द्विगोः ष्ठंश्च

5-1-54 द्विगोः ष्ठन् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् तत् ःअरति वहति आवहति सम्भवति अवहरति पचति आढकाचितपात्रात्

Sampurna sutra

Up

'तत् सम्भवति , अवहरति, पचति' (इति) आढक-आचित-पात्रात् द्विगोः ष्ठन्, अन्यतरस्याम् खः च

Neelesh Sanskrit Brief

Up

सम्भवति, अवहरति, पचति - एतेषु अर्थेषु द्विगुसमासे विद्यमानेभ्यः द्वितीयासमर्थेभ्यः आढक / आचित / पात्र - एतेभ्यः शब्देभ्यः ष्ठन् प्रत्ययः भवति, तथा च विकल्पेन ख-प्रत्ययः अपि भवति ।

Kashika

Up

आढकाचितपात्रादित्येव। आढकाचितपात्रान्ताद् द्विगोः संभवत्यादिष्वर्थेषु ष्ठन् प्रत्ययो भवति, चकारात् खः, अन्यतरस्याम्। विधानसामर्थ्यादनयोर्लुग् न भवति। ठञस्तु पक्षेऽनुज्ञातस्य <<अध्यर्धपूर्वद्विगोः०>> ५.१.२८ इति लुग् भवत्येव। नकारः स्वरार्थः। षकारो ङीषर्थः। द्व्याढकिकी, द्व्याढकीना, द्व्याढकी। द्व्याचितिकी, द्व्याचितीना, द्व्याचिता। <<अपरिमाणबिस्ताचित०>> ४.१.२२ इति ङीपः प्रतिषेधः। द्विपात्रिकी, द्विपात्रीणा, द्विपात्री॥

Siddhanta Kaumudi

Up

आढकाचितपात्रात् इत्येव । आढकाद्यन्ताद्द्विगोः संभवत्यादिष्वर्थेषु ष्ठन्खौ वा स्तः । पक्षे ठञ् । तस्य अध्यर्ध-<{SK1693}> इति लुक् । षित्वान्ङीष् । द्व्याढकिकी । द्व्याढकीना । द्विगोः-<{SK479}> इति ङीप् । द्व्याढकी । द्व्याचितिकी । द्व्याचितीना । अपरिमाण-<{SK470}> इति ङीब्निषेधात् । द्व्याचिता । द्विपात्रिकी । द्विपात्रीणा । द्विपात्री ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

