अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि

4-1-22 अपरिमाणबिस्ताचितकम्बल्येभ्यः न तद्धितलुकि प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् अनुपसर्जनात् द्विगोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

यस्य तद्धितार्थ-द्विगुसमासस्य उत्तरपदम् परिमाणवाचकशब्दः नास्ति, अथवा 'बिस्त', 'आचित', 'कम्बल्य' एतेषु कश्चन परिमाणवाचकः शब्दः अस्ति; तस्य विषये तद्धितप्रत्ययस्य लुकि कृते स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न विधीयते ।

Kashika

Up

पूर्वेण ङीप् प्राप्तः प्रतिषिध्यते। अपरिमाणान्ताद् द्विगोर्बिस्ताचितकम्बल्यान्तात् च तद्धितलुकि सति ङीप् प्रत्ययो न भवति। बिस्तादीनां परिमाणार्थं ग्रहणम्। सर्वतो मानं परिमाणम्। अपरिमाणान्तात् तावत् — पञ्चभिरश्वैः क्रीता पञ्चाश्वा। दशाश्वा। कालः संख्या च न परिमाणम्। द्विवर्षा। त्रिवर्षा। द्वाभ्यां शताभ्यां क्रीता द्विशता। त्रिशता। बिस्तादिभ्यः — द्विबिस्ता। त्रिबिस्ता। द्व्याचिता। त्र्याचिता। द्विकम्बल्या। त्रिकम्बल्या। अपरिमाणेति किम्? द्व्याढकी। त्र्याढकी। तद्धितलुकीति किम्? समाहारे — पञ्चाश्वी। दशाश्वी॥

