5-1-28 अध्यर्धपूर्वद्विगोः लुक् असञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक्
index: 5.1.28 sutra: अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्
आ अर्हात् अध्यर्धपूर्व-द्विगोः असंज्ञायाम् लुक्
index: 5.1.28 sutra: अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्
सर्वेषु आर्हीय-अर्थेषु तद्धितार्थे जायमानात् अध्यर्धपूर्वपदसमासात् द्विगुसमासात् च परस्य तद्धितप्रत्ययस्य संज्ञाविषयं विहाय अन्यत्र लुक् भवति ।
index: 5.1.28 sutra: अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्
आर्हातित्येव। अध्यर्धशब्दः पूर्वो यस्मिन् तस्मादध्यर्धपूर्वात् प्रातिपदिकद् द्विगोश्च परस्य आर्हीयस्य लुग् भवति असंज्ञायां इति किम्? पाञ्चलोहितिकम्। पाञ्चकलापिकम्। लोहिनीशब्दस्य भस्याढे तद्धिते इति पुंवद्भावः। प्रत्ययान्तस्य विशेषणमसंज्ञाग्रहणं न चेत् प्रत्ययान्तं संज्ञा इति। अध्यर्धशब्दः सङ्ख्या एव, किमर्थं भेदेन उपादीयते? ज्ञापकार्थं, क्वचिदस्य सङ्ख्याकार्यं न भवति, संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् 5.4.17 इति।
index: 5.1.28 sutra: अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्
अध्यर्धपूर्वाद्द्विगोश्च परस्यार्हीयस्य लुक् स्यात् । अध्यर्धकंसम् । द्विकंसम् । संज्ञायां तु पाञ्चाकलापिकम् ॥
index: 5.1.28 sutra: अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्
'अध्यर्ध' इति कश्चन सङ्ख्यावाचीशब्दः । a half more than something / something plus a half - इत्यर्थः । तद्धितार्थे जायमानस्य अध्यर्धपूर्वसमासस्य तथा च द्विगु-समासस्य विषये विहितस्य आर्हीय-प्रत्ययस्य अनेन सूत्रेण लुक् भवति । परन्तु निर्मितः तद्धितान्तशब्दः संज्ञां दर्शयति चेत् अयं लुक् निषिध्यते ।
उदाहरणानि पश्यामः -
अर्ध्यर्धेन कंसेन क्रीतम्
= अध्यर्ध + कंस + टिठन्
→ अध्यर्धकंस [टिठन्-प्रत्ययस्य लुक्]
द्वाभ्यां कंसाभ्यां क्रीतम्
= द्वि + कंस + टिठन्
→ द्विकंस
विशेषः - अत्र निर्मितः यः 'द्विकंस' शब्दः, तस्य विषये अग्रे पुनः आर्हीय-अर्थः क्रियते चेत् तत्र <!प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्!> अनेन वार्त्तिकेन तदन्तविधिः निषिध्यते । अतः अस्मात् 'द्विकंस'शब्दात् तेन क्रीतम् 5.1.37 अस्मिन् अर्थे औत्सर्गिकः ठञ्-प्रत्ययः एव भवति । अग्रे पुनः वर्तमानसूत्रस्य प्रसक्तिः स्यात् वा - इति प्रश्ने प्राप्ते, अत्र एतत् स्मर्तव्यम्, यत् अत्र विहितः तद्धितप्रत्ययः द्विगुनिमित्तकः नास्ति (इत्युक्ते, अयं प्रत्ययः तद्धितार्थ-द्विगुसमासं न जनयति), अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति । अत्र परिमाणान्तस्यासंज्ञाशाणयोः 7.3.17 इति उत्तरपदवृद्धिः एव भवति, वर्तमानसूत्रेण लोपः न विधीयते । द्विकंसेन क्रीतम् द्विकांसिकम् ।
