काण्डान्तात् क्षेत्रे

4-1-23 काण्डान्तात् क्षेत्रे प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् अनुपसर्जनात् द्विगोः न तद्धितलुकि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

यस्य तद्धितार्थद्विगुसमासस्य उत्तरपदम् 'काण्ड' इति शब्दः अस्ति, तस्मात् तद्धितप्रत्ययस्य लुकि कृते स्त्रीत्वं द्योतयितुम् क्षेत्रनिर्देशार्थम् एव ङीप्-प्रत्ययः निषिध्यते; अन्येषु अर्थेषु ङीप्-प्रत्ययः अवश्यं भवति ।

Kashika

Up

काण्डशब्दान्ताद् द्विगोस्तद्धितलुकि सति क्षेत्रे वाच्ये ङीप् प्रत्ययो न भवति। द्वे काण्डे प्रमाणमस्याः क्षेत्रभक्ते ः। <<प्रमाणे द्वयसज्०>> ५.२.३७ इति विहितस्य तद्धितस्य <<प्रमाणे लो द्विगोर्नित्यम्>> (वा० ५.२.३७) इति लुकि कृते, द्विकाण्डा क्षेत्रभक्तिः। त्रिकाण्डा क्षेत्रभक्ति ः। काण्डशब्दस्यापरिमाणवाचित्वात् पूर्वेणैव प्रतिषेधे सिद्धे क्षेत्रे नियमार्थं वचनम्। इह मा भूत् — द्विकाण्डी रज्जुस्त्रिकाण्डी रज्जुरिति। प्रमाणविशेषः काण्डम्॥

Siddhanta Kaumudi

Up

क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि सति । द्वे काण्डे प्रमाणमस्याः द्विकाण्डा क्षेत्रभक्तिः । प्रमाणे द्वयसच् <{SK1838}> इति विहितस्य मात्रचः ।<!प्रमाणे लो द्विगोर्नित्यम् !> (वार्तिकम्) ॥ इति लुक् । क्षेत्रे किम् ? द्विकाण्डी रज्जुः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण निषिध्यते । यस्य तद्धितार्थद्विगुसमासस्य उत्तरपदम् काण्ड (दण्डः, a stick, not a conventional unit of measurement) इति शब्दः अस्ति, तस्मात् तद्धितप्रत्ययस्य लुकि सति, क्षेत्रस्य (field) निर्देशः करणीयः अस्ति चेत् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति; परन्तु अन्यपदार्थस्य निर्देशः करणीयः चेत् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः अवश्यं भवति — इति अस्य सूत्रस्य आशयः । मूलतः <<द्विगोः>> 4.1.21 इत्यनेन ङीप्-प्रत्यये प्राप्ते; ततः <<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> 4.1.22 इति तस्य निषेधे प्राप्ते ;तस्य क्षेत्रविषये नियमनार्थम् प्रकृसूत्रम् पाठितम् अस्ति । यथा — 1. द्वे काण्डे प्रमाणम् अस्या क्षेत्रभक्तेः (The division of the field has the size of two kandas) अस्मिन् अर्थे <<संख्यापूर्वो द्विगुः>> 2.1.52 इत्यनेन द्विगुसमासे कृते; ततः काण्ड-शब्दात् <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> 5.2.37 इत्यनेन मात्रच्-प्रत्यये कृते; तत्रैव विद्यमानेन <!प्रमाणे लो द्विगोर्नित्यम्!> इत्यनेन मात्रच्-प्रत्ययस्य लुक् भवति । एतादृशे लुकि कृते; स्त्रीत्वं द्योतयितुम् <<द्विगोः>> 4.1.21 इत्यनेन प्राप्तः ङीप्-प्रत्ययः प्रकृतसूत्रेण निषिध्यते; यतः अत्र क्षेत्रभक्तेः निर्देशः कृतः अस्ति । अतः द्वि + काण्ड इत्यत्र <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्यये कृते द्वि + काण्ड + टाप् → द्विकाण्डा इति शब्दः सिद्ध्यति । यथा, द्विकाण्डा क्षेत्रभक्तिः । एवमेव, त्रीणि काण्डानि प्रमाणम् अस्याः क्षेत्रभक्तेः = त्रिकाण्डा क्षेत्रभक्तिः । 2. यत्र क्षेत्रस्य निर्देशः न विद्यते; तत्र तु ङीप्-प्रत्ययः अवश्यं भवति । यथा, द्वे काण्डे प्रमाणम् अस्याः रज्ज्वाः अस्मिन् अर्थे <<संख्यापूर्वो द्विगुः>> 2.1.52 इत्यनेन द्विगुसमासे कृते; ततः काण्ड-शब्दात् <<प्रमाणे द्वयसज्दघ्नञ्मात्रचः>> 5.2.37 इत्यनेन मात्रच्-प्रत्यये कृते; तत्रैव विद्यमानेन <!प्रमाणे लो द्विगोर्नित्यम्!> इत्यनेन मात्रच्-प्रत्ययस्य लुक् भवति । एतादृशे लुकि कृते; स्त्रीत्वं द्योतयितुम् <<द्विगोः>> 4.1.21 इत्यनेन प्राप्तः ङीप्-प्रत्ययः यद्यपि <<अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि>> 4.1.22 इत्यनेन निषिध्यते; तथापि सः निषेधः प्रकृतसूत्रेण नियम्यते; अतः क्षेत्रभिन्नेषु अर्थेषु ङीप्-प्रत्ययस्य लुक् नैव भवति । अतएव अत्र स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः अवश्यं भवति, येन द्वि + काण्ड + ङीप् → द्विकाण्डी रज्जुः इति प्रयोगः सिद्ध्यति । काण्ड शब्दः भूमेः कस्यचन विभागस्य निर्देशं करोति (a unit of land इत्याशयः) । अत्र उदाहरणेषु अयं शब्दः यद्यपि 'प्रमाणम्' (some kind of measurement) अस्मिन् अर्थे प्रयुक्तः अस्ति, तथापि सः परिमाणवाचकः (standard unit of measurement) नास्ति । अतएव काशिकाकारः — काण्डशब्दस्य अपरिमाणवाचित्वात्... इति आदौ निर्देशं कृत्वा अन्ते प्रमाणविशेषः काण्डम् इति स्पष्टी करोति ।

