द्विगुश्च

2-1-23 द्विगुः च आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्विगुश्च समासस्तत्पुरुषसंज्ञो भवति। द्विगोस्तत्पुरुषत्वे समासान्ताः प्रयोजनम्। पञ्चराजम्। दशराजम्। द्व्यहः। त्र्यहः। पञ्चगवम्। दशगवम्॥

Siddhanta Kaumudi

Up

द्विगुरपि तत्पुरुषसंज्ञः स्यात् । इदं सूत्रं त्यक्तुं शक्यम् । संख्यापूर्वो द्विगुश्चेति पठित्वा चकारबलेन संज्ञाद्वयसमावेशस्य सुवचत्वात् । समासान्तः प्रयोजनम् । पञ्चराजम् ॥

Laghu Siddhanta Kaumudi

Up

द्विगुरपि तत्पुरुषसंज्ञकः स्यात्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<द्विगुश्च>> - द्विगुश्च । द्विगुरपीति ।तद्धितार्थोत्तरपदसमाहारे च॑ इति वक्ष्यमाणसमासस्यसंख्यापूर्वो द्विगु॑रिति द्विगुसंज्ञा विधास्यते । स द्विगुसमासोऽपि तत्पुरुषसंज्ञक इति यावत् । एतत्सूत्राऽभावे एकसंज्ञाधिकाराद्द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेति भावः । इदमिति ।द्विगुश्चे॑त्येतदित्यर्थः । तर्हि द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्यत आह — संख्येति ।संख्यापूर्वोद्विगु॑रिति द्विगुसंज्ञाविधायकं सूत्रम् । तत्र चकारः पठनीयः । ततश्च संख्यापूर्वसमासो द्विगुसंज्ञकस्तत्पुरुषसंज्ञकश्च स्यादिति लभ्यते । एवञ्च चकारेण लघुना तत्पुरुषसंज्ञासमुच्चयलाभा॒द्द्विगुश्चे॑ति गुरुभूतं सूत्रं न कर्तव्यमित्यर्थः । ननु मास्तु द्विगोस्तत्पुरुषत्वमित्यत आह — समासान्तः प्रयोजनमिति । तदुदाहृत्य दर्शयति - पञ्चराजमिति । पञ्चानां राज्ञां समाहार इति विग्रहेतद्धितार्थे॑ति द्विगुः । तस्य तत्पुरुषत्वाद्राजाहःसखिभ्यष्टजि॑ति टच् ।स नपुंसक॑मिति नपुंसकत्वम् ।अकारान्तोत्तरपदो द्विगुः स्त्रिया॑मिति तु न भवति, समासान्तस्य टचः समुदायावयवत्वेन उत्तरपदावयवत्वाऽभावात् । न चसंख्यापूर्वोद्विगुश्चे॑ति पाठे द्विगुतत्पुरुषसंज्ञयोः पर्यायेण प्रवृत्तिः स्यात्, अतः समुच्चयार्थंद्विगुश्चे॑ति पृथक्सूत्रमस्त्विति वाच्यम्, 'सङ्ख्यापूर्व' इति,द्विगु॑रिति च योगौ विभज्य पूर्वेण सङ्ख्यापूर्वस्य तत्पुरुषसंज्ञाविधिः, द्विगुरित्यनेन द्विगुसंज्ञाविदिरित्याश्रयणे सति, चकारमन्तरेणापि पर्यायेण प्रवृत्तिसिद्ध्या चकारस्य समुच्चयार्थत्वोपपत्तेः ।

Padamanjari

Up

समासान्ता इति। यद्यपि राजाहःसखिभ्यष्टच्ऽ'तत्पुरुषस्यांगुलेः संख्याव्ययादेः' इति टजचौ तत्पुरुषनिबन्धनौ, तथापि प्रकृतिभेदाद्भेदविवक्षयां वहुवचनम्। पञ्चराजमिति। उकतरपदस्यानकारान्तत्वात्स्त्रीत्वाभावः। समासार्थोतरपदस्यान्ताः समासान्ता इति तु पक्षे पात्रादित्वात्। क्वचत् पञ्चराजीति स्त्रील्ङ्गस्य पाठः, स भाष्यविरोधादपपाठः। द्व्यह इति। 1ठह्नष्टखोरेवऽ इति टिलोपः, रात्राह्नाहाः पुंसिऽ। पञ्चगवमिति।'गोरतध्दितलुकि' इति टच्, पूर्ववत्स्त्रीत्वाभावः॥