 'ढ्रलोपे' इत्यतोऽण इत्यनुवृत्तेः ।
index: 5.2.55 sutra: त्रेः सम्प्रसारणम् च
अण इति तत्रानुवर्तत इति।'ढ्रलोपे पूर्वस्य दीर्घो' णःऽ इत्यतः। एवमपि यदि परेण णकारेण प्रत्याहारः स्यात्पुनरपि स्यादेव दीर्गः, स तु न तथा? इत्याह - पूर्वेणोति। एतच्च'लण्' इत्यत्रैव प्रतिपादितम्।'त्रेस्तृ च' इति नोक्तम्, प्रत्ययो मा विज्ञायीति ॥ विंशत्यादिभ्यस्तमडन्यतरस्याम् ॥ विंशत्यादिभ्यः परस्येति। कथं पुनः'द्वेस्तीयः' इति तीयप्रत्ययेन सत्यं डट्प्रत्ययो विच्छिन्नः; पूरणार्थस्तु न विच्छिन्नः, सोऽनुवर्तेते, तेन पूरणे यो विहितः स आगमी विज्ञायते। न च डटोऽन्यो विंशत्यादिभ्यः पूरणे विहितोऽस्ति। कः पुनः पङ्क्त्यादिसूत्रनिर्द्दिष्टानां ग्रहणे सति दोषः ? तत्राह - तद्ग्रहणे हीति। स्यादेतत् - तदन्तविधिना एकविंशतिप्रभृतिभ्योऽपि भविष्यतीति ? तत्राह - ग्रहणवतेति। ननु यदयं'षष्ट।लदेश्चासंख्यादेः' इत्याह, तज्ज्ञापयति - भवति पूरणप्रकरणे तदन्तविधिरिति। तेनैकविंशतिप्रभृतिभ्योऽपि भविष्यति। अत्स्तवेतत्, केवलेभ्यस्तु न स्यात्, अतदन्तत्वात्। व्यपदेशिवद्भावेन भविष्यति,'व्यपदेशिवद्भावो' प्रातिपदिकेनऽ। एवं चेत्यादि। लौकिकानां विंशत्यादीनां यदीदं ग्रहणम्, तदा'षष्ट।लदेश्च' इत्यत्रापि लौकिकानामेव षष्ट।लदीनां ग्रहणम्, ततश्चैकषष्टिप्रभृतिभ्यो नित्यस्य तमटः प्रसङ्गे ठसंख्यादेःऽ इति पर्युदासो युज्यत एव, न कथञ्चिन्न युज्यते; अनिष्टलेशस्याभावात्। सूत्रसन्निविष्टानां तु ग्रहणे तदन्तविधैज्ञापनार्थं पर्युदासो युज्यते। केवलं न तु युज्यत एव, केवलानामप्रसङ्गादिति तावद्वृतेरर्थः। यथा तु भाष्यं तथा सूत्रसंनिविष्टानां ग्रहणम्, ज्ञापनाच्च तदन्तविधिरिति स्थितम्। न च केवलानामप्रसङ्गस्तदन्तानामपि भवतीति ज्ञापनशरीरम्, न तु तदन्तानामेव भवतीति। यदि वा यत्र प्रातिपदिकस्य श्रुतिरस्ति -'ग्रहणवता प्रातिपदिकेन' , व्यपदेशिवद्भावोऽप्रातिपदिकेनऽ इति, तदुभयमपि न प्रवर्तते इति सामान्येन ज्ञापनम्। एवं च कृत्वेदमपि सिद्धं भवतिएकान्नविंशतेः पूरणः एकान्नविंशतितम इति। भवति ह्यएतत्सूत्रसन्निविष्टविंशत्यन्तं संख्यादि संख्यावाचि च। लौकिकानां तु ग्रहणे नैतत्सिध्यति; विंशतेः प्राग्भावित्वादस्यास्संख्यायाः ॥