शाणाद्वा

5-1-35 शाणात् वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक् अध्यर्धपूर्वद्विगोः यत्

Sampurna sutra

Up

index: 5.1.35 sutra: शाणाद्वा


आ-अर्हात् शाणात् यत् वा

Neelesh Sanskrit Brief

Up

index: 5.1.35 sutra: शाणाद्वा


सर्वेषु आर्हीय-अर्थेषु 'शाण' शब्दस्य विषये अध्यर्धपूर्व-द्विगुसमासात् विकल्पेन यत्-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.35 sutra: शाणाद्वा


अध्यर्धपूर्वात् द्विगोः इत्येव। शाणशब्दादध्यर्धपूर्वाद् द्विगोरार्हीयेष्वर्थेषु वा यत् प्रत्ययो भवति। ठञोऽपवादः। पक्षे सोऽपि भवति, तस्य च लुक्। अध्यर्धशाण्यम्, अध्यर्धशाणम्। द्विशाण्यम्, द्विशाणम्। त्रिशाण्यम्, त्रिशाणम्। शताच् चेति वक्तव्यम्। अध्यर्धशत्यम्, ध्यर्धशतम्। द्विशत्यम्, द्विशतम्। त्रिशत्यम्, त्रिशतम्।

Siddhanta Kaumudi

Up

index: 5.1.35 sutra: शाणाद्वा


यत्स्यात् । पक्षे ठञ् । तस्य लुक् । अध्यर्धशाण्यम् । अध्यर्धशाणम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.35 sutra: शाणाद्वा


'शाण' (मापनस्य किञ्चन परिमाणम्) शब्दस्य विषये तद्धितार्थे विहितः यः अध्यर्धपूर्वसमासः द्विगुसमासः वा, तस्मात् आर्हीयेषु अर्थेषु यत्-प्रत्ययः भवति । पक्षे औत्सर्गिकः ठञ्-प्रत्ययः अपि विधीयते । यथा -

  1. पञ्च शाणं परिमाणमस्य = पञ्चशाण + यत् → पञ्चशाण्यम् ।

पक्षे ठञ् - पञ्चशाण + ठञ् → पञ्चशाणम् । अत्र अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5.1.28 इत्यनेन प्रत्ययस्य लुक् भवति ।

  1. अध्यर्धेन शाणेन क्रीतमध्यर्धशाण्यमध्यर्धशाणम् वा ।

अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!शताच् चेति वक्तव्यम्!> । इत्युक्ते, 'शत' शब्दस्य विषये द्विगुसमासे कर्तव्ये पणमाषपादशताद्यत् 5.1.34 इत्यनेन यत्-प्रत्यये नित्यरूपेण प्राप्ते अनेन वार्त्तिकेन सः विकल्प्यते । पक्षे संख्याया अतिशदन्तायाः कन् 5.1.22 इत्यनेन कन्-प्रत्ययः भवति, तस्य च अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5.1.28 इत्यनेन लुक् भवति । यथा - पञ्च शतम् परिमाणमस्य तत् पञ्चशत्यम्, पञ्चशतम् वा ।

Balamanorama

Up

index: 5.1.35 sutra: शाणाद्वा


शाणाद्वा (द्वित्रिपूर्वादण् च) - अथ शाणान्तद्विगोरुदाहरणं वक्ष्यन्विशेषमाह — द्वित्रिपूर्वादण् । च वार्तिकमिदम् । चाद्यदिति । पाक्षिको यत् चकारेण समुच्चीयत इत्यर्थः । ततश्च यतो ।ञभावे ठञपि लभ्यते । तदाह-तेन त्रैरूप्यमिति । अणा, यता, ठञा चेत्यर्थः । अणि परिमाणान्तस्येत्युत्तरपदवृद्धिमाशङ्क्याह — परिमाणान्तस्येति । ठञादयस्त्रयोदशेति ।प्राग्वते॑रिति ठञ्,आर्हा॑दिति ठक्,शताच्चे॑ति ठन्यतौ, 'संज्ञायाः' इति कन्,विंशतितिंरशद्भ्या॑ति ड्बुन्,कंसा॑दिति टिठन्,शूर्पा॑दित्यञ्,शतमाने॑त्यण्, 'विंशतिकात्खः' इति खः, खार्याः॑ इति ईकन्,पणपादे॑ति यत्,द्वित्री॑ति वार्तिकोक्ताऽण् । इत्येव त्रयोदशेत्यर्थः । प्रकृता इति । प्रक्रान्ता इत्यर्थः । समर्थविभक्तय इति ।समर्थानां प्रथमाद्वे॑ति सूत्रलभ्यसमर्थविशेषणीभूतप्रथमोच्चारिततत्तद्विभक्तय इत्यर्थः ।

Padamanjari

Up

index: 5.1.35 sutra: शाणाद्वा


ठञोऽपवाद इति। यद्यप्युन्मानवचनः शाणशब्दः, तथाप्यार्हादित्यत्र क्रियापरिमाणस्य ग्रहणादस्यपि पर्युदासाट्ठञ एव प्रसङ्ग इति भावः। शताच्चेति वक्तव्यमिति। पूर्वेण नित्ये यति प्राप्ते वचनम्। यदभावपक्षे सङ्खयालक्षणस्य कनो लुक् ॥