Siddhanta Kaumudi

Up

अपरिमाणान्ताद्बिस्ताद्यन्ताच्च द्विगोर्ङीप् न स्यात्तद्धितलुकि सति । पञ्चभिरश्वैः क्रीता पञ्चाश्वा । आर्हीयष्ठक् । अध्यर्ध <{SK1693}> इति लुक् । द्वौ बिस्तौ पचति द्विबिस्ता । द्व्याचिता । द्विकम्बल्या । परिमाणान्तात्तु द्व्याढकी । तद्धितलुकि किम् ? समाहारे पञ्चाश्वी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण निषिध्यते । तद्धितार्थद्विगुसमासेन निर्मितात् समस्तपदात् स्त्रीत्वं द्योतयितुम् <<द्विगोः>> 4.1.21 इति सूत्रेण ङीप्-प्रत्यये प्राप्ते; यदि तस्य समासस्य उत्तरपदं परिमाणवाचकशब्दः नास्ति, अथ वा बिस्त, आचित, तथा च कम्बल्य एतेषु कश्चन परिमाणवाचकशब्दः अस्ति, तत्र तद्धितप्रत्ययस्य लुक् भवति चेत् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति — इति वर्तमानसूत्रस्य आशयः । 1. परिमीयते (सर्वतः मीयते) अनेन इति परिमाणम् । standard unit of measurement इत्यर्थः । पुरा प्रचलितानि परिमाणानि एतादृशानि — मासा, अक्ष, कर्ष, पल, सुवर्ण, बिस्त, कुरुबिस्त, तुला, भार, आचित, कार्षापण, कार्षिक, पण, आढक, द्रोण, खारी, वाह, निकुञ्च, कुडव, प्रस्थ, पाद, अंश, भाग, वंटक । एतेषां परस्परसम्बन्धः अमरकोशे वैश्यवर्गे 2.9.85 तः 2.9.89 इत्यत्र निर्दिष्टः वर्तते । एतान् विहाय अन्यानि अपि कानिचन परिमाणवाचकानि पदानि (यथा, शम, दिण्डि, वितस्ति, कम्बल्य — आदीनि) व्यवहारे प्रचलितानि आसन् । 2. न हि सर्वे प्रमाणवाचकशब्दाः परिमाणवाचकाः । Not all things which are used for measurement are considered as standard-units of measurement. यथा, 'गज' इति शब्दः अपि प्रमाणरूपेण प्रयुक्तः दृश्यते (द्वौ गजौ प्रमाणम् अस्याः नद्याः = This river is as deep as two elephants), परन्तु अयम् परिमाणवाचकशब्दः न । एवमेव, काण्ड, पुरुष आदयः शब्दाः अपि ज्ञेयाः । प्रकृत सूत्रे विद्यमानयोः द्वयोः विषययोः क्रमेण विवरणम् एतादृशम् — 1. यस्य द्विगुसमासस्य उत्तरपदम् परिमाणवाचकशब्दं विहाय कश्चन अन्यः शब्दः अस्ति, तस्मात् द्विगुसमासात् तद्धितप्रत्ययस्य लुकि कृते स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति । उदाहरणानि एतानि — (i) पञ्चभिः अश्वैः क्रीता इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> 2.1.52 इत्यनेन द्विगुसमासे कृते ततः <<तेन क्रीतम्>> 5.1.37 इत्यस्मिन् अर्थे <<आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्>> 5.1.19 इति सूत्रेण ठक्-प्रत्ययः भवति, तस्य च <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इत्यनेन लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् <<द्विगुश्च>> 2.1.23 इति ङीप्-प्रत्यये प्राप्ते; प्रकृतसूत्रेण सः निषिध्यते, यतः अत्र द्विगुसमासस्य उत्तरपदम् अश्व इति अपरिमाणवाची शब्दः अस्ति । अतः अत्र <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्यये कृते पञ्च + अश्व + टाप् → पञ्चाश्वा इति शब्द सिद्ध्यति । (ii) संख्यावाचकशब्दाः अपि परिमाणवाचिनः न सन्ति, अतः द्वौ शतौ अवहरति इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> 2.1.52 इति द्विगुसमासः भवति; ततः <<सम्भवत्यवहरति पचति>> 5.1.52 इत्यस्मिन् अर्थे <<पणपादमाषशताद्यत्>> 5.1.34 इत्यनेन यत्-प्रत्यये कृते <<शाणाद्वा>> 5.1.35 इत्यत्र पाठितेन <!शताच् चेति वक्तव्यम्!