यावत्पुरानिपातयोर्लट्

3-3-4 यावत्पुरानिपातयोः लट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भविष्यतीत्येव। यावत्पुराशब्दयोर्निपातयोरुपपदयोर्भविष्यति काले धातोर्लट् प्रत्ययो भवति। यावद् भुङ्क्ते। पुरा भुङ्क्ते। निपातयोरिति किम्? यावद् दास्यति तावद् भोक्ष्यते। करणभूतया पुरा व्रजिष्यति॥

Siddhanta Kaumudi

Up

यावद्भुङ्क्ते । पुराभुङ्क्ते । निपातावेतौ निश्चयं द्योतयतः । निपातयोः किम् । यावद्दास्यते तावद्भोक्ष्यते । करणीभूतया पूरा यास्यति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<यावत्पुरानिपातयोर्लट्>> - यावत्पुरा । यावत् पुरा इति द्वे पदे । अनयोः प्रयुज्यमानयोर्लट् स्यादित्यर्थः । लुडादेरपवादः । निश्चयं द्योतयत इति ।यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे॑इत्यमरः । यावद्दास्यते तावद्भोक्ष्यते इति । यत्परिणमाणकं तत्परिमाणकमित्यर्थः ।यत्तदेतेभ्यः परिमाणे वतु॑बिति वतुबन्तत्वेन निपातत्वाऽभावान्न लडिति भावः । करणभूतयेति ।पुरा यास्यती॑ति प्रत्युदाहरणान्तरम् । पुर्शब्दस्य पुरेति तृतीयान्तमिदम् । तत्स्फोरणाय करणभूतयेत्युक्तम् ।

Padamanjari

Up

'पुरा' इत्यविभक्तिको निर्देशः, कर्मधारयो वा । निपातनाद्विशेषणस्य परनिपातः । निपातौ चैतौ निश्चयं द्योतयतः । एतयोश्च प्रयोगे वर्तमाने लण्न भवति; भविष्यत्कालतया वर्तमानकालताया बाधनात् । यावद्दास्यतीति । यत्परिमाणमस्य'यतदेतेभ्यः परिमाणे वतुप्' , ठा सर्वनाम्नःऽ इत्यात्वम् । पुरा व्रजिष्यतीति ।'पृ पालनपूरणयोः' 'भ्राजभास' इत्यादिना क्विप्, ठुदोष्ठ।ल्पूर्वस्यऽ इत्युत्वम् । अस्य तृतीयान्तत्वं द्योतयितुं करणभूतयेत्युक्तम् । प्रतिपदोक्तत्वादेव निपातयोर्ग्रहणे सिद्धे निपातग्रहणं लक्षणप्रतिपदोक्तपरिभाषाया अनित्यत्वज्ञापनार्थम् । तेन ठातां पुग्णौऽ इत्यत्र लाक्षणिकरयाप्याकारान्तस्य पुग्भवति,'क्रीङ्जीनां णौ' क्रापयति, जापयतीति ॥