द्विगोः
4-1-21 द्विगोः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् अनुपसर्जनात्
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
द्विगुसमासेन निर्मितात् ह्रस्व-अकारान्त-प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते ।
Kashika
Up
द्विगुसंज्ञकात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति। पञ्चपूली। दशपूली। कथं त्रिफला ? अजादिषु दृश्यते ॥
Siddhanta Kaumudi
Up
अदन्तात् द्विगोर्ङीप् स्यात् । त्रिलोकी । अजादित्वात्त्रिफला । त्र्यनीका सेना ॥
Laghu Siddhanta Kaumudi
Up
अदन्ताद् द्विगोर्ङीप्स्यात् । त्रिलोकी । अजादित्वात्त्रिफला । त्र्यनीका सेना ॥
Neelesh Sanskrit Detailed
Up
<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । <<संख्यापूर्वो द्विगुः>> 2.1.52 इति सूत्रेण निर्दिष्टः यः द्विगुसमासः, तेन निर्मितात् ह्रस्व-अकारान्त-प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते — इति अस्य सूत्रस्य अर्थः । <<संख्यापूर्वो द्विगुः>> 2.1.52 इति सूत्रेण निर्दिष्टः द्विगुसमासः त्रिप्रकारकः वर्तते — तद्धितार्थः द्विगुः, उत्तरपदद्विगुः, समाहारद्विगुः । एतेषाम् विषये विवरणम्, उदाहरणानि च अधः क्रमेण दत्तानि सन्ति —
1. तद्धितार्थद्विगुः —
यस्य द्विगुसमासस्य निर्माणे कश्चन तद्धितप्रत्ययः अपि आवश्यकः सः तद्धितार्थद्विगुसमासः । एतादृशस्य समासस्य अन्ते विद्यमानस्य तद्धितप्रत्ययस्य प्रायेण सर्वत्र <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इत्यनेन लुक् भवति । एतादृशे लुकि कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा, द्वौ आढकौ पचति अस्मिन् अर्थे <<द्विगोः ष्ठंश्च>> 5.1.54 इत्यनेन ठञ्-प्रत्यये कृते द्वि + आढक + ठञ् इति स्थिते, <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इति तद्धितसमासस्य लुकि कृते द्वि + आढक इत्यवस्थायाम् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति, येन द्वि + आढक + ठञ् → द्व्याढकी इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —
द्वौ आढकौ पचति सा
→ द्वि + आढक + ठञ् [<<संख्यापूर्वो द्विगुः>> 2.1.52 इति द्विगुसमासः । तत्र <<द्विगोः ष्ठंश्च>> 5.1.54 इति (चकारग्रहणसामर्थ्यात्) ठञ्-प्रत्ययः]
→ द्वि + आढक + ० [<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इति तद्धितप्रत्ययस्य लुक्]
→ द्वि + आढक + ङीप् [स्त्रीत्वं द्योतयितुम् <<द्विगोः>> 4.1.21 इति ङीप्]
→ द्व्याढक + ई [<<इको यणचि>> 6.1.77 यणादेशः]
→ द्व्याढक् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः]
→ द्व्याढकी
एवमेव, पञ्च पात्राणि अवहरति इत्यत्र <<संख्यापूर्वो द्विगुः>> 2.1.52 इति द्विगुसमासः, ततः <<द्विगोः ष्ठंश्च>> 5.1.54 इत्यनेन ठञ्-प्रत्ययः, ततः <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इति तद्धितप्रत्ययस्य लुक्, ततश्च स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्यये कृते पञ्चपात्रिकी इति शब्दः सिद्ध्यति ।
