पुरुषात् प्रमाणेऽन्यतरस्याम्

4-1-24 पुरुषात् प्रमाणे अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् अनुपसर्जनात् द्विगोः न तद्धितलुकि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

यस्य तद्धितार्थद्विगुसमासस्य उत्तरपदम् 'पुरुष' इति प्रमाणवाचकः शब्दः अस्ति, तस्मात् तद्धितप्रत्ययस्य लुकि कृते स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विकल्पेन निषिध्यते ।

Kashika

Up

द्विगोस्तद्धितलुकीत्येव। प्रमाणे यः पुरुषशब्दः, तदन्ताद् द्विगोस्तद्धितलुकि सत्यन्यतरस्यां न ङीप् प्रत्ययो भवति। द्वौ पुरुषौ प्रमाणमस्याः परिखायाः द्विपुरुषा, द्विपुरुषी। त्रिपुरुषा, त्रिपुरुषी। अपरिमाणान्तत्वाद् नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं वचनम्। प्रमाण इति किम्? द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा। त्रिपुरुषा। तद्धितलुकीत्येव — समाहारे — द्विपुरुषी, त्रिपुरुषी॥

Siddhanta Kaumudi

Up

प्रमाणे यः पुरुषस्तदन्ताद्द्विगोर्ङीप् वा स्यात्तद्धितलुकि । द्वौ पुरुषौ प्रमाणमस्याः सा द्विपुरुषी द्विपुरुषा वा परिखा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण निषिध्यते । यस्मिन् तद्धितार्थद्विगुसमासे उत्तरपदरूपेण पुरुषः इति शब्दः प्रमाणम् (unit of measurement) अस्मिन् अर्थे प्रयुक्तः अस्ति, तत्र तद्धितप्रत्ययस्य लुकि सति, स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विकल्पेन निषिध्यते — इति अस्य सूत्रस्य आशयः । मूलतः <<द्विगोः>> 4.1.21 इत्यनेन ङीप्-प्रत्यये प्राप्ते; ततः <<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> 4.1.22 इति तस्य नित्यं निषेधे प्राप्ते ; तस्य वैकल्पिकविधानार्थम् प्रकृसूत्रम् पाठितम् अस्ति । यथा, द्वौ पुरुषौ प्रमाणम् अस्याः इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> 2.1.52 इति द्विगुसमासे कृते; ततः <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> 5.2.37 इत्यनेन मात्रच्-प्रत्यये कृते; तत्रैव विद्यमानेन <!प्रमाणे लो द्विगोर्नित्यम्!> इत्यनेन मात्रच्-प्रत्ययस्य लुक् भवति । एतादृशे लुकि कृते; स्त्रीत्वं द्योतयितुम् <<द्विगोः>> 4.1.21 इत्यनेन प्राप्तस्य ङीप्-प्रत्ययस्य <<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> 4.1.22 इत्यनेन नित्यं निषेधे प्राप्ते प्रकृतसूत्रेण सः विकल्प्यते । अतः ङीप्-प्रत्यये कृते द्वि + पुरुष + ङीप् → द्विपुरुषी तथा च ङीप्-प्रत्ययस्य अभावे <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्यये कृते द्वि + पुरुष + टाप् → द्विपुरुषा इति उभयथा प्रयोगः सिद्ध्यति । प्रमाणम् अस्मिन् अर्थे प्रयुक्तः पुरुष इति शब्दः परिमाणम् (standard unit of measurement) नास्ति, अतः तस्य विषये <<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> 4.1.22 इति सूत्रम् अवश्यम् प्राप्नोति; तस्य वैकल्पिक-निषेधं कृत्वा ङीप्-प्रत्ययस्य पुनर्विधानार्थम् इदं सूत्रं रचितं वर्तते । दलकृत्यम् 1. प्रमाणे इति किमर्थम् ? यत्र पुरुष शब्दः प्रमाणभिन्ने अर्थे प्रयुक्तः अस्ति, तत्र प्रकृतसूत्रम् नैव प्रयुज्यते । यथा, द्वाभ्यां पुरुषाभ्यां क्रीता इत्यत्र आदौ <<संख्यापूर्वो द्विगुः>> 2.1.52 इत्यनेन द्विगुसमासे कृते ततः <<तेन क्रीतम्>> 5.1.37 इत्यस्मिन् अर्थे <<आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्>> 5.1.19 इति सूत्रेण ठक्-प्रत्ययः भवति, तस्य च <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इत्यनेन लुक् विधीयते । एतादृशे लुकि कृते अग्रे स्त्रीत्वं द्योतयितुम् <<द्विगुश्च>> 2.1.23 इति ङीप्-प्रत्यये प्राप्ते; <<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> 4.1.22 इति सूत्रेण सः अवश्यः एव निषिध्यते । अत्र प्रकृतसूत्रेण विकल्पः न प्राप्नोति यतः पुरुष इति शब्दः अस्मिन् उदाहरणे प्रमाणम् इत्यर्थे नैव प्रयुक्तः वर्तते । अतः अत्र <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्यये कृते द्वि + पुरुष + टाप् → द्विपुरुषा इति शब्द सिद्ध्यति । 2. तद्धितार्थद्विगुसमासे इति किमर्थम्? यत्र पुरुष इति शब्दः 'प्रमाणम्' अस्मिन् अर्थे समाहारद्वन्द्वे प्रयुज्यते; तत्र <<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> 4.1.22 इति ङीप्-प्रत्ययस्य निषेधः एव न प्राप्नोति; अतश्च तत्र प्रकृतसूत्रस्य प्रयोगः अपि नैव सम्भवति । यथा, द्वयोः पुरुषयोः समाहारः इत्यत्र द्वि + पुरुष इति समाहारद्विगुसमासे कृते तत्र <!अकारान्तोदत्तरपदो द्विगुः स्त्रियां भाषते!> इति वार्त्तिकेन नित्यं स्त्रीलिङ्गमेव इष्यते । अस्यां स्थितौ अत्र <<द्विगोः>> 4.1.21 इत्यनेन ङीप्-प्रत्ययः अवश्यं भवति, येन द्वि + पुरुष + ङीप् → द्विपुरुषी इति शब्दः सिद्ध्यति ।