> इति वार्त्तिकेन सः विकल्प्यते, अतः पक्षे <<संख्याया अतिशदन्तायाः कन्>> 5.1.22 इत्यनेन कन्-प्रत्ययः भवति, तस्य च <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इत्यनेन लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् <<द्विगोः>> 4.1.21 इति ङीप्-प्रत्यये प्राप्ते प्रकृतसूत्रेण सः निषिध्यते, अतश्च <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्यये कृते द्वि + शत + टाप् →‌ द्विशता इति शब्द सिद्ध्यति । (iii) कालवाचकशब्दाः अपि परिमाणवाचिनः न सन्ति, अतः द्वे वर्षे भूते इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> 2.1.52 इति द्विगुसमासः भवति; ततः <<तमधीष्टो भृतो भूतो भावी >> 5.1.52 इत्यस्मिन् अर्थे ठञ्-प्रत्यये कृते तस्य <<वर्षाल्लुक् च>> 5.1.88 इत्यनेन पाक्षिकः लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् <<द्विगोः>> 4.1.21इति ङीप्-प्रत्यये प्राप्ते प्रकृतसूत्रेण सः निषिध्यते, अतश्च <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्यये कृते द्वि + वर्ष + टाप् →‌ द्विवर्षा इति शब्द सिद्ध्यति । (iv) द्वौ वर्षौ प्रमाणम् अस्याः इत्यत्र द्विगुसमासः, ततः <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> 5.2.37 इत्यनेन मात्रच्-प्रत्ययः, तस्य च <!प्रमाणे ल वक्तव्यः!> इति वार्त्तिकेन लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् <<द्विगोः>> 4.1.21 इति ङीप्-प्रत्यये प्राप्ते प्रकृतसूत्रेण सः निषिध्यते, अतश्च <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्यये कृते द्वि + वर्ष + टाप् →‌ द्विवर्षा इति शब्द सिद्ध्यति । 2. यस्य द्विगुसमासस्य उत्तरपदम् बिस्त, आचित, कम्बल्य एतेभ्यः कश्चन परिमाणवाचकः शब्दः अस्ति, तस्मात् द्विगुसमासात् तद्धितप्रत्ययस्य लुकि कृते स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति । उदाहरणानि एतानि — (i) द्वाभ्यां बिस्ताभ्या क्रीतम् इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> 2.1.52 इत्यनेन द्विगुसमासे कृते ततः <<तेन क्रीतम्>> 5.1.37 इत्यस्मिन् अर्थे <<प्राग्वतेष्ठञ्>> 5.1.18 इति सूत्रेण ठञ्-प्रत्ययः भवति, तस्य च <<बिस्ताच्च>> 5.1.31 इत्यनेन वैकल्पिकः लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् <<द्विगोः>> 4.1.21 इति ङीप्-प्रत्यये प्राप्ते; प्रकृतसूत्रेण सः निषिध्यते, यतः अत्र द्विगुसमासस्य उत्तरपदम् बिस्त इति शब्दः अस्ति । अतः अत्र <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्यये कृते द्वि + बिस्त + टाप् → द्विबिस्ता इति शब्द सिद्ध्यति । (ii) द्वौ आचितौ पचति इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> 2.1.52 इत्यनेन द्विगुसमासे कृते ततः<<सम्भवत्यवहरति पचति>> 5.1.52 इत्यस्मिन् अर्थे <<प्राग्वतेष्ठञ्>> 5.1.18 इति सूत्रेण ठञ्-प्रत्ययः भवति, तस्य च <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इत्यनेन लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् <<द्विगोः>> 4.1.21 इति ङीप्-प्रत्यये प्राप्ते; प्रकृतसूत्रेण सः निषिध्यते, यतः अत्र द्विगुसमासस्य उत्तरपदम् आचित इति शब्दः अस्ति । अतः अत्र <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्यये कृते द्वि + आचित + टाप् → द्व्याचिता इति शब्द सिद्ध्यति । (iii) द्वाभ्यां कम्बल्याभ्यां क्रीतम् इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> 2.1.52 इत्यनेन द्विगुसमासे कृते ततः <<तेन क्रीतम्>> 5.1.37 इत्यस्मिन् अर्थे <<प्राग्वतेष्ठञ्>> 5.1.18 इति सूत्रेण ठञ्-प्रत्ययः भवति, तस्य च <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इत्यनेन लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् <<द्विगोः>> 4.1.21 इति ङीप्-प्रत्यये प्राप्ते; प्रकृतसूत्रेण सः निषिध्यते, यतः अत्र द्विगुसमासस्य उत्तरपदम् कम्बल्य इति शब्दः अस्ति । अतः अत्र <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्यये कृते द्वि + कम्बल्या + टाप् → द्विकम्बल्या इति शब्द सिद्ध्यति । बिस्त इत्यस्य स्थाने बहुत्र विस्त इति वकारघटितः प्रयोगः अपि दृश्यते । दलकृत्यम् 1. अपरिमाणबिस्ताचितकम्बल्येभ्यः इति किमर्थम् ? यदि बिस्तादिभिन्नः कश्चन परिमाणवाची शब्दः द्विगुसमासस्य उत्तरपदरूपेण विद्यते; तर्हि तत्र तद्धितप्रत्ययस्य लुकि कृते अपि प्रकृतसूत्रेण उक्तः निषेधः नैव प्रवर्तते; अतः <<द्विगोः>> 4.1.21 इत्यनेन ङीप्-प्रत्ययः अवश्यं भवति । यथा, आढक इत्यस्य परिमाणवाचकशब्दस्य विषये प्रकृतसूत्रं नैव प्रवर्तते । अतएव, द्वाभ्याम् आढकाभ्यां क्रीतम् इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> 2.1.52 इत्यनेन द्विगुसमासे कृते ततः <<तेन क्रीतम्>> 5.1.37 इत्यस्मिन् अर्थे <<प्राग्वतेष्ठञ्>> 5.1.18 इति सूत्रेण ठञ्-प्रत्ययः भवति, तस्य च <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इत्यनेन लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् <<द्विगोः>> 4.1.21 इति ङीप्-प्रत्ययः अवश्यं भवति, येन द्वि + आढक + ङीप् → द्व्याढकी इति शब्द सिद्ध्यति । 2. तद्धितार्थद्विगुः इति किमर्थम् ? यदि अत्र तद्धितार्थद्विगुसमासः नास्ति तर्हि प्रकृतसूत्रेण उक्तः निषेधः अत्र नैव प्रवर्तते । यथा, पञ्चानाम् अश्वानां समाहारः इत्यत्र पञ्च + अश्व इति समाहारद्विगुसमासे कृते तत्र <!अकारान्तोदत्तरपदो द्विगुः स्त्रियां भाषते!> इति वार्त्तिकेन नित्यं स्त्रीलिङ्गमेव इष्यते । अस्यां स्थितौ अत्र 'तद्धितार्थद्विगुसमासः नास्ति अपितु समाहारद्विगुसमासः अस्ति' इति कारणात् <<द्विगोः>> 4.1.21 इत्यनेन ङीप्-प्रत्ययः अवश्यं भवति, येन पञ्च + अश्व + ङीप् → पञ्चाश्वी इति शब्दः सिद्ध्यति । 3. तद्धितलुकि इति किमर्थम् ? तद्धितार्थद्विगुसमासस्य विषये यदि तद्धितप्रत्यय लुक् नैव सम्भवति, तर्हि तत्र समस्तपदस्य अन्ते विद्यमानम् तद्धितप्रत्ययम् अनुसृत्य एव उचितः स्त्रीप्रत्ययः विधीयते । इत्युक्ते, तत्र <<द्विगोः>> 4.1.21 इत्यस्यैव प्रसक्तिः नास्ति, अतः तत्र प्रकृतसूत्रेण कृतः बाधः अपि न प्रवर्तते । यथा, द्वौ आचितौ पचति इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> 2.1.52 इत्यनेन द्विगुसमासे कृते ततः<<सम्भवत्यवहरति पचति>> 5.1.52 इत्यस्मिन् अर्थे <<द्विगोः ष्ठंश्च>> 5.1.54 इति सूत्रेण वैकल्पिके ख-प्रत्यये कृते तत्र प्रत्ययस्य विधानसामर्थ्यात् तस्य लुक् नैव भवति; अतः अस्यां स्थितौ स्त्रीत्वं द्योतयितुम् <<द्विगोः>> 4.1.21 इति सूत्रं नैव प्रवर्तते; अपितु <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्यये कृते द्वि + आचित + ख + ङीप् → द्व्याचितीना इत्येव शब्द सिद्ध्यति । बाध्यबाधकभावः 1. काण्ड इति शब्दः परिमाणवाची नास्ति, अतः तस्य विषये तद्धितार्थद्विगुसमासे तद्धितलुकि सति प्रकृतसूत्रेण ङीप्-प्रत्ययस्य निषेधे प्राप्ते, <<काण्डान्तात् क्षेत्रे>> 4.1.23 इति अग्रिमसूत्रेण सः नियम्यते । यदि समस्तपदेन क्षेत्रस्य निर्देशः भवति, तर्हि एव एतादृशः ङीप्-प्रत्ययनिषेधः भवेत्, अन्येषु स्थलेषु तद्धितलुकि सति अपि ङीप्-प्रत्ययनिषेधः नैव स्यात् (इत्युक्ते, ङीप्-प्रत्ययः अवश्यं भवेत्) — इति <<काण्डान्तात् क्षेत्रे>> 4.1.23 सूत्रस्य आशयः । 2. प्रमाणवाची पुरुषः इति शब्दः परिमाणवाची नास्ति, अतः तस्य विषये तद्धितार्थद्विगुसमासे तद्धितलुकि सति प्रकृतसूत्रेण ङीप्-प्रत्ययस्य निषेधे प्राप्ते, <<पुरुषात् प्रमाणेऽन्यतरस्याम्>> 4.1.24 इति सूत्रेण सः विकल्प्यते; अतः ङीप्-प्रत्यये कृते, तथा च ङीप्-प्रत्ययस्य निषेधे (टाप्-प्रत्यये कृते) — उभयथा रूपं सिद्ध्यति ।