Balamanorama

Up

<<काण्डान्तात् क्षेत्रे>> - काण्डान्तात्क्षेत्रे । 'द्विगोः' इति,न तद्धितलुकी॑ति चानुवर्तते । तदाह — क्षेत्रे य इत्यादि । द्वे काण्डे इति । षोडशारत्न्यायामो दण्डः काण्डमिति स्मृतिः । द्वे काण्डे प्रमाणमस्या इति विग्रहे 'तद्धितार्थ' इति द्विगुसमासे द्विकाण्डशब्दस्य क्षेत्रवर्तित्वे नपुंसकत्वशङ्काव्युदासाय क्षेत्रभक्तिरिति विशेष्योपादानम् । तद्धितलुकं दर्शयितुमाह-प्रमाणे द्वयसजिति । नच काण्डादित्यस्य प्रातिपदिकविशेषणतया तदन्तलाभादन्तग्रहणं व्यर्थमिति शङ्क्यम्, अलसति ह्रन्तग्रहणे क्षेत्र इत्येतत्काण्डस्यैव विशेषणं स्यात्, श्रुतत्वात् । क्षेत्रे यः काण्डशब्दस्तदन्तादिति लभ्येत एवंचद्विकाण्डा क्षेत्रभक्ति॑रित्यत्र द्विकाण्डशब्दस्यैव क्षेत्रवर्तित्वात्काण्डशब्दस्य प्रमाणवाचित्वान्ङीब्निषेधो न स्यात् । द्वाभ्यां काण्डाभ्यां= काण्डप्रमितक्षेत्राभ्यां क्रीताद्विकाण्डी बहवे॑त्यत्रैव ङीम्निषेधः स्यात् । अतोऽन्तग्रहणम् । द्विकाण्डी रज्जुरिति । पूर्ववन्मात्रचो लुकिद्विगो॑रिति ङीप् । क्षेत्रवृत्तित्वाऽभावान्न तन्निषेध इति भावः । ननुअपरिमाणे॑ति पूर्वसूत्रे परिमाणशब्देन किं परिच्छेदकमात्रं विवक्षितम्, उतऊध्र्वमान#ं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् इति वार्तिकानुसारेण परितः-सर्वत आरोहतः परिणाहतश्च येन मियते तत् परिमाणमित्याढककुडवाद्येव आयाभव्यावृत्तं विवक्षितम् । नाद्यः, तथा सति द्वौ हस्तौ प्रमाणमस्या इति विग्रहे द्विहस्ता भित्तिरित्यत्र पूर्ववन्मात्रचौ लुकि ङीब्निषेधो न स्यात् । न द्वितीयः, तथा सतिकाण्डशब्दस्यायामप्रमाणपरतयोक्तपरिमाणपरत्वाऽभावेनअपरिमाणे॑त्यनेनैवद्विकाण्डा क्षेत्रभक्ति॑रित्यत्रापि ङीब्निषेधसंभवेनकाण्डान्तात्क्षेत्र एव ङीब्निषेधः, नान्यत्रद्विकाण्डीरज्जु॑रित्यादाविति नियमार्थमित्यन्यत्र विस्तरः ।

Padamanjari

Up

मानदण्डःउकाण्डम् ।'द्विगोः' इत्यधिकारादेव पूर्वसूत्रवतदन्तविधौ सिद्धे किमर्थमन्तग्रहणम् ? अक्रियमाणेऽन्तग्रहणे क्षेत्र इत्येतत् काण्डस्यैव विशेषणं विज्ञायेत - क्षेत्रे यः काण्डशब्दः, तदन्ताद् द्विगोरिति श्रुतत्वात् न तदन्तस्य, यथोतरसूत्रे प्रमाणे यः पुरुषशब्दस्तदन्तादिति, ततश्चेह प्रसज्येत - द्वाभ्यां काण्डाभ्यां काण्डामिताभ्यां क्षेत्राभ्यां क्रीता द्विकाण्डी वडवेति; इह तु न स्यात् - द्वे काण्डे प्रमाणमस्याः द्विकाण्डा क्षेत्रभक्तिरिति । अन्तग्रहणे तु सति तदन्तस्यैव विशेषणं क्षेत्रम्, न काण्डस्य; बहुव्रीहौ गुणभूतत्वात् ॥