पणपादमाषशताद्यत्

5-1-34 पणपादमाषशतात् यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक् अध्यर्धपूर्वद्विगोः

Sampurna sutra

Up

आ-अर्हात् पण-पाद-माष-शतात् यत्

Neelesh Sanskrit Brief

Up

सर्वेषु आर्हीय-अर्थेषु 'पण', 'पाद', 'माष', 'शत' - एतेषां विषये अध्यर्धपूर्व/द्विगुसमासात् यत्-प्रत्ययः भवति ।

Kashika

Up

अध्यर्धपूर्वाद् द्विगोरित्येव। अध्यर्धपूर्वाद् द्विगोश्च पणपादमाषशतशब्दान्तादार्हीयेष्वर्थेषु यत् प्रत्ययो भवति। अध्यर्धपण्यम्। द्विपण्यम्। त्रिपण्यम्। पाद — अध्यर्धपाद्यम्। द्विपाद्यम्। त्रिपाद्यम्। पद्भावो न भवति <<पद्यत्यतदर्थे>> ६.३.५३ इति। प्राण्यङ्गस्य स इष्यते, इदं तु परिमाणम्। माष — अध्यर्धमाष्यम्। द्विमाष्यम्। त्रिमाष्यम्। शत — अध्यर्धशत्यम्। द्विशत्यम्। त्रिशत्यम्॥

Siddhanta Kaumudi

Up

अध्यर्धपण्यम् । द्विपण्यम् । अध्यर्धपाद्यम् । द्विपाद्यम् । इह पादः पत् <{SK414}> इति न । यस्य-<{SK311}> इति लोपस्य स्थानिवद्भावात् । पद्यत्यतदर्थे <{SK991}> इत्यपि न, प्राण्यङ्गार्थस्यैव तत्र ग्रहणात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'पण', 'पाद', 'माष' (त्रीणि अपि मापनस्य परिमाणानि) उत 'शत' शब्दस्य विषये तद्धितार्थे विहितः यः अध्यर्धपूर्वसमासः द्विगुसमासः वा, तस्मात् आर्हीयेषु अर्थेषु यत्-प्रत्ययः भवति । 1. द्वौ पणौ परिमाणमस्य तत् द्विपण्यम् । 2. अध्यर्धेन पादेन क्रीतम् तत् अध्यर्धपाद्यम् । 3. त्रयः माषाः परिमाणमस्य तत् त्रिमाष्यम् । अत्र त्रिषु अपि उदाहरणेषु औत्सर्गिकरूपेण विहितं ठञ्-प्रत्ययं बाधित्वा यत्-प्रत्ययः विधीयते । 4. अध्यर्धेन शतेन क्रीतमध्यर्धशत्यम् । द्वाभ्याम् शताभ्याम् क्रीतम् द्विशत्यम् । अत्र 'शत' शब्दात् <<संख्याया अतिशदन्तायाः कन्>> 5.1.22 इत्यस्य अपवादरूपेण यत्-प्रत्ययः भवति । तथा च, अत्र नित्यरूपेण विहितः यत्-प्रत्ययः अग्रिमसूत्रे निर्दिष्टेन <<शताच्चेति वक्तव्यम्>> अनेन वार्त्तिकेन विकल्प्यते, अतः पक्षे कन्-प्रत्ययः अपि विधीयते, तस्य च <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इत्यनेन लुक् भवति । यथा - द्वाभ्यां शताभ्यां क्रीतम् द्विशतम् । ज्ञातव्यम् - 1. पाद-शब्दस्य विषये <<पद् यत्यतदर्थे>> 6.3.53 इत्यनेन पद्-आदेशः न भवति यतः तस्मिन् सूत्रे 'पाद' इत्यनेन केवलं शरीरस्य अवयवः एव गृह्यते, न हि परिमाणवाची पादशब्दः । 2. अध्यर्धपूर्व/द्विगुसमासस्य विषये आर्हीय-प्रत्ययस्य <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इत्यनेन वस्तुतः लुक्-भवति । परन्तु अत्र निर्देशसामर्थ्यात् लुकं बाधित्वा यत्-प्रत्ययः क्रियते ।

Balamanorama

Up

<<पणपादमाषशतादत्>> - प्राण्यङ्गार्थस्येति । व्याख्यानादिति भावः । इह सूत्रे पणमाषसाहचर्यात्पादशब्दोऽपि परिमाणविशेषवाची गृह्रते ।

Padamanjari

Up

पद्बावोऽत्र न भवतीति।'पद्यत्यतदर्थे' इत्यनेन। किं कारणमित्याह - प्राण्यङ्गस्येति।'पादस्य पदाज्यातिगोपहतेषु' इत्यत्र तावत् प्राण्यङ्गस्य पादस्य ग्रहणं तस्यैवाज्यादिभिर्गतिवचनैः सबन्धसद्भावात् पद्यतीत्यादावपि तस्यैवानुवृत्तिः। इह तु परिमाणमिति। गृह्यते इति शेषः। पणमाभ्यां साहचर्यादिति भावः ॥