1. तद्धितार्थद्विगुसमासे तद्धितप्रत्ययस्य लुकि कृते, ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्यये प्राप्ते; बहुषु स्थलेषु अयं ङीप्-प्रत्ययः निषिध्यते । एते अपवादाः <<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> 4.1.22, <<काण्डान्तात् क्षेत्रे>> 4.1.23 तथा च <<पुरुषात् प्रमाणेऽन्यतरस्याम्>> 4.1.24 इत्येतेषु त्रिषु सूत्रेषु पाठिताः सन्ति ।
2. यदि तद्धितार्थद्विगुसमासस्य अन्ते विद्यमानस्य तद्धितप्रत्ययस्य लुक् न विधीयते, तर्हि तत्र स्त्रीत्वं द्योतयितुम् द्विगु-समासविशिष्टः स्त्रीप्रत्ययः नैव भवति, अपि तु अन्ते विद्यमानम् तद्धितप्रत्ययम् अनुसृत्य एव स्त्रीप्रत्ययः विधीयते । यथा, द्वौ आढकौ पचति इत्यस्मिन्नेव अर्थे <<द्विगोः ष्ठंश्च>> 5.1.54 इत्यनेन ख-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययः एव विधीयते — द्वि + आढक + ख (ईन) + टाप् → द्व्याढकीना ।
2. समाहारद्विगुः —
समाहारस्य निर्देशार्थम् प्रयुक्तः द्विगुसमासः समाहारद्विगुः नाम्ना ज्ञायते । समाहारद्विगुसमासेन निर्मितं प्रातिपदिकम् <<स नपुंसकम्>> 2.4.17 इत्यनेन प्रायेण नपुंसकलिङ्गे एव भवति, अतः तत्र स्त्रीप्रत्ययस्य न कश्चन अवकाशः । परन्तु, यदि एतत् प्रातिपदिकम् अकारान्तम् अस्ति, तर्हि <!अकारान्तोदत्तरपदो द्विगुः स्त्रियां भाषते!> इति वार्त्तिकेन तस्य नित्यं स्त्रीलिङ्गे एव प्रयोगः इष्यते । अस्यां स्थितौ स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण तत्र ङीप्-प्रत्ययः भवति । यथा, पञ्चानां पूलानां समाहारः (a collection of five bundles / heaps) इत्यत्र पञ्च + पूल इति द्विगुसमासे कृते तत्र नित्यं स्त्रीलिङ्गमेव इष्यते, अतः ङीप्-प्रत्यये कृते पञ्च + पूल + ङीप् → पञ्चपूली इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —
पञ्चानां पूलानां समाहारः
→ पञ्च + पूल + ङीप् [<<संख्यापूर्वो द्विगुः>> 2.1.52 इति द्विगुः । <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक् । <!अकारान्तोदत्तरपदो द्विगुः स्त्रियां भाषते!> इति वार्त्तिकेन नित्यं स्त्रीलिङ्गे प्रयोगः, अतः स्त्रीत्वं द्योतयितुम् <<द्विगोः>> 4.1.21 इति ङीप्]
→ पञ्चन् + पूल् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः]
→ पञ्च + पूल् + ई [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः]
→ पञ्चपूली
एवमेव -
1. त्रयाणां लोकानां समाहारः = त्रि + लोक + ङीप् → त्रिलोकी
2. पञ्चानाम् अजानां समाहारः = पञ्चन् + अज + ङीप् → पञ्चाजी
2. अष्टानाम् अध्यायानां समाहारः = अष्टन् + अध्याय + ङीप् → अष्टाध्यायी
3. त्रयाणां पादानां समाहारः = त्रि + पाद + ङीप् → त्रिपादी
4. पञ्चानां खट्वानां समाहारः = पञ्चन् + खट्वा + ङीप् → पञ्चखट्वी । अत्र प्रक्रिया एतादृशी भवति —
पञ्चानां खट्वानां समाहारः
