5-1-22 सङ्ख्यायाः अतिशदन्तायाः कन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक्
index: 5.1.22 sutra: संख्याया अतिशदन्तायाः कन्
आ-अर्हात् सङ्ख्यायाः अ-ति-शद्-अन्तायाः कन्
index: 5.1.22 sutra: संख्याया अतिशदन्तायाः कन्
यः सङ्ख्यावाची शब्दः 'ति' इत्यनेन उत 'शत्' इत्यनेन न समाप्यते, तस्मात् आर्हीय-प्रकरणे कन्-प्रत्ययः भवति ।
index: 5.1.22 sutra: संख्याया अतिशदन्तायाः कन्
आर्हातित्येव। सङ्ख्याया अत्यन्ताया अशदन्तायाश्च कन् प्रत्ययो भवति आर्हीयेषु अर्थेषु। ठञोऽपवादः। पञ्चभिः क्रीतः पञ्चकः पटः। बहुकः। गणकः। अतिशदन्तायाः इति किम्? साप्ततिकः। चात्वारिंशत्कः। अर्थवतस्तिशब्दस्य ग्रहणाड् डतेः पर्युदासो न भवति, कतिकः।
index: 5.1.22 sutra: संख्याया अतिशदन्तायाः कन्
संख्यायाः कन्स्यादार्हीयेऽर्थे न तु त्यन्तशदन्तायाः । पञ्चभिः क्रीतः पञ्चकः । बहुकः । त्यन्तायास्तु साप्ततिकः । शदन्तायाः । चात्वारिंत्कः ॥
index: 5.1.22 sutra: संख्याया अतिशदन्तायाः कन्
प्राग्वतेष्ठञ् 5.1.18 अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । तं बाधित्वा प्रायः सर्वेभ्यः शब्देभ्यः आर्हीय-अर्थेषु आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् 5.1.19 इत्यनेन ठक्-प्रत्ययः विधीयते । परन्तु ये शब्दाः सङ्ख्यावाचिनः परिमाणवाचिनः वा सन्ति, तेषां विषये आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् 5.1.19 इत्यस्य प्रसक्तिः नास्ति, अतः तेषाम् विषये सर्वेषु आर्हीय-अर्थेषु अपि औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । अयम् ठञ्-प्रत्ययः वर्तमानसूत्रेण विशिष्टानां सङ्ख्यावाचिशब्दानां विषये बाध्यते, तथा च तस्य स्थाने कन्-प्रत्ययः विधीयते ।
केषाम् विषये वर्तमानसूत्रेण कन्-प्रत्ययस्य विधानम् भवति? यस्य अन्ते 'ति' उत 'शत्' इति न विद्यते, तस्य विषये वर्तमानसूत्रेण कन्-प्रत्ययः भवति । यथा - पञ्चन्, सप्तन्, एकादशन् , शत, सहस्र - आदयः ।
उदाहरणम् - पञ्चभिः क्रीतम् = पञ्च + कन् → पञ्चक । सप्तभिः क्रीतम् = सप्त + कन् → सप्तक ।
स्मर्तव्यम् -
'ति' येषामन्ते अस्ति ते सङ्ख्यावाचिनः शब्दाः (सप्ततिः, अशीतिः, नवतिः आदयः) वर्तमानसूत्रेण कन्-प्रत्ययं न स्वीकुर्वन्ति, अतः तेभ्यः औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । सप्तत्या क्रीतम् = सप्तति + ठञ् → साप्ततिक । अस्मिन् विषये भाष्यकारः वदति - 'अर्थवतस्तिशब्दस्य ग्रहणम्' । इत्युक्ते, अनेन सूत्रेण केवलं तस्यैव 'ति'-शब्दान्तस्य ग्रहणम् भवति, यत्र विहितः 'ति' अयम् शब्दः स्वयमर्थपूर्णः अस्ति । कः अस्य अर्थः ? 'कति' शब्दम् स्वीकुर्मश्चेत् स्पष्टं भवेत् । 'कति' अयम् सङ्ख्यावाची शब्दः अस्ति, अस्य अन्ते अपि 'ति' इति विद्यते, अतः कति-शब्दात् वर्तमानसूत्रेण कन्-प्रत्ययः न जायेत - इति भासते । परन्तु 'कति' इत्यत्र उपस्थितः 'ति' शब्दः अर्थपूर्णः नास्ति (सः स्वयम् कमपि अर्थं न दर्शयति) अपितु 'डति' प्रत्ययस्य अंशः अस्ति । अस्यां स्थितौ वर्तमानसूत्रेण उक्तः 'अ-ति' इति प्रतिषेधः कति-सूत्रस्य विषये न विद्यते । अतः 'कति'शब्दस्य विषये वर्तमानसूत्रेण कन्-प्रत्ययः एव भवति । 'कतिभिः क्रीतम् कतिकम्' ।
