संख्यापूर्वो द्विगुः

2-1-52 सङ्ख्यापूर्वः द्विगुः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तद्धितार्थोत्तरपदसमाहारे चेत्यत्र यः संख्यापूर्वः समासः स द्विगुसंज्ञो भवति। तद्धितार्थे तावत् — पञ्चसु कपालेषु संस्कृतः, पञ्चकपालः, दशकपालः। <<संस्कृतं भक्षाः>> ४.२.१६ इतीहाण्, तस्य <<द्विगोर्लुगनपत्ये>> ४.१.८८ इति लुक्। उत्तरपदे — पञ्चनावप्रियः। <<नावो द्विगोः>> ५.४.९९ इति समासान्तो भवति। समाहारे — पञ्चपूली। <<द्विगोः>> ४.१.२१ इति ङीब् भवति। द्विगुप्रदेशाः <<द्विगोः>> ४.१.२१ इत्येवमादयः॥

Siddhanta Kaumudi

Up

तद्धितार्थ - <{SK728}> इत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगोः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

तद्धितार्थेत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगुसंज्ञः स्यात्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<संख्यापूर्वो द्विगुः>> - अत्र समासे सति 'गोरतद्धितलुकि' इति टचि अवादेशे पञ्चगवशब्दस्य द्विगुकार्यं विधास्यन् द्विगुसंज्ञामाह — संख्यापूर्वो द्विगुः । सङ्ख्या पूर्वोऽवयवो यस्येति बहुव्रीहिः । 'तद्धितार्थ' इति पूर्वसूत्रविहितसमासोऽन्यपदार्थः, प्रत्यासत्तेः, तदाह — तद्धितार्थेत्यत्रोक्तस्त्रिविध इति । तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये इत्येवं त्रिप्रकारो यः सङ्ख्यापूर्वः समास उक्तः, स द्विगुरिति यावत् । तथाच पञ्चगवशब्दस्य समाहारे वाच्ये विहितसमासत्वाद्द्विगुसंज्ञा स्थिता । तद्धितार्थे तु पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । 'संस्कृतं भक्षाः' इत्यण् । 'द्विगोर्लुगनपत्ये' इति लुक् । उत्तरपदे यथा,-पञ्चनावप्रियः ।नावो द्विगो॑रिति समासान्तष्टच् ।

Padamanjari

Up

क्वचिदनन्तरोऽपोक्ष्यते, यत्रैतदुच्यते - ऽअनन्तस्य विधिर्वा भवति प्रतिषेधो वाऽ इति; क्वचित्समुदायः, यथा -'न षट्स्वस्रादिभ्यः' इत्यत्र वक्ष्यते - तस्मान्नोभाविति, तदिह समुदायोऽपेक्ष्टे? अनन्तरो वा? इति संशयेऽनन्तर इत्याह - तध्दितार्थ इत्यादि। अयं भावः - समुदायापेक्षायां संख्यापूर्वपदसमानाधिकरमसमासमात्रपरिग्रहे द्विमुनि व्याकरणस्येत्यव्ययीभावस्यापि स्यादितीगन्ते द्विगाविति स्वरप्रसङ्गः। समानाधिकरणतत्पुरुषापेक्षायामपि एकशाटीत्यत्रापि स्यात्। संख्याशब्दोपादनविहितत्पुरुषपरिग्रहेऽपि'दिक्सख्ये संज्ञायाम्' इत्यस्यापि ग्रहणात्सप्तरषय इत्यत्र द्विगुस्वरप्रसङ्गः। योगविभागश्चानर्थकः,'दिक्सख्ये संज्ञायां तध्दितार्थोतरपदसमाहारे' इत्येकयोगः कर्तव्यः स्यादिति। कथमेकापूपीति? अत्र ह्यएकश्चासावपूपश्चेति पूर्वकालेति समासे कृते द्विगत्वे सति ठकारान्तोतरपदो द्विगुः स्त्रियां भाष्यतेऽ इति'द्विगोः' इतैइकारः सिध्द्यति, नान्यथा। न चैकशाटीतिवज्जातिङीष्नेन समासः सक्यतेकर्तुम्, केवलस्यापूपशब्दस्य पूंल्लिङ्गत्वात्? उच्यते - अत्रानन्तरसूत्रेण समाहार एव समासः। नन्वनेकविषयः समाहारो नेकस्य सम्भवति, कथम्? एहैसमप्यपूपं कश्चित्कृपणो दददनेकं मन्यते, तथा दानश्रध्दातिशयादपूपमहतवाद्वाऽनेकस्मिन्यः संगमस्तमेकस्मिन्नपि करोति। अनेन प्रतिग्रहीता कृपणो व्याख्यातः, तत्ररोपितबहुत्वाश्रयः समाहार इति सध्दम्॥