4-1-23 काण्डान्तात् क्षेत्रे प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् अनुपसर्जनात् द्विगोः न तद्धितलुकि
index: 4.1.23 sutra: काण्डान्तात् क्षेत्रे
काण्डशब्दान्तात् द्विगोस् तद्धितलुकि सति क्षेत्रे वाच्ये ङीप् प्रत्ययो न भवति। द्वे कण्डे प्रमाणमस्याः क्षेत्रभक्तेः, प्रमाणे द्वयसज्दघ्नञ्मात्रचः 5.2.37 इति विहितस्य तद्धितस्य प्रमाणे लो द्विगोर्नित्यम् इति लुकि कृते, द्विकाण्डा क्षेत्रभक्तिः। त्रिकाण्डा क्षेत्रभक्तिः। काण्डशब्दस्य अपरिमाणवाचित्वात् पूर्वेण एव प्रतिषेधे सिद्धे क्षेत्रे नियमार्थं वचनम्। इह मा भूत्, द्विकाण्डी रज्जुः, त्रिकाण्डी रज्जुः इति। प्रमाणविशेषः काण्डम्।
index: 4.1.23 sutra: काण्डान्तात् क्षेत्रे
क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि सति । द्वे काण्डे प्रमाणमस्याः द्विकाण्डा क्षेत्रभक्तिः । प्रमाणे द्वयसच् <{SK1838}> इति विहितस्य मात्रचः ।<!प्रमाणे लो द्विगोर्नित्यम् !> (वार्तिकम्) ॥ इति लुक् । क्षेत्रे किम् ? द्विकाण्डी रज्जुः ॥
index: 4.1.23 sutra: काण्डान्तात् क्षेत्रे
काण्डान्तात् क्षेत्रे - काण्डान्तात्क्षेत्रे । 'द्विगोः' इति,न तद्धितलुकी॑ति चानुवर्तते । तदाह — क्षेत्रे य इत्यादि । द्वे काण्डे इति । षोडशारत्न्यायामो दण्डः काण्डमिति स्मृतिः । द्वे काण्डे प्रमाणमस्या इति विग्रहे 'तद्धितार्थ' इति द्विगुसमासे द्विकाण्डशब्दस्य क्षेत्रवर्तित्वे नपुंसकत्वशङ्काव्युदासाय क्षेत्रभक्तिरिति विशेष्योपादानम् । तद्धितलुकं दर्शयितुमाह-प्रमाणे द्वयसजिति । नच काण्डादित्यस्य प्रातिपदिकविशेषणतया तदन्तलाभादन्तग्रहणं व्यर्थमिति शङ्क्यम्, अलसति ह्रन्तग्रहणे क्षेत्र इत्येतत्काण्डस्यैव विशेषणं स्यात्, श्रुतत्वात् । क्षेत्रे यः काण्डशब्दस्तदन्तादिति लभ्येत एवंचद्विकाण्डा क्षेत्रभक्ति॑रित्यत्र द्विकाण्डशब्दस्यैव क्षेत्रवर्तित्वात्काण्डशब्दस्य प्रमाणवाचित्वान्ङीब्निषेधो न स्यात् । द्वाभ्यां काण्डाभ्यां= काण्डप्रमितक्षेत्राभ्यां क्रीताद्विकाण्डी बहवे॑त्यत्रैव ङीम्निषेधः स्यात् । अतोऽन्तग्रहणम् । द्विकाण्डी रज्जुरिति । पूर्ववन्मात्रचो लुकिद्विगो॑रिति ङीप् । क्षेत्रवृत्तित्वाऽभावान्न तन्निषेध इति भावः । ननुअपरिमाणे॑ति पूर्वसूत्रे परिमाणशब्देन किं परिच्छेदकमात्रं विवक्षितम्, उतऊध्र्वमान#ं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् इति वार्तिकानुसारेण परितः-सर्वत आरोहतः परिणाहतश्च येन मियते तत् परिमाणमित्याढककुडवाद्येव आयाभव्यावृत्तं विवक्षितम् । नाद्यः, तथा सति द्वौ हस्तौ प्रमाणमस्या इति विग्रहे द्विहस्ता भित्तिरित्यत्र पूर्ववन्मात्रचौ लुकि ङीब्निषेधो न स्यात् । न द्वितीयः, तथा सतिकाण्डशब्दस्यायामप्रमाणपरतयोक्तपरिमाणपरत्वाऽभावेनअपरिमाणे॑त्यनेनैवद्विकाण्डा क्षेत्रभक्ति॑रित्यत्रापि ङीब्निषेधसंभवेनकाण्डान्तात्क्षेत्र एव ङीब्निषेधः, नान्यत्रद्विकाण्डीरज्जु॑रित्यादाविति नियमार्थमित्यन्यत्र विस्तरः ।
index: 4.1.23 sutra: काण्डान्तात् क्षेत्रे
मानदण्डःउकाण्डम् ।'द्विगोः' इत्यधिकारादेव पूर्वसूत्रवतदन्तविधौ सिद्धे किमर्थमन्तग्रहणम् ? अक्रियमाणेऽन्तग्रहणे क्षेत्र इत्येतत् काण्डस्यैव विशेषणं विज्ञायेत - क्षेत्रे यः काण्डशब्दः, तदन्ताद् द्विगोरिति श्रुतत्वात् न तदन्तस्य, यथोतरसूत्रे प्रमाणे यः पुरुषशब्दस्तदन्तादिति, ततश्चेह प्रसज्येत - द्वाभ्यां काण्डाभ्यां काण्डामिताभ्यां क्षेत्राभ्यां क्रीता द्विकाण्डी वडवेति; इह तु न स्यात् - द्वे काण्डे प्रमाणमस्याः द्विकाण्डा क्षेत्रभक्तिरिति । अन्तग्रहणे तु सति तदन्तस्यैव विशेषणं क्षेत्रम्, न काण्डस्य; बहुव्रीहौ गुणभूतत्वात् ॥