'विंशति'शब्दस्य विषये वर्तमानसूत्रम् बाधित्वा विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् 5.1.24 इत्यनेन ड्वुन्-प्रत्ययः भवति । परन्तु संज्ञायाः विषये विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् 5.1.24 इत्यस्य प्रसक्तिः नास्ति, अतः तत्र वर्तमानसूत्रेण कन्-प्रत्ययः एव भवति । अस्मिन् विषये एतत् स्मर्तव्यम् यत् 'विंशति'शब्दस्य अन्ते यद्यपि 'ति' इति वर्तते, तथापि अस्य शब्दस्य विषये कन्-प्रत्ययः न निषिध्यते । किम् कारणमस्य? विंशतिकात्खः 5.1.32 इत्यत्र आचार्यः स्वयम् 'विंशतिक' इति कन्-प्रत्ययान्तशब्दस्य प्रयोगं करोति । एतदेव अस्य ज्ञापकम् यत् 'विंशति'शब्दस्य अन्ते 'ति' अस्ति तथापि तस्मात् कन्-प्रत्ययः एव करणीयः ।
'शत्' येषामन्ते अस्ति ते सङ्ख्यावाचिनः शब्दाः (यथा, चत्वारिंशत्, पञ्चाशत् - आदयः) अपि वर्तमानसूत्रेण कन्-प्रत्ययं न स्वीकुर्वन्ति, अतः तेभ्यः औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । चत्वारिंशता क्रीतम् = चत्वारिंशत् + ठञ् → चात्वारिंशत्क ।
त्रिंशत् शब्दस्य विषये अपि वर्तमानसूत्रम् बाधित्वा विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् 5.1.24 इत्यनेन ड्वुन्-प्रत्ययः भवति । परन्तु संज्ञायाः विषये विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् 5.1.24 इत्यस्य प्रसक्तिः नास्ति, अतः तत्र वर्तमानसूत्रेण कन्-प्रत्ययः एव भवति । अस्मिन् विषये अपि एतत् स्मर्तव्यम् यत् 'त्रिंशत्'शब्दस्य अन्ते यद्यपि 'शत्' इति वर्तते, तथापि अस्य शब्दस्य विषये कन्-प्रत्ययः न निषिध्यते । अस्य स्पष्टीकरणार्थम् विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् 5.1.24 इत्यत्र योगविभागं कृत्वा 'विंशतित्रिंशद्भ्याम्' इति भिन्नं सूत्रं परिकल्प्य तस्मिन् सूत्रे 'कन्' इत्यस्य अनुवृत्तिं कृत्वा 'विंशति-त्रिंशद्भ्याम् संज्ञायाम् कन्' इति सूत्रनिर्माणम् कर्तव्यम्, येन संज्ञाविषये 'विंशति'शब्दात् 'त्रिंशत्'शब्दात् च कन्-प्रत्ययः भवेत् - इति भाष्ये स्पष्टीकृतमस्ति ।
index: 5.1.22 sutra: संख्याया अतिशदन्तायाः कन्
संख्याया अतिशदन्तायाः कन् - सह्ख्यायाः । तिश्च शश्च तिशतौ, तौ अन्ते यस्याः सा तिशदन्ता, न तिशदन्ता अतिशदन्ता । द्वन्द्वगर्भबहुव्रीहिगर्भो नञ्तत्पुरुषः । साप्ततिक इति । सप्तत्या क्रीत इत्यर्थः ।तेन क्रीत॑मिति ठञ् । चात्वारिंशत्क इति । चत्वारिंशता क्रीत इत्यर्थः ।तेन क्रीत॑मिति ठञष्ठस्य तकारात्परत्वात्कः ।
index: 5.1.22 sutra: संख्याया अतिशदन्तायाः कन्
पञ्चकः पट इति। लौकिक्याः संख्याया उदाहरणम्। बहुक इति। पारिभाषिक्याः। चात्वारिशंत्क इति। ठिसुसुक्तान्तात्कःऽ। अर्थवतस्तिशब्दस्य ग्रहणादिति। अर्थवद्रग्रहणपरिभषया। डतेरिति। इत्यवयवस्य तिशब्दस्येत्यर्थः। पर्युदासो न भवतीति। न ह्यसावर्थवलान्। कतिक इति। का संख्या परिमाणं येषामिति'किमः संख्यापरिमाणे इति च' इतीतिः। सप्ततिशब्दे तु सप्तदशदर्थाभिधायिनः सप्तशब्दात्परिमाणोपाधिकादस्येति षष्ठयर्थे तिप्रत्ययो बवतीति तिशब्दोऽर्थवान्। एवं नवतिशब्दे। अशीतिशब्दे तु यद्यप्यशीशब्दस्याष्टस्वन्यत्र न दृष्टः प्रयोगः। शास्त्रो त्वेषा व्यवस्था - अष्टानामशीभावस्तिश्च प्रत्यय इति। विशतिशब्दे तु द्वयोर्दशतोर्विन्बावः शतीश्च प्रत्यय इति तिशब्दोऽनर्थक एव, ततश्च ततः कन् भवत्येव-विंशतिकः। एवं च कृत्वा'विशतिकात्खः शतमानविशतिकः' इति निर्द्देश उपपद्ते; किन्तु'विशतित्रिंशद्भयां ड्वुनसंज्ञायाम्' इत्यसंज्ञायां डुवुन्विधानात्संज्ञायामेव कन् भवति। ठतिशदन्तायाःऽ इत्यत्रान्तग्रहणमेकसप्तत्या क्रीतमित्यत्रापि पर्युदासार्थम्, अन्यथा प्रत्ययग्रहणपरिभाषया न स्यात् ॥