5-1-31 बिस्तात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक् अध्यर्धपूर्वद्विगोः लुक् विभाषा द्वित्रिपूर्वात्
index: 5.1.31 sutra: बिस्ताच्च
आ-अर्हात् द्वि-त्रि-पूर्वात् बिस्तात् द्विगोः विभाषा लुक्
index: 5.1.31 sutra: बिस्ताच्च
यस्य तद्धितार्थद्विगुसमासस्य पूर्वपदे 'द्वि' तथा 'त्रि' शब्दः, तथा उत्तरपदे 'बिस्त' शब्दः विद्यते, तस्मात् विहितस्य आर्हीयप्रत्ययस्य विकल्पेन लुक् भवति ।
index: 5.1.31 sutra: बिस्ताच्च
द्वित्रिपूर्वातिति चकारेण अनुकृष्यते। द्वित्रिपूर्वाद् बिस्तान्ताद् द्विगोः परस्य आर्हीयप्रत्ययस्य विभाषा लुग् भवति। द्विबिस्तम्, द्विबैस्तिकम्। त्रिबिस्तम्, त्रिबैस्तिकम्। बहुविस्तम्, बहुबैस्तिकम्।
index: 5.1.31 sutra: बिस्ताच्च
द्वित्रिबहुपूर्वाद्विस्तादार्हीयस्य लुग्वा स्यात् । द्विबिस्तम् । द्विबैस्तिकमित्यादि ॥
index: 5.1.31 sutra: बिस्ताच्च
'बिस्त' इति कश्चन परिमाणवाचीशब्दः । 'द्वि' तथा 'त्रि' एताभ्यां सह अस्य शब्दस्य योजनं तद्धितार्थद्विगुसमासेन क्रियते चेत् तस्मात् विहितस्य आर्हीयप्रत्ययस्य विकल्पेन लुक् भवति ।
द्वौ बिस्तौ अस्य परिमाणम् तत् द्विबिस्तम् द्विबैस्तिकम् वा । अत्र औत्सर्गिकस्य ठञ्-प्रत्ययस्य विकल्पेन लुक् भवति । लुकः अभावपक्षे परिमाणान्तस्यासंज्ञाशाणयोः 7.3.17 इत्यनेन उत्तरपदवृद्धिः भवति ।
त्रयः बिस्ताः अस्य परिमाणम् तत् त्रिबिस्तम् त्रिबैस्तिकम् वा ।
पूर्वसूत्रवत् अस्मिन् सूत्रे अपि <!बहुपूर्वात् चेति वक्तव्यम्!> इति वार्त्तिकम् गृह्यते । यथा - बहवः बिस्ताः परिमाणमस्य तत् बहुबिस्तम् बहुबैस्तिकम् वा ।
ज्ञातव्यम् - वस्तुतः सूत्रम् इदम् पूर्वसूत्रे एव स्थापयितुम् शक्यते । यथा - 'द्वित्रिपूर्वात् निष्कबिस्ताभ्याम्' । परन्तु एवं क्रियते चेत् यथासङ्ख्यत्वस्य प्रसक्तिः विद्यते - 'द्विपूर्वात् निष्कशब्दात् त्रिपूर्वात् बिस्तशब्दात् च तद्धितप्रत्ययस्य बिभाषा लुक् स्यात्' इति अर्थः तर्हि अत्र जायेत । तत् तथा मा भूत्, अतः अत्र योगविभागः (भिन्नसूत्रनिर्माणम्) कृतमस्ति ।
index: 5.1.31 sutra: बिस्ताच्च
बिस्ताच्च - विस्ताच्च ।आर्हीयस्य लुग्वे॑ति शेषः । द्विबिस्तं द्विबैस्तिकमिति । द्वाभ्यां बिस्ताभ्यां क्रीतमिति विग्रहः । ठञः पाक्षिको लुक् । इत्यादीति । बहुविस्तं बहुबैस्तिकमित्युदाहार्यम् ।बहुपूर्वाच्चे॑ति वार्तिकस्य अत्राप्यनुवृत्तेर्भाष्ये उक्तत्वात् ।
index: 5.1.31 sutra: बिस्ताच्च
चकारेणानुकृष्यत इति। तेन चानुकृष्टमुतरत्र नानुवर्तते इत्युतरत्रानुवृत्यभाव इति भावः। बिस्तशब्दः परिमाणवाची ॥