Balamanorama

Up

<<पुरुषात् प्रमाणेऽन्यतरस्याम्>> - पुरुषात् । द्विगोरिति तद्धितलुकीति ङीबिति चानुवर्तते । तदाह — प्रमाणे य इत्यादिना । प्रमाणमायामः,आयामस्तु प्रमाणं स्यात् इति वचनात् । द्वौ पुरुषाविति ।पञ्चहस्तायामः पुरुषः॑ इति शुल्वसूत्रात् । द्वौ पुरुषौ प्रमाणमस्या इति विग्रहे 'तद्धितार्थ' इति द्विगुसमासः । प्रमाणे द्वयसज्दघ्नञ्मात्रचः॑ इति विहितस्य मात्रचःप्रमाणे लः, द्विगोर्नित्य॑मिति लुक् । अत्रोक्तरीत्या पुरुषप्रमाणस्य आयामात्मकस्यअपरिमाणे॑ति नित्यं ङीब्निषेधे प्राप्ते विकल्पार्थमिदं वचनम् । अन्ये तुतदस्य परिमाण॑मिति ठकः ठञो वाअध्यर्धे॑ति लुक् । तत्र हि उत्तरसूत्रानुरोधात्परिमाण शब्देन परिच्छेदकमात्रं गृह्रते इत्याहुरित्यास्तां तावत् । द्विपुरुषी द्विपुरुषा वा परिखेति । तिर्यक् द्विपुरुषायतेत्यर्थः । दुर्गं परितः तत्संरक्षणार्थौ जलाशयः परिखा । अथ कुण्डमिव ऊधो यस्या इति बहुव्रीहौ कुण्डोधस्शब्दः ।

Padamanjari

Up

प्रमाणे यः पुरुषशब्द इति । पञ्चारत्निः पुरुष इति शुल्बविदः, तत्र द्वौ पुरुषो प्रमाणमत्या इति वाक्ये प्रमाणशब्देन सम्बन्धाज्जातिवचनोऽपि पुरुषशब्दः प्रमाणे वर्तते । वृतौ तु तत्स्वभावादेव प्रमाणे वृत्तिर्द्रष्टव्या ॥