पञ्च कलापानि परिमाणमस्य
= पञ्च + कलाप + ठञ्
→ पाञ्चकलापिक
तथैव, पञ्च लोहिन्यः परिमाणमस्य =
पञ्च + लोहिनी + ठञ्
→ पञ्च + लोहित + ठञ् [<!भस्याढेः तद्धिते पुंवद्भावो वक्तव्यः!> अनेन वार्त्तिकेन अत्र पुंवद्भावः जायते । वर्णादनुदात्तात्तोपधात्तो नः 4.1.39 इत्यनेन 'लोहिनी'शब्दः 'लोहित'शब्दात् सिद्ध्यति, अतः अत्र पुंवद्भावे 'लोहित' इति जायते । ]
→ पञ्च + लोहित् + इक [ठस्येकः 8.3.50, यस्येति च 6.4.148 ]
→ पाञ्चलोहितिक
अत्र केचन बिन्दवः ज्ञातव्याः -
ठञ्-प्रत्ययस्य लुकि कृते अग्रे स्त्रीत्वे विवक्षिते द्विगोः 4.1.21 इत्यनेन द्विगुसंज्ञकात् स्त्रियाम् ङीप्-प्रत्ययः भवति । यथा - अध्यर्धकंसी, द्विकंसी - आदयः ।
वस्तुतस्तु 'अध्यर्ध' शब्दः स्वयमपि एकाम् सङ्ख्यामेव दर्शयति, अतः अस्मिन् सूत्रे केवलम् 'द्विगोः' इति उच्यते चेदपि पर्याप्तं स्यात् (यतः द्विगुसमासस्य निर्माणे सङ्ख्यावाची शब्दः पूर्वपदरूपेण विधीयते) ।एवं सति अस्मिन् सूत्रे 'अध्यर्ध' शब्दस्य विशिष्टरूपेण किमर्थम् ग्रहणम् कृतमस्ति - इति प्रश्नः उपतिष्ठति । अस्य उत्तरार्थम् काशिकाकारः वदति - ' ज्ञापकार्थं, क्वचिदस्य सङ्ख्याकार्यं न भवति' - इति । इत्युक्ते, अत्र 'अध्यर्ध'ग्रहणमस्य ज्ञापकमस्ति यत् सङ्ख्याशब्दस्य विषये उक्तानि सर्वाणि कार्याणि 'अध्यर्ध'शब्दस्य विषये न प्रवर्तन्ते । यथा, संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् 5.4.17 इत्यनेन उक्तः कृत्वसुच्-प्रत्ययः यद्यपि सर्वेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः विधीयते, तथापि 'अध्यर्ध'शब्दस्य विषये तस्य प्रसक्तिः नास्ति ।
अस्मिन् सूत्रे प्रयुक्तस्य 'अध्यर्ध'शब्दस्य विषये भाष्यकारः किञ्चित् भिन्नम् मतम् प्रकटीकरोति । सः ब्रूते - 'उक्तं संख्यात्वे प्रयोजनं तस्मादिहाध्यर्धग्रहणानर्थक्यम्' । अस्य अर्थः अयम् - बहुगणवतुडति सङ्ख्या 1.1.23 इत्यत्र 'संख्या' इति संज्ञा पाठ्यते, तत्र वार्तिककारः 'समासविधौ कन्-प्रत्ययविधौ च अध्यर्ध-शब्दस्य अपि संख्यासंज्ञा भवति' इति स्पष्टरूपेण वदति । अतः वर्तमानसूत्रस्य विषये 'द्विगोः' इत्यनेन यदा (सङ्ख्यापूर्व-)समासः उच्यते, तदा अध्यर्ध-शब्दस्य ग्रहणम् भवत्येव - तस्य भिन्नरूपेण निर्देशः न आवश्यकः । इत्युक्ते, भाष्यकारस्य मतेेन अस्मिन् सूत्रे 'अध्यर्ध'शब्दः न आवश्यकः ।
वर्तमानसूत्रात् 'अध्यार्धपूर्वद्विगोः' इत्यस्य अनुवृत्तिः द्वित्रिपूर्वादण् च 5.1.36 इति यावत् गच्छति । अतः एतेषु सर्वेषु सूत्रेषु उक्ताः विधयः केवलं अध्यर्धपूर्वशब्दानाम् तथा द्विगुसमासेन निर्मितानां शब्दानां विषये एव पाठिताः सन्तीति स्मर्तव्यम् ।