= पञ्चन् + खट्वा [<<संख्यापूर्वो द्विगुः>> 2.1.52 इति द्विगुः । <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुब्लुक्]
→ पञ्चन् + खट्व [<<गोस्त्रियोरुपसर्जनस्य>> 1.2.48 इत्यनेन स्त्रीप्रत्ययान्त-उपसर्जनस्य ह्रस्वादेशः]
→ पञ्चन् + खट्व + ङीप् [<<स नपुंसकम्>> 2.4.17 इत्यत्र निर्दिष्टेन <!आबन्तो वा!> इति वार्त्तिकेन विकल्पेन स्त्रीत्वम् । स्त्रीत्वपक्षे तस्य द्योतनार्थम् <<द्विगोः>> 4.1.21 इति ङीप्]
→ पञ्चन् + खट्व् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः]
→ पञ्च + खट्व् + ई [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः]
→ पञ्चखट्वी
1. त्रयाणां फलानां समाहारः, त्रयाणाम् अनीकानां समाहारः इत्यत्र यद्यपि वस्तुतः ङीप्-प्रत्ययः प्राप्नोति; तथापि <<अजाद्यतष्टाप्>> 4.1.4 इत्यत्र विद्यमाने अजादिगणे एतयोः ग्रहणं कृत्या एताभ्याम् टाप्-प्रत्ययः एव क्रियते, येन त्रिफला, त्र्यनीका इति टाबन्तशब्दौ सिद्ध्यतः ।
2. नवानां रात्रीणां समाहारः इत्यत्र द्विगुसमासे कृते <!संख्यापूर्वं रात्रं क्लीबम्!> इति वार्त्तिकेन नित्यं नपुंसकलिङ्गे एव रूपं प्रयुज्यते, अतः तत्र स्त्रीप्रत्ययः न भवति, अपि तु नवरात्रम् इत्येव शब्दः सिद्ध्यति ।
3. उत्तरपदद्विगुः —
यः द्विगुसमासः नित्यम् बहुव्रीहिसमासस्य पूर्वपदरूपेण एव विधीयते (पृथग् रूपेण नैव प्रयुज्यते) सः उत्तरपदद्विगुसमासः नाम्ना ज्ञायते । एतादृशः द्विगुसमासः प्रातिपदिकस्य अन्ते नैव सम्भवति अतः तत्र प्रकृतसूत्रस्य प्रयोगः अपि न भवति । यथा पञ्च गावः धनम् अस्य इत्यत्र पञ्च + गो इति द्विगुसमासात् अनन्तरम् धन इति शब्दः उत्तपरदरूपेण प्रयुज्यते, येन पञ्च + गो + धन → पञ्चगावधन इति शब्दः सिद्ध्यति । अत्र स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रस्य प्रयोगः नैव सम्भवति यतः अत्र अन्ते द्विगुसमासः न विद्यते । अतः अत्र <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्यये कृते पञ्चगावधना इत्येव शब्दः सिद्ध्यति ।
Balamanorama
Up
<<द्विगोः>> - द्विगोः ।स्त्रिया॑मिति 'अत' इति 'ङी' बिति चानुवर्तते । तदाह-अदन्तादिति । त्रिलोकीति । त्रयाणां लोकानां समाहार इति विग्रहः ।तद्धितार्थोत्तरपदसमाहारे चे॑ति द्विगुसमासः ।अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः॑ इति स्त्रीत्वम् । त्रिलोकशब्दाट्टाबपवादो ङीप् ।यस्येति चे॑ति भावः । ननु त्रिफला त्र्यनीका इत्यत्रापि ङीप् प्राप्नोतीत्यत आह — अजादित्वात्रिफला त्र्यनीकेति ।भवती॑ति शेषः । त्रयाणां फलानां समाहार इति, त्रयाणामनीकानामिति च विग्रहे 'तद्धितार्थ' इति द्विगुः । 'अकारान्तोत्तरपदः' इति स्त्रीत्वम्, 'द्विगोः' इति ङीपं बाधित्वाऽजादित्वाट्टाबिति भावः । अनीकशब्द ऐन्द्रवायवाग्रत्वे शुकाग्रत्वे आग्रयणाग्रत्वे च वर्तते इति त्र्यनीकाधिकरणे मीमांसकाः । अपरिमाण । 'द्विगोः' इति ङीबिति चानुवर्तते । प्रातिपदिकादित्यधिकृतमपरिमाणादिभिर्विशेष्यते । तदन्तविधिः ।
Padamanjari
Up