6-3-136 निपातस्य च उत्तरपदे ऋचि
ऋचीत्येव। निपातस्य च ऋग्विषये दीर्घ आदेशो भवति। ए॒वा ते॑ (ऋ० १०.२०.१०)। अच्छा॑ (ऋ० १.२.२)॥
एवा हि ते (ए॒वा हि ते॒) ॥
एवशब्दश्चादिषु पाठान्निपातः, अच्छ गत्यर्थवदेषु इत्यच्छशब्दः ॥