केवलं तद्धितार्थद्विगुसमासस्य विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति, समाहारद्विगोः / उत्तरपदद्विगोः विषये न । परन्तु यत्र अ-तद्धितार्थद्विगुसमासः तद्धितार्थद्विगुसमासस्य विषये एव विधीयते, तत्र वर्तमानसूत्रस्य प्रसक्तिः भवति । यथा - 'द्वयोः शूर्पयोः समाहारः द्विशूर्पी' इत्यनेन 'द्विशूर्पी' इति शब्दः समाहारद्विगुसमासेन जायते । अग्रे 'द्विशूर्प्या क्रीतम्' इति स्थिते अस्य वाक्यस्य अर्थः 'द्वाभ्यां शूर्पाभ्यां क्रीतम्' इत्येव भवति, अतः 'द्विशूर्प्या क्रीतम्' इत्यस्य परिवर्तनम् 'द्वाभ्यां शूर्पाभ्यां क्रीतम्' इत्यस्मिन् वाक्ये कृत्वा ततः वर्तमानसूत्रं प्रयुज्य 'द्विशूर्पम्' इति शब्दनिर्माणम् कर्तुं शक्यते । अस्मिन् विषये भाष्ये विस्तारेण चर्चा कृता अस्ति, जिज्ञासवः तां पश्यन्तु ।
अस्मिन् सूत्रे 'अध्यर्धपूर्वद्विगोः' इति षष्ठ्यन्तम् रूपमस्ति । इयम् सम्बन्धषष्ठी अस्तीति भाष्यात् स्पष्टीभवति । 'अध्यर्धपूर्वस्य द्विगुसमासस्य च सम्बन्धी निमित्तभूतः यः तद्धितप्रत्ययः, तस्य लुक् भवति' इति अत्र आशयः वर्तते ।
index: 5.1.28 sutra: अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्
अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् - अध्यर्धपूर्व । अध्यर्थशब्दः पूर्वो यस्य स अध्यर्धपूर्वः, सच द्विगुश्चेति समाहारद्वन्द्वात्पञ्चमी । सौत्रं पुंस्त्वम् । तदाह — अध्यर्धपूर्वाद्द्विगोश्चेति । आर्हीयस्येति । प्रत्यासात्तिलभ्यम् । अध्यर्थकंसमिति । अध्यारूढमर्द्धं यस्मिन् तत् अध्यर्धम् ।प्रादिभ्यो धातुजस्ये॑ति बहुव्रीहौ पूर्वखण्डे उत्तरपदलोपः । सार्धमित्यर्थः । अध्यर्धेन कंसेन क्रीतमिति विग्रहः । तद्धितार्थे द्विगुः ।संख्याया अतिशदन्तायाः॑ इति कन् । तस्यानेन लुगिति भावः । द्विकंसमिति । द्वाभ्यां कंसाभ्यां क्रीतमिति विग्रहः । तद्धितार्थे द्विगुः ।संक्याया अतिशदन्तायाः॑ इति कन् । तस्यानेन लुगिति भावः । द्विकंसमिति । द्वाभ्यां कंसाभ्यां क्रीतमिति विग्रहः । ठको लुक् । नच अध्यर्थकंसमित्यत्रापि द्विगुत्वादेव सिद्धमिति वाच्यं, किञ्चित्संख्याकार्यं कृत्वसुजादिकमध्यर्धशब्दस्य नेति ज्ञापनार्थत्वात् । पाञ्चकलायिकमिति । पञ्च कलायाः परिमाणमस्येति । विग्रहे 'तद्धितार्थ' इति द्विगुः ।तदस्ये॑तिठञ् । सङ्ख्यासंज्ञासूत्रभाष्ये तुअध्यर्धपूर्वा॑दिति पाठो दृश्यते । नच द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पं, तेन क्रीतं द्विशौर्पिकमित#इ पूर्वोक्तोदाहरणे ठञो लुक् स्यादिति वाच्यं, द्विगुनिमित्तस्यार्हीयस्य लुगिति व्याख्यानादित्यलम् ।
index: 5.1.28 sutra: अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्