Balamanorama

Up

<<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> - तदाह-अपरिमाणान्तादित्यादिना । अपरिमाणान्तमुदाहरति-पञ्चभिरिति । तद्धितलुकं दर्शयति-आर्हीयष्ठक्, अध्यर्धेति लुगिति । पञ्चभिरऔः क्रीतेति विग्रहे 'तद्धितार्थ' इति द्विगुः ।आर्हादगोपुच्छसङ्ख्यापरिमाणाट्ठ॑गित्यधिकारेतेन क्रीत॑मिति ठक्,अध्यर्धपूर्वाद्द्विगोर्लुगसंज्ञाया॑मिति तस्य लुक् । अत्र 'द्विगोः' इति ङीप् न भवति, अपरिमाणान्तद्विगुत्वात् । नन्वत्रद्विगो॑रिति प्राप्तङीब्निषेधेऽपिटिड्ढाण॑ञिति ठग्निमित्तको ङीब् दुर्वारः । द्वाभ्यां शताभ्यां क्रीता द्विशतेत्यत्रसङ्ख्याया अतिशदन्तायाः॑ इति कनःअध्यर्धे॑ति लुकिअपरिमाणे॑ति निषेधस्य चरितार्थत्वादिति चेत्सत्यम्,टिड्ढाण॑ञित्यत्र प्रत्यासत्त्या टिड्ढाणञादीनां यो ।ञकारस्तदन्तमिति विवक्षितम् । पञ्चाआशब्दश्चायं ठगवयवाकारान्तो न भवतीति न दोषः । नच प्रत्ययलक्षणेन ठगवयवाकारान्तत्वं शङ्क्यं, वर्णाश्रये प्रत्ययलक्षणाऽभावात् । विस्तादिशब्दानां तु परिमाणविशेषवाचित्वात्अपरिमाणे॑त्यनेनाऽप्राप्तेः पृथगुपादानम् । द्वौ बिस्ताविति ।सुवर्णबिस्तौ हेम्नोऽक्षे॑ इत्यमरः ।गुञ्जाः पञ्च-आद्यमाषकः । ते षोडश अक्ष इति च । गुञ्जापञ्चकं माषपरिम#आणम् । माषषोडशकमक्षपरिमाणम्, तच्च अशीतिगुञ्जात्मकम् तस्मिन् हेमविषये अक्षपरिमाणे सुवर्णबिस्तशब्दावित्यर्थः । द्वौ बिस्तौ पचतीति विग्रहे 'तद्धितार्थ' इति द्विगुः ।सम्भवत्यवहरतिपचती॑ति ठक्, तस्य 'अध्यर्धे' ति लुक् ।द्विगो॑रिति ङीपि प्रितषिद्धे सति टापि-॒द्विबिस्ता मूषा॑ । द्विबिस्त परिमाणकहिरण्यं द्वावयतीत्यर्थः । पचिरिह द्रावणे द्रष्टव्यः । द्व्याचितेति । 'आचितो दश भाराः' इत्यमरः ।तुला स्त्रियां पलशतं भारः स्यादिंवशतिः पुमा॑निति च । द्वावाचितौ वहतीत्यर्थेआढकाचिढपात्रात्खोऽन्यतरस्याम्द्विगोष्ठं श्च॑ इति खठनोरभावे प्राग्वतीयष्ठञ् ।अध्यर्धे॑ति तस्य लुक् । अनेन 'द्विगोः' इति ङीपि निषिद्धे टापि-॒द्व्याचिता शकटी॑ । द्विकम्बल्येति । कम्बलस्य प्रकृतिभूतं द्रव्यं कम्बल्यम् ऊर्णापलशतं ।तदर्थं विकृतेः प्रकृतौ॑ इत्यर्थेकम्बलाच्च संज्ञाया॑मिति यत् । द्वाभ्यां कम्बल्याब्यां क्रीतेति विग्रहेतेन क्रीत॑मिति ठञःअध्यर्द्धे॑ति लुक्,द्विगो॑रिति ङीपि अनेन प्रतिषिध्दे टाप् । नन्वत्र ।न तद्दितलुकी॑त्येवास्तु । तावतैव पञ्चभिरऔः क्रीता पञ्चाओति सिद्धेःअपरिमाणे॑ति मास्तु । एवंच द्विबिस्ता द्व्याचिता द्विकम्बल्येत्यपि सिद्धे विस्तादिग्रहणमपि मास्त्वित्यत आह — परिमाणान्तात्त्विति ।गुञ्जाः पञ्च तु माषः स्यात्ते सुवर्णस्तु षोडश । पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम्॥ पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् । चतुर्भिः कुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः॥॑ इति स्मृतिः । द्वावाढकौ पचतीति विग्रहेआढकाचितपात्रात्खोऽन्यतरस्यां॒॑द्विगोष्ठंश्चे॑ति खठनोरभावे प्राग्वतीयष्ठञ् ।अध्यर्धे॑ति लुक् । 'द्विगोः' इति ङीप् । द्व्याढकीति रूपम् ।न तद्धितलुकी॑त्येवावत्येवोक्तेऽत्रापि ङीपो निषेधः स्यात् । अतोऽपरिमाणान्न तद्धितलुकीति वक्तव्यम् । तावत्युक्ते द्विबिस्तेत्यादौ परिमाणत्वान्ङीब्निषेधो न स्यात् । अतो बिस्तादिग्रहणमपीति ।