आढक (= unit of measuring grain ), आचित (= unit of measurement, equivalent to 10 भाराः ), पात्र (= vessel, unit of capacity) - एतानि सर्वाणि विशिष्टानि परिमाणानि । एते शब्दाः यदि द्विगुसमासस्य उत्तरपदे विद्यन्ते, तर्हि तादृशात् द्वितीयासमर्थात् प्रातिपदिकात् <<सम्भवत्यवहरति पचति>> 5.1.52 अस्मिन् अर्थे - [1] वर्तमानसूत्रेण ष्ठन्-प्रत्ययः भवति । [2] पक्षे ख-प्रत्ययः अपि विकल्पेन विधीयते । [3] पक्षे च औत्सर्गिकः ठञ्-प्रत्ययः अपि भवति, यस्य <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इति लुक् भवति । अत्र एकः विशेषः ज्ञातव्यः - वस्तुतः <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इत्यनेन तद्धितार्थद्विगुसमासानां विषये प्रत्ययस्य लुक् उच्यते । परन्तु अस्मिन् सूत्रे विशिष्टरूपेण द्विगोः विषये एव ष्ठन् तथा ख-प्रत्ययविधानम् कृतमस्ति; अतः विधानसामर्थ्यात् ष्ठन्-प्रत्ययस्य ख-प्रत्ययस्य च लुक् अत्र न भवति । पक्षे यः औत्सर्गिकः ठञ्-प्रत्ययः विधीयते, तस्य लुक् तु भवत्येव । उदाहरणानि क्रमेण पश्यामः । अस्य सूत्रस्य व्याख्यानेषु दत्तानि सर्वाणि उदाहरणानि तद्धितार्थद्विगुसमास्य विषये एव सन्ति । तानि एतादृशानि - [1] ष्ठन् -प्रत्ययः - अ) द्वौ आढकौ सम्भवति / अवहरति / पचति सः = द्वि + आढक + ष्ठन् → द्व्याढकिक । स्त्रीत्वे <<षिद्गौरादिभ्यश्च>> 4.1.41 इति ङीष् - द्व्याढकिकी । आ) त्रयः आचिताः सम्भवति / अवहरति / पचति सः = त्रि + आचित + ष्ठन् → त्र्याचितिक । स्त्रीत्वे ङीष् - त्र्यचितिकी । इ) पञ्च पात्राणि सम्भवति / अवहरति / पचति सः = पञ्च + पात्र + ष्ठन् → पञ्चपात्रिक । स्त्रीत्वे ङीष् - पञ्चपात्रिकी । [2] ख-प्रत्ययः - अ) द्वौ आढकौ सम्भवति / अवहरति / पचति सः = द्वि + आढक + ख → द्व्याढकीन । स्त्रीत्वे <<अजाद्यतष्टाप्>> 4.1.4 इति टाप् - द्व्याढकीना । आ) त्रयः आचिताः सम्भवति / अवहरति / पचति सः = त्रि + आचित + ख → त्र्याचितीन । स्त्रीत्वे टाप् - त्र्यचितीना । इ) पञ्च पात्राणि सम्भवति / अवहरति / पचति सः = पञ्च + पात्र + ख → पञ्चपात्रीण । स्त्रीत्वे टाप् -पञ्चपात्रीणा । [3] ठञ्-प्रत्ययः , तस्य च लुक् - अ) द्वौ आढकौ सम्भवति / अवहरति / पचति सः = द्वि + आढक + ठञ् → द्व्याढक [<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इति ठञ्-प्रत्ययस्य लुक्] । स्त्रीत्वे <<द्विगोः>> 4.1.21 इत्यनेन ङीप्-प्रत्ययः भवति - द्व्याढकी । आ) त्रयः अचिताः सम्भवति / अवहरति / पचति सः = त्रि + आचित + ठञ् → त्रि + आचित → त्र्याचित । स्त्रीत्वे <<द्विगोः>> 4.1.21 इत्यनेन ङीप्-प्रत्यये प्राप्ते <<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> 4.1.22 इति ङीप्-प्रत्ययः निषिध्यते, अतः अत्र <<अजाद्यतष्टाप्>> 4.1.4 इति टाप् एव भवति - त्र्याचिता । इ) पञ्च पात्राणि सम्भवति / अवहरति / पचति सः = पञ्च + पात्र + ठञ् → पञ्चपात्र । स्त्रीत्वे <<द्विगोः>> 4.1.21 इति ङीप् - पञ्चपात्री । ज्ञातव्यम् - अस्मिन् सूत्रे 'ष्ठन् + च' इत्यत्र एतादृशं सन्धिकार्यम् भवति - ष्ठन् + च → ष्ठरुँ + च [<<नश्छव्यप्रशान्>> 8.3.7 इति नकारस्य रुँत्वम्] → ष्ठंरुँ + च [<<अनुनासिकात् परोऽनुस्वारः>> 8.3.4 इति अनुस्वारः । एतत् सूत्रम् रुँत्वप्रकरणे एव विद्यते, अतः <<नश्छव्यप्रशान्>> 8.3.7 इत्यनेन विहितं नकारस्य रुँत्वमस्य कृते सिद्धमस्ति ।] → ष्ठंः + च [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 रुँ-इत्यस्य इति विसर्गः] → ष्ठंस् + च [<<विसर्जनीयस्य सः>> 8.3.34 इति विसर्गस्य सकारादेशः] → ष्ठंश् + च [<<स्तोः श्चुना श्चुः>> 8.4.40 इति श्चुत्वम्] → ष्ठंश्च

Balamanorama

Up

<<द्विगोष्ठंश्च>> - द्विगोः ष्ठंश्च । ष्ठन्खाविति । चकारेण खस्यानुकर्षादिति भावः । वा स्त इति । अन्यतरस्यामित्यनुवृत्तेरिति भावः । पक्षे ठञिति । 'आर्हात्' इत्यत्र परिमाणपर्युदासान्न ठगिति भावः । षित्त्वान्ङीष् । द्व्याढकिकीति । द्वे आढके सम्भवत्यवहरति पचति वेत्यर्थे 'तद्धितार्थ' इति द्विगुः, ष्ठन्, षित्त्वान्ङीष् । द्व्याढकिकीति । द्वे आढके सम्भवत्यवहरति पचति वेत्यर्थे 'तद्धितार्थ' इति द्विगुः, ष्ठन्, षित्त्वान्हीषित्यर्थः । अत्र 'न य्वाभ्याम्' इत्यैज्न, वृद्धिनिषेधसन्नियोगशिष्टत्वात्, ञ्णित्किदभावेन वृद्धेरप्रसक्तेः । द्व्याकढीनेति । खे रूपम् । द्विगोरिति ङीप् । द्व्याढकीति । ठञिअध्यर्थे॑ति तस्य लुक् । 'द्विगोः' इति ङीबित्यर्थः । प्रत्ययलक्षणमाश्रित्य ठञन्तलक्षणङीप्तु नेतिअपरिमाणविस्ते॑त्यत्रोक्तम् ।अध्यर्धे॑ति लुक्ठञ एव, नतु ष्ठन्खयोरपि, विधिसामर्थ्यात् । द्व्याचितिकी द्व्याचितीनेति । ष्ठनि खे च रूपम् । अथ द्व्याचितशब्दाट्ठञो लुकि द्विगोः॑ इति ङीपमाशङ्क्याह — अपरिमाणेति ङीब्निषेधादिति । [एवं ष्ठन् ख ठञ्लुग्भिः] द्विपात्रिकीत्यादि ।

Padamanjari

Up

द्व्याचितेति। ठञो लुक्, ठपरिमाणबिस्ताचितऽ इति ङीपः प्रतिषेधः ॥