अध्यारूढमर्द्धमस्मिन्नत्यध्यर्धम्, प्रादिभ्यो धातुजस्येति बहुव्रीहिः। अध्यर्धपूर्वद्विगोरिति समाहारद्वन्द्वः, सौत्रः पुंल्लिङ्गनिर्द्देशः। तस्मादध्यर्धपूर्वात्प्रातिपदिकाद् द्विगोश्च परस्येति। तेन ठध्यर्धपूर्वद्विगोःऽ इति पञ्चम्याश्रितेति लक्ष्यते। यद्येवम्, द्विगोर्लुकि तन्निमितग्रहणम्, द्विगोर्निमितं यस्तद्धितस्तस्य लुग् भवतीति वक्तव्यम्, द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम्, द्विशूर्पेण क्रीतं द्विशौर्पिकमित्यत्र द्वितीयस्य मा भूत्। तथार्थविशेषासंप्रत्यये तन्निमितादपि यत्र तद्धितार्थद्विगुना सहार्थो न भिद्यते, तत्रातन्निमितादपि। स तद्धितो यस्य निमितं न भवति तस्मादपि द्विगोः परस्य लुग्भवतीति वक्तव्यम्-द्वयोः शूर्पयोः समाहारो द्विशूर्पी, द्वशूर्प्या क्रीतमित्यपि विग्रहे द्विशूर्पमित्येव यथा स्यात्। तस्माद् द्विगोरिति नैषा पञ्चमी, का तर्हि ? षष्टी - द्विगोर्यस्तद्धितः। कश्च द्विगोस्तद्धितः ? यस्तस्य निमितं यस्मिन् द्विगुर्मवति। द्विशूर्प्या क्रीतमित्यत्र त्वनभिधानात्प्रत्ययो न भविष्यति। त्र्यैशब्द्यं हि नः साध्यम्द्वाभ्यां शूर्पाभ्यां क्रीतम्, द्विशूर्पम्, द्विशूर्प्या क्रीतमिति; तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रह एव द्विशूर्प्या क्रीतमिति, न तु वृत्तिः, अनभिधानात्। अपरेण विग्रहश्च वृत्तिश्च-द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पमिति, अव्यविकन्यायेन। व्याख्यातोऽव्यविकन्यायः। इदं तावदर्थतत्वम्,'द्विगोर्लुगनपत्ये' इत्यत्र च वृत्तिकारेणाप्येवमेव व्याख्यातम्, इह तु तदनुसारेण गम्यमानत्वान्नैवं विविच्य व्याख्यातम्, यस्य तद्धितस्य लुगिष्यते सोऽपि द्विगोः पर इत्येतावता द्विगोः परस्येत्युक्तम्। पाञ्चलोहितिकम्, पाञ्चकलापिकमिति। पञ्च लोहिन्यः परिमाणमस्य, पञ्च कलापाः परिमाणमस्येति विगृह्य तद्धितार्थे समासः,'तदस्य परिमाणम्' इति ठञ्,'भस्या' ढेअ तद्धितेऽ इति पुंवद्भावाल्लोहिनीशब्दस्येकारनकारयोर्निवृत्तिः, परिमाणविशेषस्य नामधेये एते। प्रत्ययान्तस्य विशेषणमसंज्ञाग्रहणामिति। न तु सन्निहितस्यापि द्विगोः; असंज्ञायामिति सप्तदमीनिर्द्देशात्। वातिंककारस्तु मन्यते -'द्विगुविशेषणमसंज्ञाग्रहणं पञ्चलोहित-पञ्चकलापशब्दावपि द्विगू कृततद्धितलुकावेव संज्ञे, ततो नार्थो' संज्ञायामिति प्रतिषेधेनऽ इति, तदाह -'संज्ञाप्रतिषेधानर्थक्यं च तन्निमितत्वाल्लोपस्य' इति। तस्याः संज्ञायाः लोप एव निमितमित्यर्थः। अध्यर्द्धशब्दः संख्यैवेति। संख्यावाच्येवेत्यर्थः। अध्यर्द्धस्याप्येकादिवत् परिच्छेदहेतुत्वात्। अत एवाध्यर्द्धेन क्रीतमध्यर्द्धकमति संख्यालक्षणः कन् भवति, अध्यर्द्धकंसमित्यादौ तद्धितार्थे द्विगुश्च। क्वचिदिति। कन्समासोतरपदवृद्धिभ्योऽन्यत्र। संख्यायाः क्रियाभ्यावृत्तिगणने इति। यदा सकृत्फलां तां क्रियामभिनिर्वर्त्य तामेव कुर्वन्नर्धे निवर्तते, तदा कृत्वसुचोऽभावदध्यर्ध करोतीत्येव भवति ॥