Padamanjari

Up

परसप्तमी त्वषा नोपपद्यते, अभावरूपेण लुका पौर्वापर्यासम्भवात् । सर्वतो मानं परिमाणमिति ।'परिमाणं तु सर्वतः' इत्यस्य ग्रहणम्, न परिच्छेदकमात्रस्येत्यर्थः । पञ्चमिश्वैः क्रीतेति । तद्धितार्थे द्विगुः, आर्हीयष्ठक् । कालः सङ्ख्या च न परिमाणमिति । न हि ताभ्यां सर्वत आरोहतः परिणाहतश्च मीयते । एवं च कालः सङ्ख्या चेति प्रदर्शनार्थत्वात्प्रमाणमपि परिमाणं न भवति, तथा चोतरसूत्रे'काण्डशब्दस्यापरिमाणवाचित्वात्' इति वक्ष्यति,'प्रमाणविशेषः काण्डम्' इति च । तेन द्वौ शमौ प्रमाणमस्या इति मात्रचः'प्रमाणे लो द्विगोर्नित्यम्' इति लुकि द्विशम्, त्रिशमेति भवति । यद्येवम्, उन्मानमपि परिमाणं न स्यात् ? कश्चिदाह - इष्टमेवैतत्, उन्मानमपि नैवात्र परिमाणग्रहणेन गृह्यते - द्वाभ्यां निष्काभ्यां क्रीता, प्राग्वतीयस्य ठञोः'द्वित्रिपूर्वान्निष्कात्' इति लुक्, द्विनिष्का त्रिनिष्वेति भवतीति । अपर आह - बिस्तकम्बल्यग्रहणं ज्ञापकम् - उन्मानमप्यत्र परिमाणग्रहणेन गृह्यत इति; तयोरुन्मानविशेषत्वात्, सुवर्णबिस्तौ हेस्नोऽक्षे,'कम्बलाच्च संज्ञायाम्' कम्बल्यमूर्णापलशतमिति । न्यासकारस्तु द्वौ विस्तौ परिमाणमस्येति विगृह्णन् बिस्तं परिमाणं मन्यते । द्विवर्षेति । कृतव्युत्पादनमेतत् । द्विशता, त्रिशतेति । द्वाभ्यां शताभ्यां क्रीतेति'पणपादमाषशताद्यत्' इति नित्ये यति प्राप्ते'शाणाद्वा' इत्यत्र'शताच्चेति वक्तव्यम्' इति वचनात्पक्षे'सङ्ख्याया अतिशदन्तायाः कन्' इति कन्, तस्य ठध्यर्धपूर्वात्ऽ इति लुक् । द्विबिस्तेति । परिमाणत्वे ठञो लुक्, उन्मानत्वे ठकः । द्व्याचितेति । आचितो दशभाराः स्युः । द्वावाचितौ पचति, ठाढकाचितपात्रात्खोन्यतरस्याम्ऽ,'द्विगोष्ठ्ंअश्च' इति पक्ष ठन्खौ, ताभ्यां मुक्ते प्राग्वतीयष्ठञ्, तस्य पूर्ववल्लुक् । द्विकम्बल्येति । क्रीतार्थे ठञो लुक् । द्व्याढकी द्व्याचितेत्यनेन तुल्यम् । पञ्चाश्वीति । समाहारे द्विगुः । इमौ द्वौ प्रतिषेधावुच्येते, तत्रैकः शक्योऽवक्तुम्, कथम् ? एवं वक्ष्यामि - परिमाणान्तातद्धितलुकीति, तन्नियमार्थं भविष्यति - परिमाणान्तादेव तद्धितलुकि ङीब् भवतीति, तेन द्व्याढकीत्यादौ च भविष्यति, पञ्चाश्वेत्यादौ च न भविष्यति, ततो बिस्ताचिकम्बल्येब्योनेति ? नैवं शक्यम् ; विपरीतोऽपि नियमः सम्भाव्येत - द्विकुडवी, पञ्चाढकी । पञ्चाश्वेत्यादौ तु व्यावर्तकाभावात्स्यादेव डीप् । तस्माद्यथान्यासमेवास्तु ॥